________________
सकलं निष्कलं तुष्टं, निर्वृत्तं भ्रान्तिवर्जितम् । निरंजनं निराकारं, निर्लेपं वीतसंश्रयम् ईश्वरं ब्रह्म संबुद्धं, सिद्धं बुद्धं मतं गुरुम् । ज्योतिरूपं महादेवं, लोकालोकप्रकाशकम्
अर्हदाख्यस्तुवर्णांतः सरेफो बिन्दुमण्डितः । तुर्यस्वरसमायुक्तो, बहुधा नादमालितः
,
एकवर्णं द्विवर्णं च त्रिवर्णं तुर्यवर्णकम् । पंचवर्णं महावर्णं, सपरं च परापरम्
अस्मिन् बीजे स्थिताः सर्वे, ऋषभाद्या जिनोत्तमाः । वर्णैर्निजैर्निजैर्युक्ताः, ध्यातव्यास्तत्र संगता :
नादश्चंद्रसमाकारो, बिन्दुर्नीलसमप्रभः । कलारुणसमासांतः, स्वर्णाभः सर्वतोमुखः शिरः संलीनईकारो, विनीलो वर्णतः स्मृतः । वर्णानुसारसंलीनं, तीर्थकृन्मंडलं स्तुमः
चन्द्रप्रभ - पुष्पदन्तौ नादस्थितिसमाश्रितौ । 'बिन्दु' मध्यगतौ नेमि - सुव्रतौ जिनसत्तमौ
पद्मप्रभ - वासुपूज्यौ, 'कला' पदमधिष्ठीतौ । शिर - 'ई' स्थितिसंलीनौ, पार्श्व-मल्लीजिनोत्तमौ
॥१७॥
॥१८॥
॥१९॥
॥२०॥
॥२१॥
॥२२॥
॥२३॥
॥२४॥
॥२५॥
९३
Jain Education International For Private & Personal Use Only www.jainelibrary.org