SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्री सूरिमन्त्रस्तोत्र जयश्रियं श्रीजिनशासनस्य कलिद्विषोत्थापितविघ्नहर्ता । परां यएवातनुतेऽधुनापि श्री सूरिमन्त्रं प्रयतः स्तुवे तम् ॥१॥ त्वं तीर्थकृत् त्वं परमं च तीर्थं त्वं गौतमस्त्वं गणभृत् सुधर्मा । त्वं विश्वनेता त्वमसीहितानां निधिः सुखानामिह मन्त्रराज ! ॥२॥ किं कामधेनुः सुरपादपो वा किं कामकुम्भः सुमनोमणिर्वा । यदि प्रसन्नः सकलेष्टदायी श्रीसूरिमन्त्रोऽपि जगत्पतिस्त्वम् ॥३॥ त्वयि स्थिते चेतसि के नु विघ्नाः के दुर्जना: के प्रतिपक्षभूपाः । के वैरिणः के दुरुपद्रवाश्च स्वामिन् ! समग्रं हि सुखाकृदेव ॥४॥ न लब्ध्यः काश्चन ते प्रभावात् त्वयि प्रभौ भक्तिभृतां दुरापाः । सदा सुखानन्दितचेतसो यत् खेलन्ति ते श्रीमहिमप्रभाभिः ॥५॥ प्रवर्तते तीर्थमिदं जिनस्य जयद् यदा दुःप्रसहं कुदृष्टेः । यदागमो यद्विजयी च धर्मस्तदत्र हेतुर्भगव॑स्त्वमेव श्री वर्धमानस्य निदेशतस्त्वं प्रतिष्ठितो गौतमगच्छनेत्रा । सिद्धीः समग्राः शिवसम्पदश्च सर्वोग्रपुण्यौघफलानि दत्से । ॥७॥ इति महामुनिसुन्दरसंस्तवास्पद गणेश्वरमन्त्रपते मया । महिमवारिनिधे स्तुत भक्तितो वितर मेऽर्थितसर्वसुखश्रियः ॥८॥ ॥ इति श्री सूरिमन्त्रस्तोत्र सम्पूर्णम् ॥ ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004960
Book TitleMaro Swadhyaya
Original Sutra AuthorN/A
AuthorDivyaratnavijay
PublisherShraman Seva Parivar
Publication Year
Total Pages244
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy