________________
• स्याद्वादस्य षड्दर्शनसमूहमयत्वम् •
२१२९ कृत्स्नकर्मक्षयो मुक्तिरित्येष तु विपश्चिताम् । स्याद्वादाऽमृतपानस्योद्गारः स्फारनयाऽऽश्रयः।।१८।। _कृत्स्नेति । (कृत्स्नकर्मक्षयः =) कृत्स्नानां कर्मणां ज्ञानाऽऽवरणादीनां' क्षयो मुक्तिरित्येष तु विपश्चितां = एकान्तपण्डितानां स्याद्वादाऽमृतपानस्योद्गारः, स्फारा ये नयाः = तत्तत्तन्त्रप्रसिद्धार्थास्तदाश्रयः (=स्फारनयाऽऽश्रयः), षड्दर्शनसमूहमयत्वस्य जैनदर्शने सम्मतिसम्मतत्वात् ।।१८।। अनिर्वचनीयत्वान्नायं दोष इति वाच्यम्, तथा सति → नास्ति माया च वस्तुतः - (पा.ब्र.४४) इति पाशुपतब्रह्मोपनिषद्वचनविरोधापत्तेः । एतेन → अनिर्वचनीया सैव माया जगबीजम् - (ग. उत्त.४/२) इति गणेशोत्तरतापिन्युपनिषद्वचनमपि निरस्तम्, अनिर्वचनीयतायाश्चाऽनिर्वचनीयत्वादिति व्यक्तं न्यायालोके (प्र.१/पृ.२८) । अधिकन्त्वस्मत्कृतभानुमतीतो विज्ञेयम् ।।३१/१७ ।।
परमतनिराकरणोत्तरमधुना निजसिद्धान्तमाविष्करोति- 'कृत्स्ने ति। ज्ञान-तद्विषययोरभेदविवक्षयोच्यते यदुत- स्फाराः = सापेक्षाः = सापेक्षांऽऽशिकसत्यताऽऽलिङ्गिताः ये नयाः तत्तत्तन्त्रप्रसिद्धार्थाः = सर्वदर्शनप्ररूपितपदार्थाः तदाश्रयः = तदवलम्बनक उद्गारः, → 'भई मिच्छादसणसमूहमइयस्स अमयसारस्स । जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स ।। (सं.त.३/६९) सम्मतितर्कवचनात् ‘मिच्छत्तमयसमूह अणेगंतं' (वि.आ.भा.९५४) इति विशेषावश्यकभाष्यवचनाच्च षड्दर्शनसमूहमयत्वस्य = सर्वतन्त्रसमन्वयात्मकत्वस्य जैनदर्शने सम्मतिसम्मतत्वात् = सम्मतितर्क-विशेषावश्यकभाष्यादिसम्मतत्वात् । तदुक्तं अन्यत्रापि → स्याद्वादाय नमस्तस्मै यं विना सकलाः क्रियाः । लोकद्वितयभाविन्यो नैव साङ्गत्यमियति ।। (स्थानाङ्ग-९ वृत्तौ उद्धृतः) इति भावनीयम् । शिष्टं स्पष्टम् ।
यत्तु शुक्लयजुर्वेदीयायां मुक्तिकोपनिषदि → मोक्षः स्याद् वासनाक्षयः - (मु.२/६८) इत्येवं मोक्षलक्षणमावेदितं यच्च तन्त्रान्तरीयायां अध्यात्मोपनिषदि-विवेकचूडामणौ च → वासनाप्रक्षयो मोक्षः 6 (अध्या.१२, वि.चू.३१८) इत्येवं मोक्षलक्षणमुपदर्शितम्, यच्चाऽपि निरालम्बोपनिषदि → नित्याऽनित्य
હ જેનમાન્ય મુક્તિની સમજણ હ ગાથાર્થ - તમામ કર્મોનો ક્ષય થાય તે મોક્ષ છે- આ તો પ્રાજ્ઞ પુરુષોના સાદ્વાદસુધારસપાનનો ઉદ્ગાર છે. આ ઉદ્ગાર સ્કુરાયમાન નયોના આધારે પ્રગટેલ છે. (૩૧/૧૮)
ટીકાર્ય - “જ્ઞાનાવરણીય-દર્શનાવરણીય વગેરે તમામ કર્મોનો ક્ષય એટલે મુક્તિ' આ તો છે અનેકાન્તવાદમાં કુશળ એવા પંડિતોના સ્યાદ્વાદરૂપી સુધારસના પાનનો ઉદ્ગાર. તે તે નયના આધારે ઊભા થયેલા અન્ય દર્શનોના સ્કુરાયમાન એવા પદાર્થોના આધારે આ ઉદ્ગાર ઊભો થયેલ છે. કારણ
नशन ५३शनसभूमय छ- भाj भागमसंमत छे. (३१/१८)
વિશેષાર્થ :- વિશેષાવશ્યકભાષ્યમાં શ્રીજિનભદ્રગણી ક્ષમાશ્રમણે જણાવેલ છે કે મિથ્યા મતોનો સમ્યક સમન્વય એટલે જૈનદર્શન. મતલબ કે સર્વ દર્શનોમાં રહેલા તે તે નયોને સાપેક્ષ એવી સત્યતા ધરાવનારા પદાર્થોનું સુંદર સંકલન જૈનદર્શનમાં કરવામાં આવેલ છે. તેના આધારે સ્યાદ્વાદામૃતરસાસ્વાદના ७॥२३५. मने तवाहीमो. 3 छ 3 सर्वभक्षय = भुति. (३१/१८) १. हस्तादर्श '...णादिक्षयो' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'सम्मतत्वात्' इति त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org