SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ • चित्तमेव संसार - मोक्षौ • २१०७ बौद्धास्त्विति । बौद्धास्तु आलयविज्ञानसन्ततिः प्रवृत्तिविज्ञानोपप्लवरहिता 'संहृतज्ञेाऽऽकरा ज्ञानक्षणपरम्परा सा मुक्ति इत्यकीर्तयन् । यथोक्तं “चित्तमेव हि संसारो रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ।। " ( महोपनिषद् - ४ / ६६) न च शरीरादिनिमित्ताऽभावे तदनुपपत्तिः, पूर्वपूर्वविशिष्टक्षणानामेव तद्धेतुत्वाद्, विशिष्ट भावनातर एव तेषां विसभागपरिक्षये प्रवृत्तेः । अत्रैव बौद्धमतमपाकर्तुमुपन्यस्यति - 'बौद्धा' इति । आलयविज्ञानसन्ततिः 'अहमि 'त्याकारा प्रवृत्ति - विज्ञानोपप्लवरहिता = कर्तृत्व- भोक्तृत्वभावोपहितप्रवृत्तिविज्ञानलक्षणेन उपप्लवेन विमुक्ता अत एव संहृतज्ञेयाऽऽकारा = निराकृतघटपटादिसकलज्ञेयाऽऽकृतिः ज्ञानक्षणपरम्परा = शुद्धचित्तसन्ततिः मुक्तिः इति अकीर्तयन् बौद्धाः । अयमाशय:- सुगतदर्शने विज्ञानं हि द्विविधम्- आलयविज्ञानं प्रवृत्तिविज्ञानञ्च । ‘अहमि’त्याकारं आलयविज्ञानम् । 'अयं नील' इत्यादिरूपञ्च प्रवृत्तिविज्ञानम् । तदुक्तं → 'तत्स्यादालयविज्ञानं यद् भवेदहमास्पदम् । तत्स्यात् प्रवृत्तिविज्ञानं नील-पीतादिके भवत् ।।' ← ( ) इति । जाग्रदवस्थायां सतः प्रवृत्तिविज्ञानस्य सुषुप्तिकालीनाऽऽलयविज्ञानादतिरिक्तत्वेन जाग्रत्सुषुप्त्योरपि भेदसिद्धिः । सुषुप्तिकालीनस्याऽऽलयविज्ञानस्यैव जाग्रदवस्थाभाविप्रवृत्तिविज्ञानकारणत्वान्नोत्तरकालं विज्ञानसन्तानोच्छेदाऽऽपत्तिः । न चैवमपि दण्डादिविरहे घटाऽनुत्पादवत् शरीरादिनिमित्ताऽभावे मुक्तौ तदनुपपत्तिः निमित्तकारणीभूतशरीरादिजन्यशुद्धज्ञानसन्तत्युत्पत्त्यसङ्गतिः इति वाच्यम्, पूर्व-पूर्वविशिष्टक्षणानामेव स्व-स्वाऽव्यवहितपूर्ववर्तिविज्ञानक्षणानामेव तद्धेतुत्वात् विज्ञानक्षणजनकत्वात् । अत एव सुषुप्तावप्यभिभूतज्ञानाऽभ्युपगमात् । न च शरीराद्यनाहिताऽतिशयस्य ज्ञानक्षणस्य सुषुप्तिविलये कथमुत्तरज्ञानक्षणजनकत्वमिति वाच्यम्, अविशिष्टाद् विशिष्टोत्पत्तेः तथाशक्तियोगितया सम्भवात् मुक्तिपूर्विलक्षणेषु च विशिष्टभावनातः = 'सर्वं दुःखं दुःखं, सर्वं क्षणिकं क्षणिकं, सर्व स्वलक्षणं स्वलक्षणं सर्वं शून्यं शून्यमि' त्याकारकविशिष्टभावनाचतुष्टयत एव क्रमशः अतिशयाऽऽधानात् तेषां = पूर्विल-ज्ञानक्षणानां विसभागपरिक्षये = सोपप्लवविज्ञानसन्तानस्याऽपुनर्भावेनोच्छेदे तेषां तत्तद्विशुद्धविज्ञानक्षणानां प्रवृत्तेः स्वीकारादिति सैव मुक्तिरिति बौद्धमतम् । દ્રવ્ય વિના આ મુક્તિ તેઓ માટે વિડંબનારૂપ છે. (૩૧/૯) स्व-स्वाऽव्यवहितोत्तरवर्ति ટીકાર્થ :- પ્રવૃત્તિવિજ્ઞાનના ઉપદ્રવથી રહિત હોવાથી જેમાંથી શેયાકાર નીકળી ગયેલ છે તેવી શુદ્ધ જ્ઞાનક્ષણની પરંપરા તે મુક્તિ છે- આ પ્રમાણે બૌદ્ધોએ કહેલ છે. જેમ કે તેમના ગ્રંથમાં કહેલ છે કે ‘રાગાદિ કલેશથી વાસિત ચિત્ત જ સંસાર છે તથા રાગાદિમુક્ત થયેલ ચિત્ત જ સંસારનો અંત મોક્ષ કહેવાય છે.' પ્રસ્તુતમાં ચિત્ત એટલે જ્ઞાન સમજવું. = = = = “મોક્ષમાં તો શરીર જ નથી હોતું તો પછી તેના વિના આલયવિજ્ઞાનસંતતિ કઈ રીતે ત્યારે ઉત્પન્ન થઈ શકશે ? શરીરાદિ તો જ્ઞાનનું નિમિત્ત કારણ છે. તેનો અભાવ હોય તો જ્ઞાનસંતાન અસંગત બની જશે.” આ શંકાનું નિરાકરણ કરવા માટે બૌદ્ધ વિદ્વાનો એમ કહે છે કે પૂર્વ-પૂર્વની વિશિષ્ટ १. मुद्रितप्रतौ ' संहत' इति पाठः । २ मुद्रितप्रतौ '...भावनात्' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004945
Book TitleDwatrinshada Dwatrinshika Prakran Part 8
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages414
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy