________________
२१६०
• मुक्तौ निरवच्छिन्नसुखोत्पादाऽङ्गीकारः • द्वात्रिंशिका-३१/३१ गतिकालस्य चोत्कृष्टतोऽपि पञ्चसमयमानत्वाद् विग्रहगतौ च्यवनज्ञानाऽभावोपपत्तेः । च्यवनक्रियाया असङ्ख्येयसमयमानत्वे तु तज्ज्ञानमपि भगवतः स्यादेवेति विदितमेतज्जिनागमदिनाम् । ___ एतेन अवच्छेदकतासम्बन्धेन सुखत्वावच्छिन्नं प्रति शरीरत्वेन कारणतायाः प्रमाणसिद्धत्वात् शरीरं विना मुक्तौ सुखाद्यनुत्पत्तिर्बाधिका, कारणविरहे कार्याऽयोगादिति निरस्तम्, मुक्ताववच्छेदकतासम्बन्धेन सुखाद्युत्पत्तेरनभ्युपगमात्, शरीरादेर्जन्याऽऽत्मविशेषगुणत्वाऽवच्छिन्नं प्रत्येव हेतुत्वात्, जन्यत्वस्य च ध्वंसप्रतियोगित्वरूपस्येश्वरज्ञानादेरिव मुक्तिकालीनज्ञान-सुखादेरपि व्यावृत्तत्वात् । न च तत्र कारणान्तरकल्पने गौरवम्, आगममूलकत्वात् । तदुक्तं प्रज्ञापनायां औपपातिकसूत्रे देवेन्द्रस्तवप्रकीर्णके तीर्थोद्गालीप्रकीर्णके च → निच्छिन्नसव्वदुक्खा जाइ-जरा-मरण-बंधणविमुक्का । सासयमव्वाबाहं अणुहुंति सुहं सया कालं ।। (प्रज्ञा. २/१६८ + औप.४३/११ + देवे.स्त.३०६ + तीर्थो.प्र.१२५५) ।
णवि अत्थि माणुसाणं तं सोक्खं णवि य सव्वदेवाणं । जं सिद्धाणं सोक्खं अव्वाबाहं उवगयाणं ।। (समराइच्चकहा भव ९/पृष्ठ.९६८ + प्रज्ञा.२/१७० + औप.४३/१३ + दे.स्त.२९९ + तीर्थो.प्र.१२४७)।
सिद्धस्स सुहो रासी सव्वद्धापिंडिओ जइ हवेज्जा । सोऽणंतवग्गभइओ सव्वागासे ण माइज्जा ।। (समराइच्चकहा-भव-९/पृष्ठ-९६८ + प्रज्ञा.२/१७२ + औप.४३/१५ + दे.स्त.३०० + तीर्थो.प्र.१२४९) इति । यथोक्तं उत्तराध्ययनसूत्रे अपि → रागस्स दोसस्स य संखएणं एगंतसोक्खं समुवेइ मोक्खं 6 (उत्त.३२/२) इति ।
शास्त्रवार्तासमुच्चये अपि → जन्माऽभावे जरा-मृत्योरभावो हेत्वभावतः । तदभावे च निःशेषदुःखाऽभावः सदैव हि ।। परमानन्दभावश्च तदभावे हि शाश्वतः । व्याबाधाऽभावसंसिद्धः सिद्धानां सुखमुच्यते ।। सर्वद्वन्द्वविनिर्मुक्ताः सर्वबाधाविवर्जिताः । सर्वसंसिद्धसत्कार्याः सुखं तेषां किमुच्यते ? ।।
6 (शा.वा.स.११/५१-५३) इत्युक्तम् । .. यत्तु नियमसारे → ण वि दुक्खं, ण वि सुक्खं, ण वि पीडा, णेव विज्जदे बाहा । ण वि मरणं, ण वि जणणं, तत्थेव य होइ णिव्वाणं ।। - (नि.सा.१७९) इत्युक्तं तत्र सुखनिषेधः कर्मजन्यसुखाऽपेक्षया बोध्यः । स्वाभाविकमात्मसुखन्तु परमं तत्र विद्यत एव । ___तदाहुः श्रीहरिभद्राचार्या अपि विंशिकाप्रकरणे → 'जं सव्वसत्तु तह सव्ववाहि सव्वत्थसव्वमिच्छाणं । खयविगमजोगपत्तीहिं होइ तत्तो अणंतगुणं ।। (वि.प्र.२०/३)' इति । ___तदुक्तं श्रीहरिभद्रसूरिभिः धर्मसङ्ग्रहण्यां अपि → जम्माभावे ण जरा ण य मरणं, ण य भयं ण संसारो । एतेसिमभावतो कहं ण सोक्खं परं तेसिं ?।। अव्वाबाहाओ च्चिय सयलिंदियभोगविसयपज्जते । उस्सुगविणिवित्तीतो संसारसुहं व सद्धेयं ।। इयमित्तरा णिवित्ती सा पुण आवकहिया मुणेयव्वा । भावा पुणो वि णेयं एगंतेणं तई णियमा ।। इय अणुभवजुत्तिहेतुसंगतं हंदि णिट्टितट्ठाणं । अत्थि सुहं सद्धेयं तह जिणचंदागमातो य ।। ण य सव्वण्णू वि इमं उवमाऽभावा चएति परिकहित्तुं । ण य तिहुयणे वि सरिसं सिद्धसुहस्साऽवरं अत्थि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org