________________
श्रीसर्वज्ञ-मुखोत्पन्ना, भारती बहुभाषिणी अज्ञानतिमिरं हन्ति, विद्या-बहुविकासिनी सरस्वती मया दृष्टा, दिव्या कमललोचना । हंसस्कंध - समारूढ़ा, वीणा पुस्तक- धारिणी प्रथमं भारती नाम, द्वितीयं च सरस्वती । तृतीयं शारदादेवी, चतुर्थं हंसगामिनी पंचमं विदुषां माता, षष्ठं वागीश्वरी तथा । कुमारी सप्तमं प्रोक्तं, अष्टं ब्रह्मचारिणी नवमं च जगन्माता, दशमं ब्राह्मिनी तथा । एकादशं तु ब्रह्माणी, द्वादशं वरदा भवेत् वाणी त्रयोदशं नाम, भाषा चैव चतुर्दशं । पंचदशं श्रुतदेवी, षोडशं गौर्निगद्यते
118011
६२
Jain Education International For Private & Personal Use Only
॥ ११ ॥
॥११॥
॥१२॥
॥१३॥
॥१४॥
॥१५॥
एतानि श्रुतनामानि प्रातरुत्थाय यः पठेत् । तस्य संतुष्यति माता, शारदा वरदा भवेत् ॥१६॥ सरस्वती ! नमस्तुभ्यं, वरदे ! कामरूपिणि ! विद्यारंभं करिष्यामि, सिद्धिर्भवतु मे सदा
॥१७॥
॥ इति श्री सरस्वती नाम स्तोत्रम् ॥
www.jainelibrary.org