________________
• सविकल्पाऽविकल्पज्ञानयोः युगपद्वृत्तिता •
२१३१
शुद्धनयैस्तैरुत्तरोत्तरविशुद्धपर्यायमात्राऽभ्युपगमात् । ज्ञानादीनां क्षणरूपताया: क्षणसत्तयाऽपि
एतेन दुःखत्वं देवदत्तदुखत्वं वा स्वाश्रयाऽसमानकालीनध्वंसाऽप्रतियोगिवृत्ति कार्यमात्रवृत्तिधर्मत्वात् सन्ततित्वाद्वा एतत्प्रदीपत्ववत् ← (त. चिं. अनु. खण्ड-२/मु.वा. पृ. १७७) इति तत्त्वचिन्तामणिकृद्वचनं प्रत्यस्तम्, महाप्रलये मानाऽभावेन कार्यमात्रवृत्तित्वस्य घटत्वादिवृत्तितया व्यभिचारवारणायाऽवश्यकक्षीकर्तव्यपक्षान्तरे हेत्वन्तरस्य सन्ततित्वस्य ऋजुसूत्रादिनयाभिमतविशुद्धाऽखण्डज्ञानसुखादिसन्ततौ व्यभिचारात् । न हि मुक्तित्वेन रूपेण ऋजुसूत्रादिनयाभिमतां निर्मल-निरुपाधिकज्ञानादिसन्ततिः क्वचित् कदाचिदुच्छिद्यते, येन स्वाश्रयाऽसमानकालीनध्वंसप्रतियोगिवृत्तित्वं निरुपप्लवज्ञानादिसन्ततित्वस्य सम्भवेत् । न्यायलीलावतीकारादिसम्मतानां केषाञ्चित् संसार्येकस्वभावानामात्मनामदृष्टसन्ततावपि गङ्गेशोक्तहेतोः व्यभिचारः स्पष्ट एव । सन्तत्युच्छेदे मूलोच्छेदस्य प्रयोजकत्वात् संसारैकस्वभावानामभव्यानां सहजमलानुच्छेदेन तदीयाऽदृष्टसन्ततौ व्यभिचारस्याऽप्रत्याख्येयत्वादित्यलं प्रसक्तानुप्रसक्तेन ।
प्रकृतमुच्यते । ऋजुसूत्रादिनयानुसारेणाभिहितं सम्मतितर्कवृत्तौ
निराश्रवचित्तसन्तत्युत्पत्तिलक्षणा त्वभ्युपगम्यत एव केवलं सा चित्तसन्ततिः सान्वया युक्ता, बद्धो हि मुच्यते नाऽबद्धः । न च निरन्वये चित्तसन्ताने बद्धस्य मुक्तिः सम्भवति । तत्र ह्यन्यो बद्धोऽन्यश्च मुच्यते । 'सन्तानैक्याद् बद्धस्यैव मुक्तिरत्रापी'ति चेत् ? यदि सन्तानार्थः परमार्थसंस्तदाऽऽत्मैव सन्तानशब्देनोक्तः स्यात् । अथ संवृतिसन् तदैकस्य परमार्थसतोऽसत्त्वादन्यो बद्धोऽन्यश्च मुच्यत इति बद्धस्य मुक्त्यर्थं न प्रवृत्तिः स्यात् ← (सं.त.वृ.का. १ / गा.१/मुक्तिवाद - पृ. २६२) इत्यादि ।
एतेन यं किञ्चि समुदयधम्मं सव्वं तं निरोधधम्मं ← (म.नि.३ / ४७/२) इति मज्झिमनिकायवचनमपि व्याख्यातम्, द्रव्योपसर्जनभावेन पर्यायप्राधान्याऽर्पणया तदुपपत्तेः । तथाहि - सुनयश्चेत् ऋजुसूत्रादिः ? तदा नाऽऽत्माऽपलापी, परं तत्रोदासीनो मूको वा । न चैवं सन्तत्यनुपपत्तिः, पूर्वपूर्वक्षणानामेवोत्तरोत्तरज्ञानाद्युपादानत्वेन तदुपपत्तेः । न च संसारेषु सुषुप्त्याद्यवस्थायां ज्ञानादिविच्छेदात् सन्ततिविच्छेदः, तदाप्यव्यक्तज्ञानोपगमात् । न चैवं जाग्रत्सुषुप्त्यवस्थासङ्करः, व्यक्ताऽव्यक्तज्ञानयोगात् तदसाङ्कर्यात् । ‘सुषुप्तौ सतो ज्ञानादेः कथमनुपलक्षणमिति चेत् ? अश्वविकल्पकाले गोदर्शनस्येवेति विभाव्यताम् । न च युगपज्ज्ञानद्वयाऽनभ्युपगमात् तदा तदसम्भव इति वाच्यम्, सविकल्पाऽविकल्पयोर्युगपद्वृत्तेरनुभवात्, अन्यथा 'यदा मया गौर्दृष्टः तदाऽश्वो विकल्पितः' इत्युत्तरकालं प्रतिसन्धानं न स्यात् । शुद्धनयैः तैः ऋजुसूत्राद्येवम्भूतपर्यवसानैः शुद्धपर्यायार्थिकत्वेन उत्तरोत्तरविशुद्धपर्यायमात्राऽभ्युपगमात् । न च ज्ञानादीनां पर्यायाणां क्षणात्मकता कुतः सिद्धेति शङ्कनीयम्, ज्ञानादीनां पर्यायाणां क्षणरूपतायाः = क्षणात्मकतायाः क्षणसत्तयाऽपि क्षणमात्रसत्तयैव सिद्धेः, तस्याः =
क्षणमात्रसत्तायाः
પર્યાયને જ સ્વીકારે છે. જ્ઞાનાદિ ક્ષણરૂપ છે આ વાતની સિદ્ધિ તો જ્ઞાનાદિની ક્ષણમાત્ર સત્તાથી = હાજરીથી થઈ જાય છે. કારણ કે ક્ષણમાત્ર હાજરી ક્ષણના અભેદનું વ્યાપ્ય છે. અર્થાત્ ક્ષણમાત્રસત્તા જ્યાં હોય ત્યાં ક્ષણતાદાત્મ્ય હોય જ- આવી વ્યાપ્તિ છે. આવી વ્યાપ્તિ ક્ષણના સ્વરૂપમાં દેખાય છે. ક્ષણનું સ્વરૂપ ક્ષણમાત્રસત્તાને ધરાવે છે. તેમ જ ક્ષણનું સ્વરૂપ ક્ષણથી અભિન્ન પણ છે.
આ વ્યાપ્તિ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-
=