________________
• अविद्यावादिवेदान्तिनां प्रच्छन्नबौद्धरूपता •
द्वात्रिंशिका - ३१/१७
‘कण्ठगतचामीकरन्यायेन भ्रमादेव तत्र प्रवृत्तिरिति तु भ्रान्तपर्षदि वक्तुं शोभत इति भावः
२१२८
।।१७।।
'कण्ठगतचामीकरन्यायेन
मोक्षोद्देशेन निजकण्ठपीठगतसुवर्णहारमार्गणोदाहरणेन भ्रमादेव तत्र = पारिव्राज्यादौ प्रवृत्तिः युज्यत' इति तु भ्रान्तपर्षदि वक्तुं शोभते, न तु प्राज्ञाऽनेकान्तवादिसभायाम् । लोके हि क्रियासाध्यस्याऽप्राप्तस्याऽर्थस्य प्राप्तिः विद्यमानसम्भवाऽनर्थनिवृत्तिश्च पुरुषार्थतया दृष्टेति अत्यन्ताऽसत्याया अविद्याया निवृत्तेः परमार्थतः पुरुषार्थत्वाऽसम्भव एवेत्याशयः । एतेन स्वच्छायायामारोपितरक्षसो विस्मृतकण्ठगतचामीकरस्य भ्रान्तपुरुषस्याऽऽप्तवाक्येन तयोर्निवृत्त्याप्त्योरपि पुरुषार्थत्वदृष्टेः ← (वे.सा.२४) इति वेदान्तसारवृत्तौ नृसिंहसरस्वत्युक्तिरपि निरस्ता, अभ्रान्तस्य वेदान्तिनो मुमुक्षोः कथमपि मोक्षप्रवृत्त्यनुपपत्तेश्च । न हि छायापिशाचीन्यायानुसारिण्याः प्रवृत्तेः पारमार्थिकं पुरुषार्थत्वं शिष्टसम्मतम् । एतेन अविद्यमाना याऽविद्या तया विश्धं खिलीकृतम् ← (महो. ४ / १३३) इति महोपनिषद्वचनमपि निरस्तम्, अविद्यावद् वन्ध्यापुत्र शशशृङ्ग-खकुसुमादीनामप्यर्थक्रियाकारित्वाऽऽपत्तेः । न ह्यसतः कार्योत्पत्तिर्वेदान्तिनामपि परमार्थतः सम्मता । तदुक्तं ब्रह्मसूत्रे नाऽसतः, अदृष्टत्वात् ← (ब्र.सू.२/२/२६) इति । इत्थञ्च मोक्षशास्त्रोपदेशस्याऽपि वैयर्थ्यमेव वेदान्तिमते । ततश्च बद्धस्य हि बन्धनाशायोपदेशः ← (बृह.शां.भा. २/१/२०) इति बृहदारण्यकशाङ्करभाष्यवचनमपि प्लवत एव । न हि परमार्थतोऽविद्यमानस्योच्छेदः सम्भवति । तदुक्तं शङ्कराचार्येणैव विवेकचूडामणी अजातस्य कुतो नाशः ? ← (वि.चू. ४६२ ) इति ।
वस्तुतः अविद्यावादिनो वेदान्तिनः प्रच्छन्नबौद्धरूपताऽवसेया । तदुक्तं पद्मपुराणे मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमेव च । मयैव कथितं देवि ! कलौ ब्राह्मणरूपिणा ।। ← ( प. पु. ६ ।२६३ /७०) इत्यवधेयम् ।
=
अथ अविद्यानिवृत्तिरेव पुरुषार्थ इति चेत् ? न, अविद्यायाः परमार्थतोऽसत्त्वेन नित्यनिवृत्तत्वात् । ततश्च तस्या अर्थक्रियाकारित्वं संसारदशायामपि दुर्घटमेव । एतेन जस्स नत्थि पुरा पच्छा मज्झे तस्स कुओ सिआ ? ← ( आचा. १/४/४) इति आचाराङ्गसूत्रमपि व्याख्यातम् । अत एव तत्कृतबन्धसंसारादिकमपि काल्पनिकमेव स्यात् । तदुक्तं आत्मोपनिषदि मायाक्लृप्तौ बन्ध-मोक्षौ न स्तः स्वात्मनि वस्तुतः ← (आत्मो . २६) इति । तथा च मोक्षपुरुषार्थोच्छेदाऽऽपत्तिः स्फुटैव । न चाऽविद्याया શોધખોળ શરૂ કરે છે તેમ વેદાન્તમતાનુસાર સચ્ચિદાનંદસ્વરૂપ બ્રહ્મતત્ત્વ નિત્ય અને સર્વગત હોવાથી સિિહત જ છે. તેમ છતાં ‘હું અજ્ઞાની છું. હું બંધાયેલ છું. હું દુઃખી છું' આ પ્રમાણે સંસારદશામાં ભ્રમ થવાના લીધે મોક્ષને ઉદ્દેશીને પરિવ્રાજક થવાની પ્રવૃત્તિ થાય છે.
જૈન ભ્રમથી મોક્ષને ઉદ્દેશીને સંન્યાસ-પ્રવ્રજ્યાદિ પ્રવૃત્તિ થાય છે- આવું કહેવું તો તે સભામાં જ શોભે કે જે સભામાં બધા ભ્રાન્ત લોકો બેસેલા હોય. ‘સંન્યાસને સ્વીકારનાર શંકરાચાર્ય શું ભ્રાન્ત હતા ?' આવો પ્રશ્ન કરનારા પ્રાજ્ઞ સભ્યો જ્યાં બેસેલા હોય તેવી સભામાં તો ઉપરોક્ત વાત ન જ શોભે. વિદ્વત્સભામાં વેદાન્તીની વાત ગ્રાહ્ય ન જ થાય. આવો આશય અહીં રહેલો છે.(૩૧/૧૭) १. मुद्रितप्रतौ ' नात्र (1) प्र...' इत्यशुद्धः भ्रामकश्च पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org