________________
२०२८
• केवलिनि परिषहविमर्शः •
द्वात्रिंशिका-३०/१४
=
द्विविधवेदनीयोदयध्रौव्ये तयोः सुवचत्वादिति ।
वस्तुतो बाह्ययोरपि सुखदुःखयोरिष्टाऽनिष्टाऽर्थशरीरसम्पर्कमात्रं प्रयोजकम्, न तु बहिरिन्द्रियज्ञानमपीति भगवति तृणस्पर्शादिपरीषहाभिधानं साम्प्रदायिकं सङ्गच्छत इति न किञ्चिदेतत् ।। १४ ।। आध्यात्मिकदोषोपशमोद्रेकाभ्यामेव = द्रव्यकर्म-भावकर्महास-विपाकोदयाभ्यामेव आध्यात्मिक सुख - दुःखोत्पत्तिसम्भव इत्यकामेनाऽप्यङ्गीकर्तव्यम् । इत्थं भगवति सर्वज्ञे अपि द्विविधवेदनीयोदयधीव्ये = साताSसात वेदनीयविपाकोदयाऽऽवश्यकत्वे तयोः आध्यात्मिक सुख-दुःखयोः सुवचत्वादिति ।
=
=
ननु सुखं तावद् द्विविधं ऐन्द्रियकमतीन्द्रियञ्च दुःखन्तु ऐन्द्रियकमेव । तत्राऽतीन्द्रियं सुखं तावदमूर्ताभिः आत्मपरिणामशक्तिभिः उत्पद्यमानं ज्ञानमेव निराकुलतया व्यवस्थितम् । ऐन्द्रियकसुखदुःखे त्विष्टानिष्टविषयोपनिपाताद् मूर्ताभिः क्षयोपशमशक्तिभिरुत्पद्यमानं ज्ञानमपेक्ष्य प्रवर्तेते । अत एव सर्वज्ञानां न ते । तदुक्तं प्रवचनसारे सुक्खं वा पुण दुक्खं केवलनाणिस्स णत्थि देहगदं । जम्हा अदिंदियत्तं जादं तम्हा दु तं णेयं ।। ← (प्र.सा. १ /२० ) इति शङ्कायामाह - 'वस्तुत' इति । बाह्ययोः = इन्द्रियार्थसम्बन्धापेक्षयोः अपि सुख-दुःखयोः इष्टानिष्टार्थशरीरसम्पर्कमात्रं प्रयोजकं = साक्षात् परम्परया वा कारणं, न तु तत्र बहिरिन्द्रियज्ञानमपि इष्टानिष्टार्थेन्द्रियसम्पर्कजन्यज्ञानमपि प्रयोजकम् । ततश्च भवस्थकेवलिनां भावेन्द्रियाऽभावे रतिरूपमैन्द्रियकं सुखं अज्ञानाऽरतिजन्यं च दुःखं मा भूत्, शरीरेण सहाऽनिष्टविषयसम्पर्कजन्यस्य औदर्यज्वलनोपतापजन्यस्य च दुःखस्योत्पत्तौ को विरोधः? न हि दुःखकारणानि द्वेषद्वारैव दुःखं जनयन्ति, अपि तु आहत्यैव इति भगवति भवस्थकेवलिनि तृणस्पर्शादिपरिषहाभिधानं साम्प्रदायिकं श्वेताम्बरसम्प्रद्राय-यापनीयसम्प्रदायादिप्रसूतं सङ्गच्छते । एकेनाऽधिका न दश परिषहा जिने ← (प्र.क. भा. परि. २ पृ.८७, न्या.कु.३/७/७६ पृ. ८६२) इति प्रमेयकमलमार्तण्ड-न्यायकुमुदचन्द्रयोः प्रभाचन्द्रोक्तिः निरस्ता, एगविहबंधगस्स णं भंते! सजोगिभवत्थ-केवलिस्स कइ परिसहा पण्णत्ता ? गोयमा ! एक्कारस परिसहा पण्णत्ता, नव पुण वेयंति त्ति ← (व्या.प्र.८/८/४२० ) इति व्याख्याप्रज्ञप्तिवचनविरोधापत्तेः, तदुक्तं यापनीयतन्त्राऽग्रणिशाकटायनाचार्येण केवलिभुक्तिप्रकरणे
एतेन
થાય છે. અને ક્યારેક તો સારી-ખોટી વિચારણા પણ ન હોય છતાં આધ્યાત્મિક દોષના ઉપશમથી આધ્યાત્મિક સુખની ઉત્પત્તિ અને આધ્યાત્મિક-આંતરિક દોષોનો ઉછાળાથી આધ્યાત્મિક દુઃખની ઉત્પત્તિ થતી દેખાય છે. માટે ભગવાનમાં પણ સાતાવેદનીય અને અશાતા વેદનીય કર્મનો વિપાકોદય ધ્રુવ હોવાથી આધ્યાત્મિક સુખ દુ:ખ સર્વજ્ઞ ભગવંતમાં પણ કહી શકાય છે.
મૈં ઈન્દ્રિયજ્ઞાન સુખાદિપ્રયોજક નથી - શ્વેતાંબર :
વાસ્તવમાં તો બાહ્ય સુખ-દુઃખ પ્રત્યે પણ કેવલ ઈષ્ટ-અનિષ્ટ વિષય સાથે શરીરનો કેવલ સંપર્ક જ પ્રયોજક છે, નહિ કે બહિરિન્દ્રિયજન્ય જ્ઞાન પણ. તેથી જ સર્વજ્ઞ ભગવંતમાં તૃણ સ્પર્શ વગેરે ૧૧ પરિષહ સંબંધી શ્વેતાંબર સંપ્રદાયનું કથન પણ સંગત થાય છે. માટે ‘અતીન્દ્રિય એવા સર્વજ્ઞમાં सुख-दुःख- क्षुधाहि उत्पन्न न थाय' - खा मान्यतामां डां हम नथी. (३०/१४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org