________________
१००. उपदेशरत्नाकर - मुनिसुन्दरसूरि - चतुर्थेऽशे तृतीयस्तरङ्गः । (Pg.130) अथौषधचतुर्भङ्गीदृष्टान्तेन विध्यविधिधर्मविचारमाह
दोष १ गुणो२ भय३णुभयं ४ जह कुज्जा ओसहं तहा धम्मो । मिच्छत्तं १ अनिआणो २ सनिआणो ३ भावसुन्नो ४ अ । १ । ।
सनिआणो त्ति निदानं तपःफलप्रार्थनं तेन सहितः सनिदानोऽधिकारात् सर्वज्ञप्रणीत एव धर्मः, स च दोषं गुणं चेत्युभयं करोति ।।
अत्राह कश्चित् ननु मिथ्यात्वक्रियाधर्मफलस्य राज्यादेरनन्तरभवे दुर्गतिहेतुत्वेन दोषत्वं प्राक् प्रत्यपादि, इह तु दानधर्मफलस्य राज्यादेस्तथैव दुर्गतिहेतुत्वेऽपि गुणत्वं तत्र को विशेषः ? उच्यते- मिथ्यादृक्तपसां तथाविधविवेकरहितत्वेन प्रायः पापानुबन्धित्वात् तत्फलराज्यादेस्तत्प्राप्तिमतां नृपादीनां धर्मवैमुख्यमहारम्भादिप्रवर्त्तकत्वेनैव केषाञ्चिद्धर्माभिमुखे च हिंसादिमययज्ञादिमिथ्यात्वक्रियैकरुचितत्प्रवर्तकत्वादिभिश्च दुर्लभबोधिताकरणेन दोषरूपत्वम् । सनिदानजिनमतीयत-पःफलराज्यादि पुनः स्वप्राप्तिमतां नृपादीनां सर्वविरत्यादिविशेषधर्मा - नुपलम्भकत्वेऽपि जिनधर्मानुरागादेर्धर्मस्य यथार्हं प्रापकत्वेन भवान्तरे सुलभबोधिताकरणात् गुणत्वमिति । विशेषज्ञैर्हेत्वन्तरं वा यथायुक्त्यत्र वाच्यमिति तृतीयो धर्मप्रकारः ।
હવે ઔષધના ચાર ભાંગાના દૃષ્ટાંત વડે વિધિ અવિધિ રૂપ ધર્મનો વિચાર ४२ छे. (१) घोष (२) गुए। (3) उभय (४) अनुमय ठेवी रीते औषध छे. तेवीरीते धर्म छे. (१) मिथ्यात्व (२) अनिया ( 3 ) नियाशा सहित अने (४) भाव रहित
Jain Education International
(५४)
For Private & Personal Use Only
www.jainelibrary.org