________________
सुखार्थितानियतप्रवृत्तिप्रज्ञापना
तत्संस्कारतोऽप्यसङ्गप्रवृत्तेर्दुर्वचत्वमिति न किञ्चिदेतत् ||२८|| ननु श्रुतिबाधान्न मुक्तौ सुखसिद्धिरित्यत आहपूर्वकालीनयोगाऽनुष्ठानसंस्कारसामर्थ्यतोऽपि परवैराग्यदशायामपि असङ्गप्रवृत्तेः पायभूतयोगाऽनुष्ठानस्य दुर्वचत्वं एव इति न किञ्चिदेतत् ।
असङ्गभावेन मुक्त्यु
एतेन विवेकिनान्तु बहुतरदुःखानुविद्धतया सुखे नोत्कटराग इति तदभावेऽपि नोत्कटद्वेषः इति बलवद्द्द्वेषविषयसाधनत्वस्यैव प्रवृत्तिविरोधितया मोक्षोपाये न प्रवृत्त्यनुपपत्तिः ← ( नवमु. पृ. २६) इति नवमुक्तिवादकृतो गदाधरस्याऽप्युक्तिः प्रतिक्षिप्ता, वैषयिकसुखस्य बहुतरदुःखाऽनुविद्धत्वेऽपि प्रशमप्रभवसुखस्याऽतथात्वेन मुक्तौ तदभावे उत्कटद्वेषोदयनियमेन मोक्षोपाये प्रवृत्त्यनुपपत्तेः । तदुक्तं भासर्वज्ञेनापि न्यायभूषणे 'दुःखाविनाभावित्वं तु वैषयिकस्यैव सुखस्य' ( न्या. भू.पू. ५९५ ) इति । एतेन बहुतरदुःखानुविद्धतया सुखस्यापि प्रेक्षावयत्वाद् मधुविषसम्पृक्तान्नभोजनसुखवद् ← (किरणा. पृ. २७) इति किरणावलीकृत उदयनस्य, अनिष्टोपरमाऽर्थो मोक्षोपदेशः प्रवृत्तिश्च मुमुक्षूणामिति । नेष्टमनिष्टेनाऽननुविद्धं सम्भवतीति इष्टमप्यनिष्टं सम्पद्यते । अनिष्टहानाय घटमान इष्टमपि जहाति । विवेकहानस्याऽशक्यत्वादिति ← ( न्या. सू. १ ।१ ।२२ ) इति न्यायसूत्रभाष्यकृतश्च वात्स्यायनस्य वचनमपि निराकृतम्, प्रेक्षावत्प्रवृत्त्यन्यथानुपपत्तेरेव सिद्धिसुखे मानत्वात् । न च क्षुदादिदुःखनिवृत्त्यर्थमन्नपानादिप्रवृत्तिवदत्रोपपत्तिः, तत्राऽपि सुखार्थमेव प्रवृत्तेः । अन्यथाऽस्वादुपरित्याग - स्वादूपादानाऽनुपपत्तेः, अभावे विशेषाऽभावेन कारणविशेषस्याऽप्रयोजकत्वात् । न च चिकित्सास्थलीयप्रवृत्तिवदुपपत्तिः, तत्रापि दुःखध्वंसनियताऽऽगामिसुखार्थितयैव प्रवृत्तेः । न च प्रायश्चित्तवदत्र दुःखद्वेषयोनिरेव प्रवृत्तिरिति वाच्यम्, तत्राऽप्यभिमताऽऽगामिबोधिहेतुकर्मक्षयाऽर्थितयैव प्रवृत्तेरिति (स्या . क. १ ।२ । पृ. ४१) व्यक्तं स्याद्वादकल्प
२१५४
•
=
द्वात्रिंशिका-३१/२८
लतायाम् ।
यत्तु योगर्द्धिसाध्यनिरतिशयाऽऽनन्दमयीं जीवन्मुक्तिमुद्दिश्य प्रवृत्तः कारणवशात् परममुक्तिमासादयतीति न युक्तम्, विरक्तानां मोक्षेऽधिकारादिति, तन्न विषयसुखेच्छाविच्छेदस्यैव वैराग्यपदार्थत्वात् । परमप्रयोजनतया परं परममुक्तिमुद्दिश्यैव प्रवृत्तिरिति तु युक्तः पन्थाः । एतेन जीवन्मुक्तिसहितायाः परममुक्तेः पुरुषार्थत्वात् ← ( न्या. ली. ८१ ) इति न्यायलीलावतीकृद्वचनं निराकृतम्, पुरुषार्थतावच्छेदकशरीरे गौरवाच्चेत्यधिकमस्मत्कृत-भानुमतीतोऽवसेयम् ( न्यायालोकटीका - प्र. १ / पृ.३३ ) ||३१ / २८ ।। અપરવૈરાગ્યદશામાં યુક્તિથી સંગત થતું નથી. તેથી અપરવૈરાગ્યઅવસ્થામાં સકલઆત્મવિશેષગુણોચ્છેદમાં અનિષ્ટપણાનું ભાન થતાં મોક્ષસાધનોમાં મુમુક્ષુની પ્રાથમિક પ્રવૃત્તિ જ સંગત નહિ થાય. તેથી તેના કોઈ સંસ્કાર પણ ઉત્પન્ન નહિ થાય. તેથી ‘પૂર્વકાલીન સંસ્કારથી મોક્ષસાધનોમાં અસંગભાવે મુમુક્ષુની પ્રવૃત્તિ થાય છે.'- આવું કહેવું સંગત થતું નથી. માટે નૈયાયિકની વાત બરાબર નથી. (૩૧/૨૮)
‘મોક્ષમાં સુખ માનવામાં તો શ્રુતિ-ઉપનિષદ્નો વિરોધ આવે છે. મોક્ષસુખસ્વીકાર શ્રુતિને બાધિત કરે છે. માટે મોક્ષમાં સુખની સિદ્ધિ થઈ ન શકે'- આવી તૈયાયિકની શંકાનું સમાધાન કરવા માટે આગળના શ્લોકમાં ગ્રંથકારશ્રી કહે છે કે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org