________________
२१३० • जीवन्मुक्तिविद्योतनम् .
द्वात्रिंशिका-३१/१९ नयानेवाऽत्राऽभिव्यनक्तिऋजुसूत्रादिभिर्ज्ञान-सुखादिकपरम्परा । व्यङ्गयमावरणोच्छित्या सङ्ग्रहेणेष्यते सुखम् ।।१९।। ___ ऋजुसूत्रादिभिरिति । ऋजुसूत्रादिभिः नयैः ज्ञान-सुखादिपरम्परा मुक्तिरिष्यते, वस्तुविचारादनित्यसंसारसुख-दुःखविषयसमस्तक्षेत्रममताबन्धक्षयो मोक्षः - (निरा.९) इति मोक्षलक्षणमुक्तं तत्तु वासनाऽपराभिधानाया अविद्याया वास्तवत्वे जीवन्मुक्तिमधिकृत्य यथातन्त्रमनुयोज्यम् । तदुक्तं अन्नपूर्णोपनिषदि → सङ्गत्यागं विदुर्मोक्षं सङ्गत्यागादजन्मता । सङ्गं त्यज त्वं भावानां जीवन्मुक्तो भवाऽनघ !।। - (अन्न.५/४) इति । यथोक्तं विवेकचूडामणौ अपि → वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते 6 (वि.चू.३१८) इति । एतेन → निर्विषयो नाम मनसो मुक्तिरिष्यते - (त्रिपु.५/ १) इति त्रिपुरातापिन्युपनिषद्वचनमपि व्याख्यातम् ।
परमार्थतस्तु कृत्स्नकर्मक्षय एव मुक्तिः, तस्यैवाऽनेकान्तभावनाजनिततत्त्वज्ञानोपबृंहितशैलेशीकरणरूपप्रयत्नसाध्यत्वादित्यादिकं (न्या.१/पृ.२९) न्यायालोकादवसेयम् ।।३१/१८।।
जिनप्रवचनस्य सर्वनयमयत्वात् तावत् नयानेव अत्र मुक्तौ ग्रन्थकृद् अभिव्यनक्ति - 'ऋजुसूत्रे'ति । ऋजुसूत्रनयो हि द्रव्यं सदप्युपसर्जनीकृत्य क्षणध्वंसिनः पर्यायान् प्रधानतया दर्शयति । तदुक्तं प्रमाणनयतत्त्वालोकालङ्कारे 'ऋजु = वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्रयन्नभिप्रायः = ऋजुसूत्रः' (प्र.न.त.७/२५) इति । तदनुसारेण प्रमाणनयतत्त्वरहस्ये गुणरत्नसूरिभिरपि → शुद्धपर्यायग्राही ऋजुसूत्रः - (प्र.न.त.७/८) इत्युक्तम् । बौद्धानां ऋजुसूत्रनयाऽभ्युपगमप्रयोजनं मज्झिमनिकाये भद्रैकरक्तसूत्रे आनन्दभरैकरक्तसूत्रे, महाकात्यायनभद्रैकरक्तसूत्रे च → अतीतं नान्वागमेय्य नप्पटिको अनागतं । यदतीतं पहीनं तं, अप्पत्तञ्च अनागतं ।। पच्चुप्पन्नञ्च यो धम्मं तत्थ तत्थ विपस्सति । असंहीरं असंकुप्पं, तं विद्वा मनुब्रूहये ।। (म.नि.३/४/१/२७५,पृ.२२९) इत्यादिना, संयुत्तनिकाये → अतीतं नानुसोचन्ति नप्पजप्पन्ति नागतं । पच्चुप्पन्नेन यापेन्ति तेन वण्णो पसीदति ।। - (सं.नि.१/१/ १०) इत्यादिना, पटिसम्भिदामग्गे च → अतीतानुधावनं चित्तं विक्पानुपतितं समाधिस्स परिपन्थो । अनागतपटिकंखनं चित्तं विकम्पितं समाधिस्स परिपन्थो ।। - (प.सं.म.१/३/२/८) इत्यादिना व्यक्तीकृतं तदिहाऽनुसन्धेयमध्यात्ममार्गरतैः । ऋजुसूत्रादिभिः एवम्भूतपर्यवसानैः नयैः = शुद्धपर्यायार्थिकनयैः ज्ञानसुखादिपरम्परा = अमलाऽखण्डज्ञानाऽऽनन्दादिसन्ततिरेव मुक्तिः इति इष्यते । પ્રસ્તુતમાં નયોને જ ગ્રંથકારશ્રી પ્રગટ કરે છે.
હ જુસૂત્રનયમાન્ય મોક્ષનું પ્રતિપાદન હું ગાથાર્થ :- ઋજુસૂત્ર વગેરે નયો માને છે કે જ્ઞાન-સુખ વગેરેની પરંપરા = મુક્તિ. સંગ્રહાય भाने के 3 भाव२९॥ ४थी व्यंय थनार सुप = भुस्ति. (३१/१८)
ટીકાર્ય :- ઋજુસૂત્ર, શબ્દ, સમભિરુઢ અને એવંભૂત નયો માને છે કે જ્ઞાન, સુખ વગેરેની પરંપરા = સંતતિ એટલે મુક્તિ. કારણ કે ઋજુસૂત્ર વગેરે શુદ્ધ નયો તો માત્ર ઉત્તરોત્તર વિશુદ્ધ १. हस्तादर्श ‘स्वयम्' इत्यशुद्धः पाठः व्याख्यानुसारेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org