________________
२१०४
• सर्वमुक्तिपक्षे मोक्षपुरुषार्थोच्छेदः । द्वात्रिंशिका-३१/७ पल्ले महइमहल्ले कुंभं सोहेइ पक्खिवे ण किंचिं। से संजए अपमत्ते बहु निज्जरे बंधंति न किंचि ।। एयमिह ओघविसयं भणियं सव्वे ण एवमेवत्ति । अस्संजतो उ एवं पडुच्च आसन्नभावं तु ।। पावइ बंधाभावो उ अन्नहा पोग्गलाणऽभावातो । इय वुड्ढिगहणतो ते सव्वे जीवेहिं जुज्जन्ति ।।
-- (धर्मसं. ७५१-७६०) इत्युक्तमित्यवधेयम् ।
एतेन → प्रथमं निर्गुणस्यैव सतो गुणावाप्तावग्रेऽपि किं गुणाऽपेक्षया ? इति निरस्तम्, पूर्व-पूर्वगुणदलाऽपेक्षयैवोत्तरोत्तरगुणोपचयसिद्धेः, उपादानोपचयं विनोपादेयोपचयाऽभावादिति अधिकं नवमस्तबके स्याद्वादकल्पलतातोऽवसेयम् (स्या.क.९/७-पृ.७१) ।
वस्तुतः शमादिलिङ्गैरपुनर्बन्धकत्वरूपयोग्यतानिश्चयान्न दोषः, अपुनर्बन्धकतानियतभवव्यवधानज्ञानस्याऽप्रतिबन्धकत्वात्, तद्भवस्थितिहेतुदुरितानां सत्प्रवृत्तिनाश्यत्वेन प्रत्युत नाशाऽर्थिप्रवृत्तौ नाश्यनिश्चयीभूयाऽनुगुणत्वात्, अनतिशयितशमादिना प्रवृत्त्युत्तरमतिशयितशमादिसम्पत्तेश्च नान्योन्याश्रयः । यत्तु 'शमादावपि संसारित्वेनैव स्वरूपयोग्यत्वाद् मुक्तावपि संसारित्वेन तत्त्वमिति (तत्त्वचिन्तामणि-शब्दखण्डईश्वरानुमाने मुक्तिवाद पृ.१७९) गङ्गेशाकूतं तन्न पूतम्, नित्यज्ञानादिमद्भिन्नत्वरूपसंसारित्वाऽपेक्षया भव्यत्वस्यैव लघूभूतस्य तत्त्वौचित्यात्, सर्वमुक्तिनिरासाच्च ।
किञ्च सर्वमुक्तिसत्त्वेऽपि परस्य कथं पारिवाज्यादौ प्रवृत्तिः ? स्वप्रयत्नं विनैव महाप्रलये भर्गप्रयत्नात् तदुपपत्तिसम्भवात् ! शीघ्रमुक्त्यर्थं तत्प्रवृत्तौ चाऽकामेनाऽपि परेण तत्स्वरूपयोग्यतावच्छेदकं किञ्चिद् वक्तव्यम् । तदेव चाऽस्माकमपुनर्बन्धकत्वम् । अथात्मनैव मुक्तौ स्वरूपयोग्यता, ईश्वरे विशेषसामग्र्यभावाच्च नाऽतिप्रसङ्गः, शीघ्रं मुक्तिहेतूपनिपाताच्च शीघ्रमुक्तिरिति शीघ्रमुक्तित्वस्याऽर्थसिद्धत्वान्न तत्स्वरूपयोग्यतावच्छेदकं किञ्चित्कल्पनीयमिति न दोष इति चेत् ? न, उपादानस्वभावाऽविशेषेऽर्थसिद्धस्याऽप्युपादेयविशेषस्याऽनुपपत्तेः, अतिप्रसङ्गात्, ‘कस्यचित् कदाचिदेव पारिव्रज्यादौ प्रवृत्तिः' इति नियमस्य हेतुविशेषं विनाऽनिर्वाहात् । ‘अदृष्टविशेषस्तधेतुः' इति उपगमेऽपि नामान्तरेणाऽपुनर्बन्धकत्वाऽङ्गीकारादिति सर्वमवदातम् (स्या.कल्प.९/७-पृ.७६) इति व्यक्तं स्याद्वादकल्पलतायामेव ।
प्रकृते ‘सर्वमुक्तिसत्त्वेऽपी'ति तु → अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणं = अभ्युपगमसिद्धान्तः < (न्या.सू.१।१।३१) इति न्यायसूत्रदर्शिताऽभ्युपगमसिद्धान्ताऽनुसारेणोक्तम् ।।
वस्तुतः सर्वजीवमुक्तिः नैव सम्भवति। सर्वमुक्त्युपगमे प्रतिकल्पमेकैकस्याऽपि मुक्तावनन्तकल्पविगमेऽनन्तजीवानां मुक्ताविदानी संसारोच्छेदप्रसङ्गः (आ.ख्या.पृ.२२) इति व्यक्तमुक्तं सर्वतोमुखीप्रज्ञासमलङ्कृतेन ग्रन्थकृता आत्मख्यातौ । युक्तञ्चैतद्, अनादावपि संसारेऽद्ययावत्सर्वमुक्तिविरहाद् भविष्यदप्येवमेवेति कल्पने बाधकाभावात् । इदानीमिव न सर्वेषां जातु मुक्तिसम्भव इत्यत्र तात्पर्यम् । न चेदानीमऽस्माकमिव न कस्यापि कदापि मुक्तिसम्भवः तुल्यन्यायादिति वाच्यम्, वामदेवादिमुक्तेः एतरेयोपनिषद्-(२/४/५) बृहदारण्यक-(१।४।१०) बृहदारण्यकवार्तिकसार-(१/४/१०) ब्रह्मसूत्र- (१।१।४०) पञ्चदशी(९/४५)प्रभृतिभवदागमेनैव सिद्धेः । __यत्तु श्वेताश्वतरोपनिषद्-(श्वे. १।१०)ब्रह्मपुराण-(२३३।१-७५)कूर्मपुराण-(२।४५) विष्णुपुराण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org