________________
• सज्जनानुग्रहसत्त्वे दुर्जनाद् निर्भयत्वम् •
२१७३ खेदमेव तनुते जडात्मनां सज्जनस्य तु मुदं कवेः कृतिः ।।
स्मरता कुवलयेऽम्बुजे व्यथा(ऽब्जपीडनं') चन्द्रभासि भवतीति हि स्थितिः ।।११।। कृपापरायणं तदा दुर्जनात् मे नो किमपि भयं स्यात् । प्रतिवस्तूपमयैतत्समर्थयति- सिंहे = मृगारौ एव तरसा वशीकृते किं भुवि लोके शृगालबालकात् भयं भवति ? नैवेत्यर्थः । तदुक्तं अध्यात्मसारेऽपि → येषां कैरवकुन्दवृन्दशशभृत्कर्पूरशुभ्रा गुणा, मालिन्यं व्यपनीय चेतसि नृणां वैशद्यमातन्वते । सन्तः सन्तु मयि प्रसन्नमनसस्ते केऽपि गौणीकृत-स्वार्था मुख्यपरोपकारविधयोऽत्युच्छृङ्खलैः किं खलैः ।। - (अ.सा.२१/१) इति । न च लब्धप्रधानगुणानां खलसंसर्गतः काचिद् गुणहानिः सम्भवति, → सुचिरं पि अच्छमाणो वेरुलिओ काय-मणिओमीसे । न य उवेइ कायभावं पाहन्नगुणेण नियएण ।। 6 (ओ.नि.७७२) इति ओघनियुक्तिवचनप्रामाण्यात् । तथाप्युत्सर्गतो दुर्जनसङ्गः त्याज्य एव, तदुक्तं त्रिषष्टिशलाकापुरुषचरित्रे → त्याज्योऽसतां च संसर्गो निसर्गाऽनृजुचेतसाम् । सोऽलर्कविषवत् कालेनापि यात्येव विक्रियाम् । - (त्रि.श.पु.१/२/३९) इति । तदुक्तं हितोपदेशे अपि → यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि । अथाऽसज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ।। 6 (हितो.१/१९२) इति । आचाराङ्गे अपि → अलं बालस्स संगेणं - (आचा.१/२/५/९४) इत्युक्तमिति प्रागुक्तं (पृ.१४६७) स्मर्तव्यम् । तदुक्तं महाभारते अपि → सद्भिस्तु सह संसर्गः शोभते धर्मदर्शिभिः । नित्यं सर्वास्ववस्थासु नाऽसद्भिरिति मे मतिः।। 6 (म.भा./शांतिपर्व/२९९-३) इति ध्येयम् ।।३२/१०।। ____ पुनरप्यनयोविभेदं कार्यद्वारोपदर्शयति - 'खेदमिति । → वाक्ये कटुत्वं हृदि निर्दयत्वं परव्यथादर्शनमूलहर्षः । वृथाऽटनं शाश्वतकोपवत्ता निन्देत्यमी नीचनरस्वभावाः ।। 6 (ना.डि.३४८) इति नालडियारे पदुमनाराचार्यवचनप्रामाण्यात । कवेः कृतिः = स्पष्टार्था गम्भीरार्थाऽपि वा रचना जडात्मनां शठानां खेदमेव = उद्वेगमेव तनुते निःसारता-काठिन्यदोषोद्भावनेन । तदुक्तं अध्यात्मसारे → उत्तानार्थगिरां स्वतोऽप्यवगमान्निःसारतां मेनिरे, गम्भीरार्थसमर्थने बलखलाः काठिन्यदोषं ददुः । तत्को नाम गुणोऽस्तु कश्च सुकविः किं काव्यमित्यादिकां स्थित्युच्छेदमतं हरन्ति नियतां दृष्टा व्यवस्थाः सताम् ।। - (अ.सा.२१/४) इति । कवेः = सुकवेः काऽपि कृतिः सज्जनस्य तु मुदं एव तनुते, गुणग्राहित्वात् । निपुणमतितया कथञ्चिद्दोषदर्शनेऽपि न तत्र द्वेषं विधत्ते अपि तदर्थाऽनुपपत्तिपरिहारे एव यतते, तथागुणग्रहणरसिकस्य परवचनाऽनुपपत्तिपरिहारप्रवणस्वभावत्वात् । प्रकृते कविलक्षणं तु → प्रज्ञा नव-नवोल्लेखशालिनी प्रतिभा मता । तदनुप्राणनाजीवद्वर्तनानिपुणः कविः ।। -(काव्यानुशासन-१/३-उद्धृत) इति वचनाऽनुसारेणाऽवसातव्यम् । गौडवधे तु → णिअआए च्चिअ वाआए अत्तणो गोरवं णिवेसन्ता । जे एन्ति पसंसं च्चिअ जयन्ति ભય નથી. સિંહને જે ઝડપથી વશ કરી લે તેને શું દુનિયામાં શિયાળના બચ્ચાથી ભય હોય? (૩૨/૧૦)
ગાથાર્થ :- કવિની રચના જડબુદ્ધિવાળા દુર્જનોને ખેદ જ ઉત્પન્ન કરે છે. સજ્જનોને તો સારા કવિની રચના આનંદ આપે છે. ખરેખર, ચંદ્રની ચાંદની ખીલેલી હોય ત્યારે રાત્રિવિકાસી કુવલય નામના કમળમાં વિકસ્વરતા આવે છે જ્યારે દિવસવિકાસી કમળમાં-પંકજમાં વ્યથા-પીડા ઊભી થાય છે. આવી म परिस्थिति छ. (3२/११) १. हस्तादर्श 'चक' इत्यशुद्धः पाठः । २. हस्तादर्श '...जमीम' इत्यशुद्धः पाठः । ३. हस्तादर्श 'चन्द्रमासि' इत्यशुद्धः पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org