________________
ह्रीं क्लीं ब्लीं ततः श्रीं तदनु, ह् स् क् लू ह्रीं अथ ऐं नमोऽन्ते । लक्षं साक्षाज्जपेद्यः करसमविधिना सत्तपा ब्रह्मचारी निर्यान्तीं चन्द्रबिम्बात् कलयति मनसा त्वां जगच्चन्द्रिकाभां सोऽत्यर्थं वह्निकुण्डे विहितघृतहुतिः स्याद् दशांशेन विद्वान् ॥१०॥ रे रे लक्षणकाव्यनाटक- कथा चम्पूसमालोकने क्वायासं वितनोषि बालिश ! मुधा किं नम्रवक्त्राम्बुजः । भक्त्याऽऽराधय मन्त्रराजमहसाऽनेनानिशं भारतीं येन त्वं कवितावितानसविताऽद्वैतप्रबुद्धायसे चञ्चवच्चन्द्रमुखी प्रसिद्धमहिमा स्वाच्छंद्यराज्यप्रदा, नायासेन सुरासुरेश्वरगणैरभ्यर्चिता भक्तितः । देवी संस्तुतवैभवा मलयजा लेपाङ्गरङ्गति सा मां पातु सरस्वती भगवती त्रैलोक्यसंजीवनी स्तवनमेतदनेकगुणान्वितं पठति यो भविकः प्रमनाः प्रगे स सहसा मधुरैर्वचनामृतैर्नृपगणानपि रंजयति स्फुटम्
।
,
मंत्र संसारसारं त्रिजगदनुपमं सर्वपापारिमंत्रं, संसारोच्छेदमंत्रं विषमविषहरं कर्मनिर्मूलमंत्रं । मंत्रं सिद्धिप्रदानं शिवसुखजननं केवलज्ञानमंत्रं,
मंत्रं श्रीजैनमंत्रं जप जप जपितं जन्म निर्वाणमंत्रं ॥
॥११॥
॥१२॥
॥१३॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org