________________
२१५६
- • मुक्तौ श्रुतितः सुखसिद्धिः • द्वात्रिंशिका-३१/२९ अस्तु वा तत्राऽप्रियपदसन्निधानात्' प्रियपदस्य वैषयिकसुखपरत्वमेवेत्यपि द्रष्टव्यम् । यतः स्मृतम् ।।२९।। ज्ञायते तत्र के वयम् ? न हि स्थाणोरयमपराधो यदेनमन्धो न पश्यति। न चैतावताऽस्माकमपि मुक्तिसुखाऽनुपलम्भः। तदुक्तं साङ्ख्यसूत्रे अपि → नाऽन्धाऽदृष्ट्या चक्षुष्मतामनुपलम्भः - (सां.सू. ११५६) इति । ..अस्तु वा तत्र श्रुतौ अप्रियपदसन्निधानात् = अशुभकर्मजन्य-वैषयिकदुःखबोधकाऽप्रियशब्दसमभिव्याहारात् प्रियपदस्य वैषयिकसुखपरत्वं = शुभकर्मजन्यवैषयिकसुखबोधजननेच्छयोच्चरितत्वं एव इत्यपि समाधानं परमानन्दमयमुक्तिवादिकृतं सम्यग् द्रष्टव्यम् । इत्थमेव → अशरीरं सदा सन्तमिदं ब्रह्मविदं क्वचित् । प्रियाऽप्रिये न स्पृशतस्तथैव च शुभाऽशुभे ।। -- (आत्मो.१४-१५) इति आत्मोपनिषद्वचनम्,
→ तत्सन्तु चेतस्यथवाऽपि देहे । सुखानि दुःखानि च किं ममाऽत्र ?।। - (मा.पु.३७।३८) इति 'च मार्कण्डेयपुराणवचनमपि सङ्गच्छते ।
मुक्तात्मनि सुखाद्यात्मगुणानङ्गीकारे तु → सत्यो नित्यः सर्वसाक्षी महेशो नित्याऽऽनन्दः । (शर.२०) इति शरभोपनिषद्वचनं, → आनन्द आत्मा - (तैत्ति.२/५) इति तैत्तिरीयोपनिषद्वचनं, → आनन्दघन एवाहम् - (ते.बि.३/२६) इति तेजोबिन्दूपनिषद्वचनं, → आनन्दघनमव्ययम् 6 (अध्या.६१) इति अध्यात्मोपनिषद्वचनं, → आनन्दत्वं सदा मम - (वराहो.३/१०) इति वराहोपनिषद्वचनं, → आनन्दत्वान्न मे दुःखम् + (आ.प्र.३०) इति आत्मप्रबोधोपनिषद्वचनं, → आनन्दमयस्तु पुरुषोत्तमः (सामर.९७) इति च सामरहस्योपनिषद्वचनं कथमुपपादनीयम् ? ___कथं वा → शुद्धो-ऽबाध्यस्वरूपो बुद्धः सुखरूप आत्मा - (नृसिं.९) इति पूर्वोक्तं(पृ.१७२५) नृसिंहोत्तरतापनीयोपनिषद्वचनं सङ्गतिमानेतव्यम् ? कथं वा → सत्यं ज्ञानमनन्तमानन्दं ब्रह्म । (स.सा.४) इति सर्वसारोपनिषद्वचनमादेयं स्यात् ? कथं वा → प्रज्ञानमेव तद् ब्रह्म, सत्यप्रज्ञानलक्षणम् 6 (महो.४/८१) इति महोपनिषद्वचनं सङ्गच्छेत ? मुक्तौ ज्ञानाद्यात्मगुणविशेषाऽनुच्छेदद्योतनायैव त्रिपाविभूतिमहानारायणोनिषदि अपि → तदेव सद्घनम् । तदेव चिद्घनम् । तदेवाऽऽनन्दघनम् - (त्रि.वि.म.७/१०) इत्येवं सर्वत्राऽविशेषेण घनत्वमुक्तम् ।
एतेन → ब्रह्म नित्यचिद्घनमक्षतम् - (महो.४/११९) इति महोपनिषद्वचनं, → प्रज्ञानघनमानन्दं ब्रह्म - (अक्ष्यु.५०) इति अक्ष्युपनिषद्वचनं, → सद्घनं चिद्घनं नित्यमानन्दघनमव्ययम् - (अध्या.६१) इति अध्यात्मोपनिषद्वचनं, → ब्रह्मानन्दं परमं चैव - (पा.ब्र.३०) इति पाशुपतब्रह्मोपनिषद्वचनं, → आनन्दमय आत्मा - (कठ.१९) इति कठरुद्रोपनिषद्वचनं, → सच्चिदानन्दमनन्तं ब्रह्म - (जा.द.९/ શબ્દના સાન્નિધ્યથી પ્રિયપદ વૈષયિક સુખને જણાવવાની ઈચ્છાથી પ્રયોજાયેલ છે- આવું પણ સમજી શકાય છે. અર્થાત “વિષયના ભોગવટાથી થનારું સુખ કે દુઃખ અશરીરી આત્માને નથી'- આ ઉપરોક્ત શ્રુતિનો અર્થ સમજવો. કારણ કે સ્મૃતિમાં કહેલ છે કે (આ વાત આગળના શ્લોકમાં કહેવાશે.) (૩૧/૨૯) १. हस्तादर्श ‘सविधानात्' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org