________________
• जन्यभावस्याऽविनश्वरत्वे बाधकाभावसमर्थनम् •
२१६१ जन्यस्याप्यभावस्येव भावस्याऽपि कस्यचिदनन्तत्वसम्भवात् । अत्र = मुक्तिसुखे 'नित्यं विज्ञानमानन्दं ब्रह्मेति (बृहदारण्यकोपनिषद्-३/९/२८) अपराऽपि श्रुतिः साक्षिणी वर्तते । दृश्यते), तया नित्यज्ञानाऽऽनन्दब्रह्माऽभेदबोधनादिति ।।३१।।
6 (धर्मसं. १३८२-१३८६) इति । वाचकचक्रवर्तिनोऽपि प्रशमरतौ → 'देहमनोवृत्तिभ्यां भवतः शारीरमानसे दुःखे । तदभावात्तदभावे, सिद्धं सिद्धस्य सिद्धिसुखम् ।। - (प्र.रति.२९५) इति प्राहुः ।
यथोक्तं कृष्णगीतायामपि → मोक्षो ज्ञानानन्दमयः खलु (कृ.गी.७३) इति । 'सुखमात्यन्तिकं यत्र' ( ) इति स्मृतिरपि प्रागुक्ता (द्वा.द्वा.३१/३० पृ.२१५७) साक्षिणी प्रकृते ।
मुक्तौ सुखाऽनभ्युपगमे तु → आनन्दं ब्रह्म 6 (शि.गी. ६।४९), → संसाराऽपारपाथोधिमुत्तीर्याऽऽत्मविदो जनाः । ब्रह्मानन्दसुसन्दोहमत्रैवाऽऽसादयन्त्यलम् ।। 6 (शि.गी.६।७६) इत्यादीनि शिवगीतावचनानि, → आनन्दं ब्रह्म - (सं.गी. ६।९३) इति संन्यासगीतावचनं, → प्रज्ञानमानन्दं ब्रह्म 6 (मठा.३ हय.२/१) इति पूर्वोक्तं(पृ.२१५७) मठाम्नायोपनिषत्-हयग्रीवोपनिषद्वचनम्, → सत्यं ज्ञानमनन्तं ब्रह्म - (नारा.उत्त.१) इति च नारायणोत्तरतापिनीयोपनिषद्वचनमपि कथमुपपद्येत ? . किञ्च, मुक्तात्मनि तावदिच्छा-द्वेष-प्रयत्न-दुःखान्यस्माभिर्नाऽङ्गीक्रियन्ते, युष्माभिस्तु सुख-ज्ञाने अपि नाऽभ्युपेयेते । ततश्च तत्राऽऽत्मत्वेन व्यवहारोऽपि कथम् ? तल्लिङ्गविरहात् । ततश्च → इच्छाद्वेष-प्रयत्न-सुख-दुःख-ज्ञानान्यात्मनो लिङ्गम् + (न्या.सू.१/१/१०) इति न्यायसूत्रमपि प्लवेतेति दिक् ।
ननु जन्यभावस्य सतो ध्वंस आवश्यकः इति मुक्तिसुखादौ ध्वंसप्रतियोगित्वाऽऽपत्तिरिति मुक्तिसुखस्य दुःखाऽभावपरत्वमेवोचितमिति चेत् ? न, जन्यस्याऽपि ध्वंसाख्यस्य अभावस्य इव भावस्याऽपि कस्यचित् उत्पन्नस्य अनन्तत्वसम्भवात् = अनाश्यत्वोपपत्तेः । बृहदारण्यकसंवादमाह- 'नित्यमिति । प्रकृते → नित्यचिन्मात्ररूपोऽस्मि 6 (मै.उ.३/१६) इति मैत्रेय्युपनिषद्वचनं, → नित्यानन्दमयं ब्रह्म - (ते.बि.६/७२) इति तेजोबिन्दूपनिषद्वचनं, → नित्यानन्दमयोऽप्यात्मा 6 (ना.प.८/१६) इति नारदपरिव्राजकोपनिषद्वचनं, → नित्यानन्दं परमसुखदं केवलज्ञानमूर्तिम् - (शु.र.१/१९) इति शुकरहस्योपनिषद्वचनं, → नित्यानन्दं सदेकरसं (नृसिं.१/१) नृसिंहोत्तरतापिन्युपनिषद्वचनं, → नित्यानन्दो निर्विकल्पः - (शरभो.२१) इति शरभोपनिषद्वचनं, → नित्यानन्दः प्रसन्नात्मा + (म.वा.र.८) इति महावाक्यरत्नावलीवचनं चात्रानुसन्धेयम् । न च जन्यभावत्वस्य ध्वंसप्रतियोगितावच्छेदकत्वेन तन्नाशोऽवश्यम्भावीति वाच्यम्, जन्यभावत्वेन हेतुत्वे मानाऽभावात्, नाशकारणानां नाश्यनिष्ठतयैव हेतुतया दोषाऽभावात् । न हि मुक्तिकालीनसुखादौ नाश्यताऽवच्छेदकसम्बन्धेन कश्चिन्नाशको विद्यते, येन तन्नाशः आशङ्क्येत । कालिकसम्बन्धेन घटत्व-पटत्वादिमत्त्वरूपजन्यत्वस्य नानात्वाच्चेत्यधिकमस्मत्कृतभानुमतीतोऽवसेयम्
જેમ તૈયાયિક મત મુજબ ધ્વંસનો અંત = નાશ થતો નથી તેમ જૈનમત મુજબ જન્ય એવા ભાવાત્મક મોક્ષસુખનો પણ અંત = નાશ થતો નથી. કોઈક અભાવનો જેમ અંત થતો નથી તેમ જન્ય એવા કોઈક ભાવનો પણ અંત ન થાય- એ સંભવિત છે. વળી, મોક્ષમાં સુખ હોવામાં અન્ય એક શ્રુતિ સાક્ષીરૂપે દેખાય છે. શ્રુતિમાં જણાવેલ છે કે બ્રહ્મ = શુદ્ધાત્મા = મુક્તાત્મા નિત્ય, વિજ્ઞાન १. हस्तादर्श ....नन्तसम्भवात्' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org