________________
• स्वपरतन्त्रानुसारेण मुक्तौ परमानन्दसाधनम् •
२१५९ इति न्यायभूषणे भासर्वज्ञः। एतेन → सुखशब्द आत्यन्तिके दुःखाऽभावे प्रयुक्तः इत्येवमुपपद्यते। दृश्यते हि दुःखाऽभावे सुखशब्दप्रयोगो बहुलं लोके - (न्या.भा.१/१/२२) इति न्यायसूत्रभाष्यवचनं निराकृतम्, उपचारनिमित्तस्याऽपवर्गेऽभावात् । → आनन्दो नाम सुखचैतन्यस्वरूपोऽपरिमिताऽऽनन्दसमुद्रोऽविशिष्टसुखस्वरूपश्चाऽऽनन्द इत्युच्यते - (स.सारो.४) इति सर्वसारोपनिषदुक्तिरपि भावरूपतामेवाऽऽत्माऽऽनन्दस्य समर्थयति ।
प्रकृते → सुखमिति च सच्चिदाऽऽनन्दस्वरूपं ज्ञात्वाऽऽनन्दरूपा या स्थितिः सैव सुखम् (निरा.९) इति निरालम्बोपनिषद्वचनं, → नित्याऽऽनन्दमयं ब्रह्म - (शु.रह.१) इति शुकरहस्योपनिषद्वचनं, → ज्ञानाऽऽनन्दोऽहमद्वयः - (ते.बि.६/६०) इति तेजोबिन्दूपनिषद्वचनं, → आनन्दं ब्रह्मणो विद्वान् न बिभेति कदाचन (शर.१७) इति शरभोपनिषद्वचनं, → सच्चिदानन्दस्वरूपं ब्रह्म + (अद्व.९) इति अद्वयतारकोपनिषद्वचनं, → सत्यं विज्ञानमानन्दं निष्क्रियं निरञ्जनम् - (शां.३/१) इति शाण्डिल्योपनिषद्वचनं, → विज्ञानमानन्दं ब्रह्म - (महो.२/९) इति महोपनिषद्वचनं, → आनन्देन सदा पूर्णः सदा ज्ञानमयः - (कठ.११) इति कठरुद्रोपनिषद्वचनं, → त्वं चिन्मयः त्वमानन्दमयः, त्वं ब्रह्ममयः, त्वं सच्चिदानन्दाऽद्वितीयोऽसि - (गण.१) इति गणपत्युपनिषद्वचनं, → सत्यं ज्ञानमनन्तं च परानन्दं परं ध्रुवम् + (जा.द.२/९) इति जाबालदर्शनोपनिषद्वचनं, → अखण्डानन्दमद्वयं सत्यं ज्ञानमनन्तं यत् परं ब्रह्म - (वरा.३/२) इति वराहोपनिषद्वचनं, → तत् शान्तमशब्दमभयमानन्दं तृप्तं स्थिरमचलममृतमच्युतं ध्रुवम् - (मैत्रा.७/३) इति मैत्रायण्युपनिषद्वचनं, → शोधितपरतत्त्वोऽहं बोधानन्दैकमूर्तिरेव + (आ.प्र.१०) इति आत्मप्रबोधोपनिषद्वचनं, → कैवल्याऽऽनन्दरूपं परमाऽऽनन्दलक्षणाऽपरिच्छिन्नाऽनन्तज्योतिः शाश्वतं शश्वद् विभाति - (सि.सा.६/१) इति च सिद्धान्तसारोपनिषद्वचनं स्मर्तव्यम्, मुख्यसुखप्रतिपादकत्वात् । ___ वस्तुतस्तु दुःखं नाऽऽत्मनः स्वाभाविको विशेषगुण इति तन्नश्यति मुक्तौ परं ज्ञान-सुखादिकन्त्वात्मनो विशेष- गुणः स्वभावस्थानीय इति तन्मुक्तावप्यनुवर्तत एव । इत्थमेव → निर्वाणमय एवाऽयमात्मा ज्ञानमयोऽमलः। दुःखाऽज्ञानमया धर्माः प्रकृतेस्तु नाऽऽत्मनः ।। 6 (वि.पु.६ १७ १२२) इति विष्णुपुराणवचनमप्युपपद्यते । एतेन → आनन्दं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम् - (स्कं.म.पु.४/५८/११४) इति स्कन्दमहापुराणोक्तिरपि व्याख्याता ।
इत्थं नानाश्रुति-स्मृति-पुराणादीनामपि बलेनाऽस्मदभिहितैव मुक्तिर्मुमुक्षुभिरुपादेया, मूलशैथिल्यादिदोषेण परानुमानानां दुर्बलत्वात् । एतेन → सुखोपभोगरूपश्च यदि मोक्षः प्रकल्प्यते । स्वर्ग एव भवेदेष पर्यायेण क्षयी च सः ।। - (श्लो.वा.सम्बन्धाक्षेपरिहार-श्लो.१०५/पृ.४७५) इति श्लोकवार्तिके कुमारिलभट्टवचनं निरस्तम्, दर्शितश्रुतिसहस्रव्याकोपाऽऽपत्तेः। अत एव → तर्काऽप्रतिष्ठानाद् + (ब्र.सू. २।१।११) इति ब्रह्मसूत्रेऽप्रतिष्ठितत्वदोषतः केवलः तर्कोऽपास्तः । न च औदारिकादिशरीरस्य ज्ञान-कारणत्वादेव कल्पसूत्रे → समणे भगवं महावीरे तिन्नाणोवगए आवि होत्था । चइस्सामि त्ति जाणइ, चयमाणे न जाणइ, चुएमि त्ति जाणइ (क.सू.१/३) इत्येवं विग्रहगतौ च्यवमानस्य भगवतो महावीरस्य तत्क्रियाज्ञानाऽभावो दर्शितः सङ्गच्छते इति वाच्यम्, छाद्मस्थिकोपयोगस्याऽन्तर्मुहूर्त्तकालमानत्वाद् विग्रह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org