________________
दुर्जना भूतवेतालाः पिशाचा मृद्गलास्तथा । ते सर्वेऽप्युशाम्यन्तु, देवदेवप्रभावतः
ह्रीः श्रीश्च धृतिर्लक्ष्मी:, गौरी चण्डी सरस्वती । जयाम्बा विजया क्लिन्ना, ऽजिता नित्या मदद्रवा
कामांगा कामबाणा च, सानंदा नन्दमालिनी । माया मयाविनी रौद्री कला काली कलिप्रिया
,
एताः सर्वाः महादेव्यो, वर्तन्ते या जगत्त्रये । मह्यं सर्वाः प्रयच्छंतु, कान्तिं कीर्ति धृतिं मतिं
दिव्यो गोप्यः सुदुष्प्राप्य, श्रीऋषिमण्डलस्तव: । भाषितस्तीर्थनाथेन, जगत्त्राणकृतेऽनघः
रणे राजकुले वनौ, जले दुर्गे गजे हरौ । श्मशाने विपिने घोरे, स्मृतो रक्षति मानवं
राज्यभ्रष्टा निजं राज्यं, पदभ्रष्टा निजं पदं । लक्ष्मीभ्रष्टा निजां लक्ष्मी, प्राप्नुवन्ति न संशयः
भार्यार्थी लभते भार्यां, सुतार्थी लभते सुतं । वित्तार्थी लभते वित्तं नरः स्मरणमात्रतः
,
स्वर्णे रौप्ये पटे कांस्ये, लिखित्वा यस्तु पूजयेत् । तस्यैवाष्टमहासिद्धिर्गृहे वसति शाश्वती
॥८१॥
॥ ८२ ॥
॥८३॥
॥८४॥
॥८५॥
॥८६॥
॥८७॥
॥८८॥
॥ ८९ ॥
९८
Jain Education International For Private & Personal Use Only www.jainelibrary.org