SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ मुनिनाम् अप्रमादयन्त्रम्-[ उपमिति] यावज्जीवमेते नाचरन्ति तनीयसीमपि परपीडां, न भाषन्ते सूक्ष्ममप्यलीकवचनं, न गृह्णन्ति दन्तशोधनमात्रमप्यदत्तं, धारयन्ति नवगुप्तिसनाथं ब्रह्मचर्य, वर्जयन्ति निःशेषतया परिग्रहं, न विदधते धर्मोपकरणशरीरयोरपि ममत्वबुद्धि, नासेवन्ते रजन्यां चतुर्भेदमप्याहारजातं, आददते प्रवचनोपवर्णितं समस्तोपधिविशुद्धं संयमयात्रामात्रसिद्धये निरवद्यमाहारादिकं , वर्तन्ते समितिगुप्तिपरिपूरितेनाचरणेन, पराक्रमन्ते विविधाभिग्रहकरणेन, परिहरन्ति अकल्याणमित्रयोगं, दर्शयन्ति सतामात्मभावं, न लयन्ति निजामुचितस्थिति, नापेक्षन्ते लोकमार्ग, मानयन्ति गुरुसंहति, चेष्टन्ते तत्तन्त्रतया, आकर्णयन्ति भगवदागमं भावयति महायत्नेन, अवलम्बते द्रव्यापदादिषु धैर्य, पर्यालोचन्त्यागामिनमपायं, यतन्ते प्रतिक्षणमसपत्नयोगेषु, लक्षयन्ति चित्तविश्रोतसिकां, प्रतिविदधते चानागतमेव तस्याः प्रतिविधानं, निर्मलयन्ति सततमसङ्गताभ्यासरततया मानसं, अभ्यस्यन्ति योगमार्ग, स्थापयन्ति चेतसि परमात्मानं, निबध्नन्ति तत्र धारणां, परित्यजन्ति बहिर्विक्षेपं, कुर्वन्ति तत्प्रत्यैक-तानमन्तःकरणं, यतन्ते योगसिद्धौ आपूरयन्ति शुक्लध्यानं, पश्यन्ति देहेन्द्रियादिविविक्तमात्मानं, लभन्ते परमसमाधिं, शरीरिणोऽपि सन्तो मुक्तिसुखभाजनम् इति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004960
Book TitleMaro Swadhyaya
Original Sutra AuthorN/A
AuthorDivyaratnavijay
PublisherShraman Seva Parivar
Publication Year
Total Pages244
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy