________________
• परमात्मलयपरामर्शः •
२१०५
परमात्मनि जीवात्मलयः सेति त्रिदण्डिनः । लयो लिङ्गव्ययोऽत्रेष्टो जीवनाशस्तु' नेष्यते । । ८ । । परमात्मनीति । परमात्मनि जीवात्मलयः सा मुक्तिः इति त्रिदण्डिनो वदन्ति ।
अत्र =
एतन्मते लयो लिङ्गव्यय इष्टः अस्माकमप्यभिमतः । एकादशेन्द्रियाणि पञ्चमहाभूतानि च सूक्ष्ममात्रया' सम्भूयाऽवस्थितानि जीवात्मनि सुख-दुःखाऽवच्छेदकानि लिङ्गशब्दे(६।५।१।७-१०४) वायुपुराण- (१०२/४-१३३) गरुडपुराण - (१।२१७/१-१७) अग्निपुराण- (३६९/१-३८२/ ३७) भागवत-(१२/४/२३-३४) प्रमुखे आत्यन्तिकप्रलयाऽपराऽभिधानमहाप्रलयनिरूपणमुपलभ्यते तत्तु न हि कदाचिदनीदृशं जगदिति न्यायेन निराकरणीयम् ।।३१ / ७ ।।
साम्प्रतमत्रैव त्रिदण्डिमतमाह- 'परमात्मनी 'ति । परमात्मनि आनन्दमयपरमात्मनि जीवात्मलयः मुक्तिरिति त्रिदण्डिनो वदन्ति । त्रिदण्डिनोऽत्र भास्कराचार्यमतानुयायिनो वेदान्तिका ग्राह्याः । भट्टभास्करो हि भेदाऽभेदसिद्धान्तवादी । तदुक्तं भट्टोजीदीक्षितेन वेदान्ततत्त्वविवेकटीकाविवरणे 'भट्टभास्करस्तु भेदाभेदसिद्धान्तवादी 'ति । अपरे टङ्क - द्रमिण-गुहदेव-भारुचि-यमुनाचार्यादयोऽपि त्रिदण्डिवेदान्तिनः श्रूयते । दक्षेण तु 'वैष्णवेन त्रिदण्डेन न त्रिदण्डीति कथ्यते । अध्यात्मदण्डयुक्तो यः स त्रिदण्डीि कथ्यते ।। वागादिदण्डयुक्तस्तु प्रत्यगात्मन्यवस्थितः । परब्रह्मणि लीनो यः स त्रिदण्डी व्यवस्थितः ।।' (दक्षसंहिता. ) इत्याद्युक्तिभिः त्रिदण्डिस्वरूपवर्णनमकारि । शम्भुगीतायां →
आयस्कान्तगिरेः पोते गच्छत्येवाऽन्तिकं यथा । पृथग्भवन्ति लौहानि कीलकान्यखिलान्यलम् ।। तस्मिन्नेव भवन्त्याशु संलग्नानि धराधरे । स पोतश्च क्षणे तस्मिंस्तत्रैवाऽब्धौ निमज्जति ।। तथैव मयि युक्तानां जीवन्मुक्तमहात्मनाम् । श्रयन्तेऽखिलकर्माणि ब्रह्माण्डाकाशमेव वै ।। वारिबिन्दुरिवाऽऽकाशात्पतितस्ते महार्णवे । जीवन्मुक्ता महात्मानो लयं गच्छन्ति मय्यहो ! | ← (शं.गी. ६/१२८-१३१) इत्येवं परमात्मनि जीवलयो दर्शित इत्यवधेयम् । एतन्म = त्रिदण्डिमते लयः = लिङ्गव्ययः लिङ्गशरीरोच्छेदः । स च अस्माकं जैनानां अपि अभिमतः । स्पर्शन-रसन-प्राण - नेत्र - श्रोत्रलक्षणज्ञानेन्द्रियपञ्चक-वाक्-पाणि-पाद-पायूपस्थलक्षणकर्मेन्द्रियपञ्चक-मनोलक्षणोभयेन्द्रियाणि इति एकादशेन्द्रियाणि पृथिव्यप्तेजोवाय्वाकाशलक्षणानि पञ्चमहाभूतानि च सूक्ष्ममात्रया सम्भूय जीवात्मनि अवस्थितानि सुख-दुःखाऽवच्छेदकानि लिङ्गशब्देन = लिङ्गशरीरशब्देन * ત્રિદંડીમાન્ય મુક્તિની મીમાંસા #
ગાથાર્થ :- પરમાત્મામાં જીવાત્માનો લય = મુક્તિ- એવું ત્રિદંડીઓ કહે છે. પ્રસ્તુતમાં લય = લિંગવ્યય. આ તો અમને પણ માન્ય છે. જીવનાશ કાંઈ લય તરીકે માન્ય નથી. (૩૧/૮) ટીકાર્થ :- આનંદમય ૫રમાત્મામાં જીવાત્માનો લય થવો તે મુક્તિ છે- આવું ત્રિદંડીઓ કહે છે.
આ મતમાં ‘લય’ શબ્દથી લિંગવ્યય ત્રિદંડીઓને ઈષ્ટ છે અને તે તો અમને જૈનોને પણ તે માન્ય જ છે. તેમના મતે પાંચ શ્રોત્રાદિ જ્ઞાનેન્દ્રિય, હાથ વગેરે પાંચ કર્મેન્દ્રિય, મન- એમ કુલ ૧૧ ઈન્દ્રિય અને પાંચ મહાભૂત સૂક્ષ્મ માત્રાથી ભેગા થઈને રહેલા હોય ત્યારે જીવાત્મામાં સુખ-દુઃખના
१. मुद्रितप्रतौ '.... शश्च' इत्यशुद्धः पाठः । २ हस्तादर्शे 'मत्रे' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
=
=
www.jainelibrary.org