________________
• खलपीडनेऽपि श्रुतश्रमाऽपरित्यागः •
न त्यजन्ति कवयः श्रुतश्रमं संमुदैव खलपीडनादपि । स्वोचिताऽऽचरणबद्धवृत्तयः साधवः शम-दमक्रियामिव ।।१२।। नव्यतन्त्ररचनं सतां रतेस्त्यज्यते न खलखेदतो बुधैः । नैव भारभयतो विमुच्यते शीतरक्षणपटीयसी पटी ।। १३ ।। इह ते महाकइणो ।। ← ( गौ. व. ६३ ) इत्येवं महाकविस्वरूपमावेदितमिति तु ध्येयम् । प्रतिवस्तूपमया प्रकृतं समर्थयति - चन्द्रभासि शशाङ्कदीधितौ सत्यां कुवलये = उत्पले स्मेरता विकस्वरता भवति अम्बुजे अरविन्दे तु व्यथा = पीडा भवति इति हि स्थितिः लोकमर्यादा प्रसिद्धैव । प्रत्यन्तरे च ‘अब्जपीडनमिति पाठः, सोऽपि सम्यक् । प्रकृते च अध्यात्मामृतवर्षिणीमपि कथामापीय सन्तः सुखं गाहन्ते विषमुद्गीरन्ति तु खला वैषम्यमेतत्कुतः ? । नेदं चाद्भुतमिन्दुदीधितिपिबाः प्रीताश्चकोरा भृशं किं न स्युर्बत चक्रवाकतरुणास्त्वत्यन्तखेदातुराः ? ।। ← (अ.सा. २१/ ५) इति अध्यात्मसारकारिकाऽपि स्मर्तव्या ।।३२/११।।
=
=
सुकविमनोवृत्तिमावेदयति- ' ने 'ति । निःसारता- काठिन्यादिदोषोद्भावनद्वारा खलपीडनादपि दुर्जनसम्पीडनतोऽपि कवयः = शास्त्रकृतः श्रुतश्रमं = शास्त्रपरिश्रमं न त्यजन्ति किन्तु संमुदैव विदधते । प्रतिवस्तूपमया समर्थयति- स्वोचिताऽऽचरणबद्धवृत्तयः साधवः शम-दमक्रियां इव = यथा न त्यजन्ति अपि तु संमुदैव विदधते । । ३२ / १२ ।।
=
=
शठकृतदोषोद्भावनतः शास्त्ररचनाया अत्याज्यत्वं समर्थयति - 'नव्ये 'ति । बुधैः = आय-व्ययाSs लोचनकारिभिः खलखेदतः ईर्ष्याग्रस्ताऽन्तःकरणानामुद्वेगतः नव्यतन्त्ररचनं अभिनवशास्त्रनिर्माणं न त्यज्यते । कस्माद् ? इत्याह- सतां तत्त्वाऽ द्वेष - जिज्ञासा-शुश्रूषाशालिनां तत एव रतेः जननात् । एतेन शठाऽसुखजननान्नैवाऽभिनवशास्त्रप्रणयनं कर्तव्यमिति निरस्तम्, तद्दोषस्य फलाऽभिमुखत्वेन प्रामाणिकगौरवस्येवाऽदोषत्वात् । तदुक्तं अध्यात्मसारे पाथोदः पद्यबन्धैर्विपुलरसभरं वर्षति ग्रन्थकर्ता, प्रेम्णां पूरैस्तु चेतःसर इह सुहृदां प्लाव्यते वेगवद्भिः । त्रुट्यन्ति स्वान्तबन्धः पुनरसमगुणद्वेषिणां दुर्जनानां, चित्रं भावज्ञनेत्रात् प्रणयरसवशान्निःसरत्यश्रुनीरम् ।। ← ( अ.सा. २१ / ९ ) इति ।
प्रतिवस्तूपमयैवैतदुपोद्बलयति - भारभयतः शीतरक्षणपटीयसी पटी शिशिरे नैव विमुच्यते, अन्यथा नाग्न्य-शीतपीडादिदोषप्रसङ्गात् । प्रकृते भारः = खलखेदः, शीतरक्षणं = सतां प्रमोदजननं, पटी = नव्यतन्त्ररचना नाग्न्यं परतीर्थिककृतखण्डनादिना जिनागमसिद्धान्तस्य विलूनशीर्णता, शीतपीडा
ગાથાર્થ :- જેમ સ્વોચિત આચરણ કરવામાં બદ્ધકક્ષ-તત્પર સાધુઓ ખલની હેરાનગતિથી શમદમ-ક્રિયાને છોડતા નથી તેમ દુર્જનની હેરાનગતિથી કવિઓ પણ શ્રુતપરિશ્રમને खानंध्थी ४ छोडता नथी. ( ३२ / १२ )
શાસ્ત્રરચનાશ્રમને
२१७४
=
=
=
द्वात्रिंशिका-३२/१३
=
ગાથાર્થ :- સજ્જનોને થનારા આનંદના લીધે પંડિતો નવા શાસ્ત્રોની રચના દુર્જનને ખેદ થવા છતાં છોડતા નથી. ખરેખર શિયાળામાં ઠંડીથી રક્ષણ કરવામાં સમર્થ ગરમ વસ્ત્ર, રજાઈ, ધાબળો કાંઈ ભાર લાગવાના ભયથી છોડી ન શકાય. (૩૨/૧૩)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org