________________
अनुभूतसिद्धसारस्वतस्तोत्र
कलमरालविहंगमवाहना, सितदुकूलविभूषणलेपना । प्रणतभूमिरुहामृतसारिणी, प्रवरदेहविभाभरधारिणी
अमृतपूर्णकमण्डलुहारिणी, त्रिदशदानवमानवसेविता । भगवती परमैव सरस्वती, मम पुनातु सदा नयनाम्बुजम् जिनपतिप्रथिताखिलवाङ्मयी, गणधराऽऽननमण्डपनर्तकी । गुरुमुखाम्बुजखेलनहंसिका, विजयते जगति श्रुतदेवता अमृतदीधितिबिम्बसमाननां, त्रिजगतीजननिर्मितमाननाम् नवरसामृतवीचिसरस्वतीम्, प्रमुदितः प्रणमामि सरस्वतीम् विततकेतकपत्रविलोचने ! विहितसंसृतिदुष्कृतमोचने ! | धवलपक्षविहङ्गमलाञ्छिते, जय सरस्वति ! पूरितवाञ्छिते भवदनुग्रहलेशतरङ्गितास्तदुचितं प्रवदंति विपश्चितः । नृपसभासु यतः कमलाबला, कुचकलाललनानि वितन्वते गतधना अपि हि त्वदनुग्रहात्, कलितकोमलवाक्यसुधोर्मयः । चकितबालकुरङ्गविलोचना, जनमनांसि हरन्तितरां नराः करसरोरुहखेलनचञ्चला, तव विभाति वरा जपमालिका । श्रुतपयोनिधिमध्यविकस्वरो-ज्ज्वलतरङ्गकलाग्रहसाग्रहा द्विरद- केसरिमारि - भुजङ्गमाऽसहनतस्करराजरुजां भयम् । तव गुणावलिगानतरङ्गिणां, न भविनां भवति श्रुतदेवते
118 11
॥२॥
॥३॥
11811
॥५॥
॥६॥
॥७॥
በረበ
॥९॥
५८
Jain Education International For Private & Personal Use Only www.jainelibrary.org