________________
• उदयनाचार्यमताऽपोहः . एतद् अन्यत्र = न्यायालोकादौ दर्शितम् ।।७।। केति नेयं तन्निवर्तिकेति चेत् ? तथापि ‘भव्यत्वव्याप्यतादृशशङ्कावानहमि'ति ज्ञानान्तरेणैव तादृशशङ्कानिवृत्तौ प्रवृत्तिरबाधितैवेति सर्वमवदातम्” (अध्या.म.प.गा.१७२) इति ।
एतेन → 'संसार्यकस्वभावा एव केचिदात्मान' इति स्थिते ‘अहमेव यदि तथा स्यां तदा मम विपरीतप्रयोजनं परिव्राजकत्वमिति शङ्कया न कश्चित् तदर्थं ब्रह्मचर्यादिदुःखमनुभवेत् - (कि.मुक्तिवाद पृ.६३) इति किरणावलीकृत उदयनस्य मतं परास्तम् ।
एतत् तत्त्वं न्यायालोकादौ दर्शितम् । तदुक्तं ग्रन्थकृता न्यायालोके प्रथमप्रकाशे → यत्तु योग्यत्वशङ्कया प्रवृत्त्यनुपपत्तिः । न च शम-दम-भोगाऽनभिष्वङ्गादिना मुमुक्षुचिह्नन श्रुत्युदितेन तच्छङ्कानिवृत्तिः, संसारित्वेनैव मोक्षं प्रति स्वरूपयोग्यत्वात्, शमादावपि संसारित्वेनैव हेतुत्वाच्चेति, तन्न, संसारित्वस्य नित्यज्ञानादिमद्भिन्नात्मत्वरूपस्य नानात्वाद्, गुरुत्वाच्च । लाघवात् भव्यत्वस्यैव मुक्तिशमादिस्वरूपयोग्यतावच्छेदकत्वकल्पनात् । एतेन शमादेः श्रुतौ सहकारित्वेन बोधनात् न स्वरूपयोग्यतावच्छेदकत्वम् । शमादिसम्पन्नत्वेन च न मोक्षाऽधिकारिता, श्रुतिसङ्कोचाऽऽपत्तेः, शमादिसम्पत्तेरधिकारनिश्चयस्ततश्च तदर्थप्रवृत्तौ शमादिसम्पत्तिरित्यन्योऽन्याऽऽश्रयाच्चेत्युक्तावपि न क्षतिः, भव्यत्वस्य शमादिसहकारित्वसम्भवात्, तस्यैवाऽधिकारित्वविशेषणाच्च । तन्निश्चयश्च तच्छङ्कयैव, तस्याः तद्व्याप्यत्वादिति अध्यात्ममतपरीक्षायां प्रपञ्चितम् ।
शमादिमत्त्वेनाऽधिकारित्वेऽप्यनतिशयितशमादिना प्रवृत्त्युत्तरमतिशयितशमादिसम्पत्ते ऽन्योऽन्याऽऽश्रयः। प्रवृत्तेः प्राक् कथमणीयस्यपि शमादिसम्पत्तिरिति चेत् ? कर्मविगमात् । सोऽपि कथमिति चेत्? तथाभव्यत्वपरिपाकात् । सामग्री विना कथं तत्परिपाक इति चेत् ? स्वभावादिति + (न्याया.१/ पृ.७-१०) व्यक्तं न्यायालोके इति । एतत्तत्त्वं विस्तरतो भानुमत्यां तद्व्याख्यायां विवृतमस्माभिः । ____योगसाधनापूर्वकाले विशिष्टपूर्वसेवातः कथं कर्मनिर्जरादिना शमादिलाभः ? इति जिज्ञासापरिपूर्तये श्रीहरिभद्रसूरिभिः धर्मसङ्ग्रहण्यां श्रावकप्रज्ञप्ति-विशेषावश्यकभाष्यानुसारेण → वनियकम्मस्स जया घसणघोलणनिमित्ततो कहवि । खविता कोडाकोडी सव्वा एक्कं पमोत्तूणं ।। तीयवि य थेवमेत्ते खविए तहिमंतरम्मि जीवस्स । भवति हु अभिन्नपुव्वो गंठी एवं जिणा बेंति ।। गंठित्ति सुदुब्भेदो कक्खडघणरूढगूढगंठिव्व । जीवस्स कम्मजणितो घणराग-द्दोसपरिणामो ।। भिन्नम्मि तम्मि लाभो जायइ परमपयहेतुणो नियमा । सम्मत्तस्स पुणो तं बंधेण न वोलइ कयाइ।। तं जाविह संपत्ती ण जुज्जई तस्स निग्गुणत्तणओ । बहुतरबंधाओ खलु सुत्तविरोधा जओ भणियं ।। पल्ले महइमहल्ले कुंभं पक्खिवइ सोधए नालिं । अस्संजए अविरए बहु बंधइ निज्जरे थोवं ।। पल्ले महइमहल्ले कुंभं सोधे पक्खिवे नालिं । जे संजये पमत्ते बहु निज्जरे बंधइ थोवं ।। પ્રકાશમાં તથા સ્યાદ્વાદકલ્પલતાના નવમા સ્તબકમાં તથા અધ્યાત્મમતપરીક્ષા વગેરેમાં વિસ્તારથી કરેલ छ. (3१/७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org