________________
२१३२
• कूर्वद्रूपकारणतापरामर्शः • द्वात्रिंशिका-३१/१९ सिद्धेः, तस्याः क्षणतादात्म्यनियतत्वात्, क्षणस्वरूपे तथादर्शनात् ।।
सङ्ग्रहेण = सङ्ग्रहनयेन आवरणोच्छित्त्या व्यङ्ग्यं सुखं मुक्तिः इष्यते। तद्धि जीवस्य स्वभावः सेन्द्रियदेहाद्यपेक्षाकारणस्वरूपाऽऽवरणेनाऽऽच्छाद्यते, प्रदीपस्याऽपवरकाऽवस्थितपदार्थप्रकाशकत्वस्वभाव इव तदावारकशरावादिना । तदपगमे तु प्रदीपस्येव जीवस्याऽपि विशिष्टप्रकाशस्वभावोऽयत्नसिद्ध क्षणतादात्म्यनियतत्वात् = क्षणाऽभेदव्याप्यत्वात्, क्षणस्वरूपे तथादर्शनात् । प्रयोगस्त्वेवम्- ज्ञानादि क्षणात्मकं क्षणमात्रसत्ताकत्वात्, क्षणस्वरूपवदिति । कुर्वद्रूपविशिष्टतया समर्थः क्षणः स्वसजातीयक्षणमारभत एव, शरीराद्यपेक्षाकारणानामनियतत्वात्, तद्विरहेऽपि मुक्तिकालीनज्ञानाद्युत्पत्त्यविरोधात्, विशिष्टदेश-कालादेश्चाऽपेक्षाहेतोः तदाप्यक्षतत्वादिति व्यक्तमुक्तं ग्रन्थकृता न्यायालोके । यथा चैतत्तथा विभावितमस्माभिः भानुमत्याख्यायां तट्टीकायाम् (न्यायालोकटीका-प्रका.१/पृ.४७) । ___ → सन्मात्रग्राही सङ्ग्रहः -- (प्र.न.त.७/७) इति प्रमाणनयतत्त्वरहस्ये दर्शितेन, → सामान्यमात्रग्राही परामर्शः = सङ्ग्रहः - (प्र.न.तत्त्वा.७/१३) इति प्रमाणनयतत्त्वालोकालकारसूत्रे व्याख्यातेन, यद्वा → द्रव्यात्वादीन्यवान्तरसामान्यानि मन्वानः तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसङ्ग्रहः (प्र.न.त.७/१९) इत्येवं तत्रैव व्यावर्णितेन अपराऽऽख्येन सङ्ग्रहनयेन तु आवरणोच्छित्त्या = सकलज्ञानावरणादिद्रव्यकर्म-रागादिभावकर्म-शरीरादिनोकर्मनिवृत्त्या व्यङ्ग्यं सुखं 'सर्वं वाक्यं सावधारणमिति न्यायेन सुखसंवेदनमेव पुरुषार्थतया मुक्तिः इति इष्यते, सतामपि ज्ञान-दर्शनादिपर्यायाणां दृष्टेष्टाभ्यामविरोधेन एकरूपतया ग्रहणात् । एवकारेणाऽखण्डज्ञानादिसन्तानस्य स्वातन्त्र्येण मुक्तित्वं व्यवच्छिन्नम् । तद्धि सुखं जीवस्य स्वभाव एव परं सेन्द्रिय-देहाद्यपेक्षाकारणस्वरूपाऽऽवरणेन सावृतज्ञानकारणेन आच्छाद्यते। अयमाशयो देहेन्द्रियादीनां सावृतज्ञानादिकं प्रति अपेक्षाकारणत्वमेव तेषामनावृतज्ञानादिकं प्रति प्रतिबन्धकत्वसाधकम्, यथा शरावादीनां सावृतप्रदीपपरिणतिं प्रति अपेक्षाकारणत्वमेव तेषामनावृतप्रदीपपरिणतिं प्रति प्रतिबन्धकत्वनिबन्धनम् । अत एव तदपगमे = आवारकविरहे तु प्रदीपस्येव जीवस्याऽपि विशिष्टप्रकाशस्वभावः = अनावृतप्रकाशस्वभावः अयत्नसिद्ध एवेति । સાચી હોવાથી જ્ઞાનાદિમાં રહેલી ક્ષણમાત્ર સત્તા જ્ઞાનાદિને ક્ષણઅભિન્ન-ક્ષણરૂપ સિદ્ધ કરે છે.
@ સંગ્રહનયમાન્ય મુક્તિને ઓળખીએ છે. સંગ્રહનય આવરણના ઉચ્છેદથી વ્યંગ્ય થનાર એવા સુખને મુક્તિ માને છે. જેમ દિવાનો સ્વભાવ પ્રકાશકતા છે. ઓરડામાં રહેલા દીવાનો સ્વભાવ ઓરડામાં રહેલી વસ્તુઓને પ્રકાશવાનો છે. આવો પ્રકાશકત્વસ્વભાવ પણ જો દીવા ઉપર કોડીયું ઢાંકવામાં આવે તો આવરાઈ જાય છે તેમ આત્માનો સ્વભાવ સુખ છે. આવૃત જ્ઞાન-સુખ પરિણતિ પ્રત્યે અપેક્ષાકારણસ્વરૂપ એવા ઈન્દ્રિય, શરીર વગેરે આવરણથી આત્માનો સુખસ્વભાવ આવરાઈ જાય છે. પરંતુ શરાવ વગેરે આવરણ રવાના થાય તો જેમ દીવાનો વિશિષ્ટ પ્રકાશસ્વભાવ વગર પ્રયત્ન પ્રગટે છે તેમ દેહ, ઈન્દ્રિય વગેરે આવરણો રવાના થતાં આત્માનો વિશિષ્ટ સુખમય પ્રકાશસ્વભાવ પ્રગટે છે. આવરણ રવાના થયા પછી સુખમય
१. हस्तादर्श 'व्यंपि' इत्यशुद्धः पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org