SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ • उभयाभावस्वरूपोहनम् . २१५५ अशरीरं वाव सन्तमित्यादिश्रुतितः पुनः । सिद्धो हन्त्युभयाऽभावो नैकसत्तां यतः स्मृतम् ।।२९।। अशरीरमिति । 'अशरीरं वाव सन्तमित्यादिश्रुतितः = 'अशरीरं वाव सन्तं प्रियाऽप्रिये न स्पृशतः' (छान्दो.८/१२/१) इति श्रुतेः पुनरुभयाऽभावः सुख-दुःखोभयाऽभावः सिखः, एकसत्तां= सुखसत्तां न हन्ति, एकवत्यपि द्वित्वाऽवच्छिन्नाऽभावप्रत्ययात् । प्रकृते छान्दोग्योपनिषद्विरोधपरिहारमावेदयति- 'अशरीरमि'ति । → न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति। अशरीरं वाव सन्तं न प्रियाऽप्रिये स्पृशतः ।। - (छांदो.८।१२।१) इति छान्दोग्योपनिषदुक्तितात्पर्यमाविष्क्रियते- 'वाव' इति सम्बोधने, भो ! इत्यर्थः, सम्बोध्याऽत्र श्रुतौ मैत्रेयी । सन्तं = मिथ्यावासनाशून्यम् । प्रियाप्रिये = सुख-दुःखे न स्पृशतः = नोत्पद्यते । तत्त्वचिन्तामणिकृतस्तु ‘वावसन्तं' इति यङ्लुकि । तथा च शरीरयोगं विना पुनः पुनर्वसन्तमित्यर्थः (त.चिं.अनु.भा.२/मु.वा.पृ.१७८) इत्याहुः । तदसत्, तथा सति ‘अभ्यस्तादन्तिरनकार' (पा.व्या.७/३/५५) इति पाणिनिसूत्रेण नकारलोपाऽऽपत्तेः। तस्मात् कल्पतरुकारसम्मतोक्तव्याख्यैव ज्यायसी (किर.रह.पृ. ३४) इति किरणावलीरहस्ये मथुरानाथः । ततश्च दर्शितश्रुतेः मुक्तौ सिद्धः उभयाऽभावः सुखस्याऽप्यभावं साधयतीति न तत्र सुखसिद्धिरिति नैयायिकाऽऽकूतम् । तच्च न समीचीनम्, यतो दर्शितश्रुतिसिद्धः सुख-दुःखोभयाऽभावः = सुख-दुःखोभयत्वाऽवच्छिन्नाऽभावो हि मुक्तौ सुखसत्तां न हन्ति, एकवत्यपि द्वित्वाऽवच्छिन्नाऽभावप्रत्ययात्, घटवत्यपि भूतले 'घट-पटौ न स्तः' इति वाक्यात् ‘एकसत्त्वेऽपि द्वयं नास्तीति न्यायेन घट-पटोभयत्वाऽवच्छिन्नाऽभावप्रतीतेः । ततश्चोक्तश्रुतितो मुक्तौ दुःखाऽभावप्रयुक्तः सुखदुःखोभयत्वाऽवच्छिन्नाऽभावो बोध्यः, एकैकनिषेधे च वाक्यभेदाऽऽपत्तेः । एतेन सुखाऽभावप्रयुक्ततादृशोभयाऽभावकल्पना प्रत्युक्ता, 'दुःखेनाऽत्यन्तं विमुक्तश्चरति' ( ) इति श्रुतिबलाद् दुःखाऽभावस्य तत्र प्रामाणिकत्वात् । एतेन 'प्रियाऽप्रिये न स्पृशतः' इत्यत्र द्वित्वेनोपस्थितयोः प्रियाऽप्रिययोः प्रत्येकं निषेधाऽन्वयानाऽपवर्गे सुखसिद्धिरिति निरस्तम्, प्रियाऽप्रियोभयत्वाऽवच्छिन्नाऽभावस्यैवाऽत्र विषयत्वात्, द्वित्वस्याऽऽख्यातार्थाऽन्विताऽभावप्रतियोगिगामितयैवोपपत्तेः । एतेन → असुख-दुःखोऽद्वयः परमात्मा - (नृसिं.९/५) इति नृसिंहोत्तरतापनीयोपनिषद्वचनमपि व्याख्यातम् । इत्थमेव 'पृथिव्यां स्नेह-गन्धौ न स्त' इत्यस्योपपत्तेः । उत्तानोऽप्ययमर्थो न भवता હ ઉભયાભાવ એની હાજરીનો નિષેધ ન ક્રે - જૈન હ थार्थ :- qणी, 'भो भैत्रेयी ! शरीरशून्य मिथ्यावासनाशून्य मात्माने प्रियाप्रिय = सुषદુઃખ સ્પર્શતા નથી” આ મુજબની શ્રુતિથી સિદ્ધ ઉભયાભાવ એકની = સુખની હાજરીને રવાના કરતો નથી. કારણ કે સ્મૃતિમાં કહેવાયેલ છે કે (આ વાત આગળના શ્લોકમાં કહેવાશે.) (૩૧/૨૯) टार्थ :- qणी, 'भो मैत्रेयी ! शरीरशून्य मिथ्यापासनाशून्य मात्माने प्रियाप्रिय = सुप-दु:५ સ્પર્શતા નથી' આ પ્રમાણેની શ્રુતિથી = છાન્દોગ્ય ઉપનિષદૂઉક્તિથી મુક્તિમાં જે સુખ-દુ:ખઉભયાભાવ સિદ્ધ થાય છે તે એકલા સુખની હાજરીને રવાના કરતો નથી. કારણ કે ન્યાયની પરિભાષા મુજબ એક પદાર્થયુક્ત અધિકરણમાં દ્વિત્વઅવચ્છિન્ન અભાવની પ્રતીતિ થાય છે. અથવા તો તે શ્રુતિમાં અપ્રિય Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004945
Book TitleDwatrinshada Dwatrinshika Prakran Part 8
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages414
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy