SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ॥१॥ ॥२॥ ॥३॥ ॥४ ॥ ॥ श्री लब्धिपदगर्भितमहर्षिस्तोत्र ॥ जिनास्तथा सावधयश्चतुर्धा, सत्केवलज्ञानधनास्त्रिधा च । द्विधा मनःपर्यवशुद्धबोधा, महर्षयः सन्तु सतां शिवाय सुकोष्ठसद्बीजपदानुसारि-धियो द्विधा पूर्वधराधिपाश्च । एकादशाङ्गाष्टनिमित्तविज्ञा, महर्षयः सन्तु सतां शिवाय संस्पर्शनं संश्रवणं समन्ता-दास्वादन-घ्राण-विलोकनानि । संभिन्नसंस्त्रोततया विदन्ते, महर्षयः सन्तु सतां शिवाय आमर्शविप्रण्मलखेलजल्ल-सर्वौषधिदृष्टिवचोविषाश्च । आशीविषा घोरपराक्रमाश्च, महर्षयः सन्तु सतां शिवाय प्रश्नप्रधानाः श्रमणा मनोवाग्वपुर्बला वैक्रियलब्धिमन्तः । श्रीचारणव्योमविहारिणश्च, महर्षयः सन्तु सतां शिवाय घृतामृतक्षीरमधूनि धर्मोपदेशवाणीभिरभित्रवन्तः । अक्षीणसंवासमहानसाश्च, महर्षयः सन्तु सतां शिवाय सुशीततेजोमयतप्तलेश्या, दीपं तथोग्रं च तपश्चरन्तः । विद्याप्रसिद्धा अणिमादिसिद्धा, महर्षयः सन्तु सतां शिवाय अन्येपि ये केचन लब्धिमन्तस्ते सिद्धचक्रे गुरुमण्डलस्थाः । ह्रीं तथा ऽहँ नम इत्युपेता, महर्षयः सन्तु सतां शिवाय इत्यादिलब्धिनिधानाय श्रीगौतमस्वामिने स्वाहा । गणसंपत्समृद्धाय श्रीसुधर्मस्वामिने स्वाहा । ॥५॥ ॥६॥ ॥७॥ ॥८ ॥ .४७. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004960
Book TitleMaro Swadhyaya
Original Sutra AuthorN/A
AuthorDivyaratnavijay
PublisherShraman Seva Parivar
Publication Year
Total Pages244
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy