________________
सरस्वती
-
अष्टक
आराद्धा श्रद्धया सम्यग्ज्ञानादिविजयश्रियम् । ददती जगतां मातर्जय भारत देवते
चतुर्वरदवीणाक्षसूत्रपुस्तकभृद्भुजे । मरालवाहने शक्रक्रियमाणा श्रमस्तवे
आ श्रीसूरिमन्त्रस्य विद्यापीठे पदे स्थिते । श्रीमद्गौतमपादाब्जपरिचर्यामरालिके
श्रीजिनेन्द्रमुखाम्भोजविलासवसते सदा । जिनागमसुधाम्भोधिमध्यासिनि विधुद्युते
कविहृत्कमलाक्रीडप्रबोधतरणिप्रभे ।
प्रसीद भगवत्याशु देहि भारति मेऽर्थितम् ऐं नमः प्रमुखैर्मन्त्रैराराध्ये विश्वदेवते । मरुन्मणिलताजैत्रप्रभावसुभगे जय
आराध्या दर्शनैः सर्वैः, सकलाभीष्टदायिनी । रातु बोधिं विशुद्धं, मे, वाग्देवि जिनभक्तिभृत् स्तूयमाने महानेकमुनिसुंदरसंस्तवैः ।
स्तुते मयापि मे देहि प्रार्थितं श्रीसरस्वति
इति श्रीसूरिमन्त्रप्रथमपीठाधिष्ठायिका श्रीभारतीस्तोत्र ।
६४
Jain Education International For Private & Personal Use Only
118 11
॥२॥
॥३॥
॥४॥
॥५॥
॥६॥
॥७॥
11211
www.jainelibrary.org