________________
२१०६
• श्रुतो लक्षणाया अस्वीकारः • द्वात्रिंशिका-३१/९ नोच्यन्ते, तद्व्ययश्च परमार्थतो नामकर्मक्षय एवेति । जीवनाशस्तु नेष्यते, उपाधिशरीरनाशे
औपाधिकजीव नाशस्याऽप्यकाम्यत्वात् ।।८।। बौद्धास्त्वालयविज्ञानसन्ततिः सेत्यकीर्तयन् । विनाऽन्वयिनमाधारं तेषामेषा कदर्थना ।।९।। उच्यन्ते । तद्व्ययश्च = तेषां निवृत्तिरूपो लयो यदि मुक्तिरूपेणेष्यते तदा स परमार्थतो नामकर्मक्षय एव इति कर्मक्षयरूपमोक्षवादिकक्षाप्रवेशस्तेषामपरिहार्यः ।।
न च जीवात्मलयः परमार्थतो जीवनाश एव इति वाच्यम्, यतो जीवनाशः तु नेष्यते कस्यामप्यवस्थायामनेकान्तवादिभिः, परेषामप्यपसिद्धान्ताऽऽपाताच्च । एतेन → यथा निर्वाणकाले तु दीपो दग्ध्वा लयं व्रजेत् । तथा सर्वाणि कर्माणि योगी दग्ध्वा लयं व्रजेत् ।। - (क्षु.२१) इति क्षुरिकोपनिषद्वचनमपि पूर्वोक्तं(पृ.११३०) प्रत्याख्यातम्, आत्मनः सर्वथोच्छेदाऽसम्भवात्, अन्यथा → पाशं छित्त्वा यथा हंसो निर्विशङ्कः खमुत्क्रमेत् । छिन्नपाशस्तथा जीवः संसारं तरते तदा ।। 6 (क्षु.२०) इति क्षुरिकोपनिषद्वचनानुपपत्तेः। तदुक्तं किरणावलीरहस्ये मथुरानाथेनाऽपि → लयो यदि नाशस्तदा 'नित्यं विज्ञानमानन्दं ब्रह्म' (बृहदारण्यकोपनिषद्.३/९/२८) इत्यादिश्रुतौ नित्यपदस्य लाक्षणिकत्वाऽऽपत्तिः, मुख्यार्थत्वेनैवोपपत्तौ श्रुतौ लक्षणाऽभ्युपगमस्याऽन्याय्यत्वात्' - (किरणा.रह. पृ.२२) इति ।
यदि च परमात्म-जीवात्मनोरभेदेऽपि उपाधिविशेषविशिष्टस्याऽऽत्मनो जीवतया तस्यैवौपाधिकः परमात्मभेदः इति भेदकोपाधिविरहे = उपाधिशरीरनाशे औपाधिकजीवनाशः एव जीवस्य परमात्मनि लयः, यथा घटाऽऽकाशस्य घटविगमे एव महाऽऽकाशे लयः । लिङ्गशरीराऽवच्छिन्नस्यैवाऽऽत्मनो जीवभाव इति लिङ्गशरीरनाशे लिङ्गाऽवच्छिन्नाऽऽत्मनाशस्यैव लयत्वम् । लिङ्गाऽवच्छिन्नस्यैवाऽऽत्मनो दुःखादिमत्तया विशेषणीभूतलिङ्गशरीरस्य नाशे दुःखं नोत्पत्तुमर्हति । एवञ्च तद्विगमस्य दुःखनिवृत्तिहेतुतया पुरुषार्थत्वमिति त्रिदण्डिभिरुच्यते तन्न सम्यग्, यत औपाधिकजीवनाशस्य अपि स्वनाशत्वेन अकाम्यत्वात् = अन्यकामनाऽनधीनकामनाविषयत्वशून्यत्वाद् न पुरुषार्थत्वम् । आनन्दमयपरमात्मनो नित्यत्वेन तदभिन्नस्य नाशाऽनुपपत्तेरिति (त.चि.अनु.भाग-२/मु.वा.पृ.१८२) तत्त्वचिन्तामणिकृत् । अधिकन्त्वस्मत्कृतायां भानुमत्याम् (न्यायालोकटीका.पृ.१७) ।।३१/८।। અવચ્છેદક બને છે. આ લિંગશરીરના ઉચ્છેદની અવસ્થામાં તે ત્રિદંડીમતાનુસાર લય કહેવાય છે. તથા તેનો વ્યય તો પરમાર્થથી નામકર્મનો નાશ જ છે. તેથી નામ કર્મના નાશને મુક્તિ માનવામાં અમને કોઈ વાંધો નથી. તે અમને માન્ય જ છે. બાકી જીવનો નાશ કાંઈ “જીવલય' શબ્દથી માન્ય બની ન શકે. કારણ કે ઉપાધિસ્વરૂપ શરીરનો નાશ થાય ત્યારે ઉપાધિયુક્ત = ઉપાધિઉપહિત = ઔપાધિક એવા જીવનો નાશ પણ કાંઈ ઈષ્ટ બની જતો નથી. માટે જીવનાશ સ્વરૂપ જીવલય નહિ પણ લિંગનાશસ્વરૂપ જીવલયને મોક્ષ કહે તો ત્રિદંડીઓનો સ્યાદ્વાદીમતમાં જ પ્રવેશ થઈ જશે. (૩૧/૮)
હ બૌદ્ધમાન્ય મોક્ષની મીમાંસા હ ગાથાર્થ - આલયવિજ્ઞાનસંતતિ તે મુક્તિ આમ બૌદ્ધોએ કહેલ છે. પણ અન્વયી એવા આધાર २. हस्तादर्श '...जीरोद्ध' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org