________________
• प्रज्ञाप्रतिष्ठोपायाऽऽवेदनम् •
१८६१ च सम्यग्गमनात्' । वाचा संयतो = अकुशलवाग्निरोध-कुशलवागुदीरणाभ्यां', विजितेन्द्रियो = निवृत्तविषयप्रसरः ।।११।। सर्वशः । क्षीणेन्द्रिय-मनोवृत्तिनिराशीनिष्परिग्रहः ।। - (रा.गी.१५/५२) इति । प्रकृते → यदा संहरते कामान् कूर्मोऽङ्गानीव सर्वशः । तदात्मज्योतिरचिरात् स्वात्मन्येव प्रसीदति ।। - (म.भा.शांति. २१/३) → नास्य च्छिद्रं परः पश्येत् च्छिद्रेषु परमन्वियात् । गृहेत् कूर्म इवाऽङ्गानि रक्षेद् विवरमात्मनः ।। - (म.भा.शांति४३/४९) इति महाभारतश्लोकयुगलं, → यथाऽयं कमठोऽङ्गानि सङ्कोचयति सर्वतः । विषयेभ्यस्तथा खानि सङ्कर्षेद् योगतत्परः ।। - (ग.गी.१/५५) इति गणेशगीतावचनमपि स्मर्तव्यम् । ततश्च कूर्माङ्गन्यायेनाऽङ्गोपाङ्गेन्द्रियादयः संवृता ज्ञेयाः। तदुक्तं भिक्षुमुद्दिश्य नारदपरिव्राजकोपनिषदि → अपापमशठं वृत्तमजिह्यं नित्यमाचरेत् । इन्द्रियाणि समाहत्य कूर्मोऽङ्गानीव सर्वशः ।। (ना.परि.३/ ७४) इति । ततश्च योगसिद्ध्युपायभूता धारणाऽपि सम्पद्यते । अत एव धारणानिरूपणावसरे क्षुरिकोपनिषदि → कूर्मोऽङ्गानीव संहृत्य मनो हृदि निरुध्य च - (क्षुरि.२) इत्याद्युक्तम् ।
इत्थमेवाऽस्य प्रज्ञा स्थिरा सम्पद्यते । तदुक्तं अध्यात्मसारे भगवद्गीतायां च → यदा संहरते चाऽयं कूर्मोऽङ्गानीव सर्वशः । नाऽभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ।। ( (अ.सा.१६/ ६७, भ.गी.२/५८) इति । हस्तादीनामुपलक्षणत्वेन मनोवितर्कादरपि ग्रहणमवबोद्धव्यम् । तदुक्तं संयुक्तनिकाये देवतासंयुक्ते नन्दनवर्गे दुष्करसूत्रे → कुम्मो व अङ्गानि सके कपाले समोदहं भिक्खु मनोवितक्के । अनिस्सितो अञमहेठयानो परिनिबुतो नूपवदेय्य कञ्चीति ।। - (सं.नि. १।१।१७पृ.९) इति । अझं = अन्यं अहेठयानो = अपीडयन, नूपवदेय्य = नोपवदेत, न हीलयेदिति यावत्, शिष्टं स्पष्टम् । कारणे च संयमपरिपालनादिप्रयोजने उपस्थिते सम्यग् = ईर्यासमितिपूर्वकं गमनात् । परेषामपि सम्मतमिदम् । तदुक्तं संन्यासगीतायां → दृष्टिपूतं न्यसेत् पादं, वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद् वाणी मनःपूतं समाचरेत् ।। - (सं.गी.६/१०७) → संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा । शरीरस्याऽत्यये चैव समीक्ष्य वसुधां चरेत् ।। (सं.गी.८/६४) इति ।
वाग्गुप्तिदर्शनायाह- 'वाचे'ति । निवृत्तविषयप्रसरः = संयमबाधकाऽनावश्यकोभयविषयत्यागेन संयमनिर्वाहौपयिकाऽन्न-पान-वस्त्र-पात्रादिविषयेऽकस्मादुपनतविजातीयरूप-शब्दादौ च रागादिपरित्यागेन विजितेन्द्रिय इति भावः । अनेन योगभेदद्वात्रिंशिकोक्ता (द्वा.द्वा.१८/२९ भाग-४ पृ.१२६०) प्रथमा मनोगुप्तिरुदाहृता । ____ अधुना प्रागुक्तां द्वितीयां मनोगुप्तिमुपदर्शयितुमाह- 'अध्यात्म-ध्यानरतः = अध्यात्म-ध्यानोपधायकगुणेषु सुसमाहिताऽऽत्मा सन् विशुद्धाऽध्यात्म-प्रशस्तध्याननिमग्नः यश्च → 'आगमबलिया समणा निग्गंथा - (व्य.सू. १०/३) इति व्यवहारसूत्रवचनभाविताऽन्तःकरणतया सूत्रार्थं यथावस्थितं विधिग्रहणशुद्धं चिन्तयेत् यथाविषयं पदार्थ-वाक्यार्थ-महावाक्यार्थादिक्रमेण । तदुक्तं दशवैकालिके → हत्थसंजए पायसंजए, वायसंजए संजइंदिए । अज्झप्परए सुसमाहिअप्पा, सुत्तत्थं च विआणइ जे स भिक्खू ।। -(द.वै.१०/१५) इति । प्रकृते → यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । विद्या तपश्च कीर्तिश्च
આ જ રીતે અનુચિત વાણી ન બોલવા દ્વારા અને જરૂર હોય ત્યાં વિવેકપૂર્વક સામે ચાલીને હિત-મિત-સત્ય બોલવા દ્વારા વાણી ઉપર પણ સાધુ અંકુશ = સંયમ રાખે છે. તથા પાંચેય ઈન્દ્રિયોને પોત-પોતાના વિષયમાં ફેલાતી અટકાવવા દ્વારા જે જિતેન્દ્રિય બને તે સાધુ કહેવાય. (૨૭૧૧) १. हस्तादर्श ‘गामनात्' इत्यशुद्धः पाठः । २. हस्तादर्श ....दीराणाभ्यां' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org