________________
२१७२
• खलस्य वडवानलव्यथोत्पादकत्वम् • द्वात्रिंशिका-३२/१० दुर्जनोद्यमतपर्तुपूर्तिजात्तापतः श्रुतलता क्षयं व्रजेत् । नो भवेद्यदि गुणाऽम्बुवर्षिणी, तत्र 'सज्जनकृपातपात्ययः ॥८॥ तन्यते सुकविकीर्तिवारिधौ दुर्जनेन वडवानलव्यथा । सज्जनेन तु शशाङ्ककौमुदीसङ्ग्रङ्गवदहो महोत्सवः ॥९॥ यद्यनुग्रहपरं सतां मनो दुर्जनात् किमपि नो भयं तदा ।
सिंह एव तरसा वशीकृते किं भयं भुवि शृगालबालकात् ॥१०॥ ऽनियतमतितरां मोदते च स्मितेन ।। - (अ.सा.२१/११) इति ।।३२/७ ।।
सज्जनकृपायाः श्रुतक्षेमकारित्वमाह- 'दुर्जने'ति । दुर्जनोद्यमतपर्तुपूर्तिजात् = खलकृतदोषोद्भावनपुरुषंकारलक्षणग्रीष्मर्तुपरिपाकसञ्जातात् तापतः श्रुतलता क्षयं व्रजेत् यदि तत्र गुणाऽम्बुवर्षिणी = मैत्रीकरुणादिगुणगणजलवर्षिणी सज्जनकृपातपाऽत्ययः = सन्नरकृपालक्षणा प्रावृट् नो भवेत् । यथा ग्रीष्मतापात् लताक्षयं गच्छेत् यदि जलवर्षिणी प्रावृट् न भवेत् तथैवाऽत्राऽपि योज्यम् ।।३२/८ ।।
पुनरपि कार्यभेदेन तयोर्भेदमातनोति- 'तन्यते' इति । सुकविकीर्तिवारिधौ = सुकवियशःकीर्तिलक्षणजलमयसमुद्रे दुर्जनेन वडवाऽनलव्यथा सुकवियशःकीर्तिलक्षणजलशोषणकारिणी तन्यते सज्जनेन तु अहो ! शशाङ्ककौमुदीसङ्ग्रङ्गवद् सुकवियशःकीर्तिलक्षणजलोल्लासनकारी महोत्सवः तन्यते । समुद्रजलं वडवानलेन शोष्यते चन्द्रज्योत्स्नासङ्गेन तु उल्लास्यते तथा दुर्जनेन सुकवियशःकीर्तिः छन्दोऽलङ्कारादिदोषोद्भावनेन छल-जात्यादितः नाश्यते सज्जनेन तु गुणग्रहणपरायणतया सद्भूतगुणप्रशंसादिना सर्वत्र तन्यते । तदुक्तं अध्यात्मसारे → ग्रन्थार्थान् प्रगुणीकरोति सुकविर्यत्नेन तेषां प्रथामातन्वन्ति कृपाकटाक्षलहरीलावण्यतः सज्जनाः । माकन्दद्रुममञ्जरी वितनुते चित्रा मधुश्रीस्ततः, सौभाग्यं प्रथयन्ति पञ्चमचमत्कारेण पुंस्कोकिलाः ।। दोषोल्लेखविषः खलाऽऽननबिलादुत्थाय कोपाज्ज्वलन्, जिह्वाऽहिर्ननु कं गुणं न गुणिनां बालं क्षये प्रापयेत् । न स्याच्चेत्प्रबलप्रभावभवनं दिव्यौषधीसन्निधौ, शास्त्रार्थोपनिषद्विदां शुभहृदां कारुण्यपुण्यप्रथा ।।
6 (अ.सा. २१/२-३) इति ।।३२/९।। सज्जनाऽनुग्रहस्य भयोच्छेदकत्वमाविर्भावयति- 'यदी'ति । यदि सतां मनो मयि अनुग्रहपरं = ગાથાર્થ - જો ગુણસ્વરૂપ વાણીને વરસાવનારી સર્જનકુપારૂપી વર્ષાઋતુ ન હોય તો દુર્જનના આક્ષેપઆદિ પરિશ્રમસ્વરૂપ ગ્રીષ્મ ઋતુથી ઉત્પન્ન થયેલ તાપથી શ્રુતવેલડી નાશ પામી જાય.(૩૨,૮)
વિશેષાર્થ :- ચોમાસું ન આવે અને બારેમાસ ઉનાળો જ ચાલુ રહે તો વેલડીઓ નાશ પામી જાય. योमासु = स४५. Gो = हुन माक्षे५. वेसडी = स्त्री. (३२/८)
ગાથાર્થ :- સારા કવિની કીર્તિસ્વરૂપ સાગરમાં દુર્જન વડવાનલની વ્યથાને લાવે છે. સજ્જનો તો તે મહાસાગરમાં ચંદ્રની ચાંદનીના સંગથી રંગીન બનેલ મહોત્સવને લાવે છે. (૩૨૯)
ગાથાર્થ - જો મારા ઉપર સજ્જનોનું મન અનુગ્રહપરાયણ હોય તો મને દુર્જનોથી કોઈ પણ પ્રકારનો १. मुद्रितप्रतौ '...सज्जनकृपां तपात्ययः(या)...' इत्यशुद्धः। २. मुद्रितप्रतौ 'शशांककौमुदी संग..' इत्यस्थानच्छिन्नः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org