SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ॥ नमस्कारमंत्राधिराजस्तोत्रम् ॥ यः सर्वदुःखदलने किल कल्पवृक्षश्चिंतामणी शुभमनोरथपूरणे सः । कन्दर्पदर्पदलनेकविधौ दवाग्निर्लोकत्रये विजयते परमेष्ठिमंत्रः ॥१॥ सर्वागमश्रुतसमुद्रसुधेन्दुसार: चारित्रचंदनवनं सदनं सुखानां । कल्याणकुन्दनखनिर्दमनं दराणं, लोकत्रये विजयते परमेष्ठिमंत्रः ॥२॥ संसारसागरनिमज्जदपूर्वनौका सिद्धौषधिविविधरोगविनाशने च । निःशेषलब्धिबलबोधतरोश्च बीजं लोकत्रये विजयते परमेष्ठिमंत्रः ॥३॥ सूर्यसहस्त्रकिरणैर्हरति तमांसि सिंहो यथा गजगणांश्च नखैनिहन्ति, संसारवर्तिदुरितानि तथैव मंत्रो लोकत्रये विजयते परमेष्ठिमंत्रः ॥४॥ पद्माकरे रुचिररश्मिभिरौषधीशं शीघ्रं प्रबोधयति निद्रितकैरवाणि । अन्तः सुषुप्तगुणपद्मदलानि चैवं लोकत्रये विजयते परमेष्ठिमंत्रः ॥५॥ भूमंडलेषु शुभवस्तु न विद्यते तत् ध्यानेन यस्य ननु यन्नहि साधनीयम्। दुःखं न तद् भवति यस्य विनाशनं नो लोकत्रये विजयते परमेष्ठिमंत्रः॥६॥ श्रीपालदेवधरणेन्द्रसुदर्शनाद्या पल्लिपतिश्च शिवकंबलशंबलाद्याः । ध्यात्वा हि यं पद्मगुः परमं पवित्रं लोकत्रये विजयते परमेष्ठिमंत्रः॥७॥ भक्त्या दधाति हदि यो ननु मंत्रराजं दिव्यां गतिं व्रजति नूतनमुक्तिमोदं चूर्णीकरोति भवसञ्चितकर्मशैलं लोकत्रये विजयते परमेष्ठिमंत्रः ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004960
Book TitleMaro Swadhyaya
Original Sutra AuthorN/A
AuthorDivyaratnavijay
PublisherShraman Seva Parivar
Publication Year
Total Pages244
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy