________________
अष्टादशदोषानामाऽऽविष्करणम् •
२०१५
हन्ताऽज्ञानादिका दोषा घातिकर्मोदयोद्भवाः । तदभावेऽपि किं न स्याद्वेदनीयोद्भवा क्षुधा ॥७॥ हन्तेति । (१) हन्त अज्ञानादिका घातिकर्मोदयोद्भवा दोषाः प्रसिद्धाः । तदभावेऽपि वेदनीयोद्भवा क्षुधा किं न स्यात् । न हि वयं भवन्तमिव तत्त्वमनालोच्य क्षुत्पिपासादीनेव
·
तथाहि - 'हन्त' । यत्तावदुक्तं 'क्षुधाया दोषत्वात् तदभावे कवलाहाराऽनुपपत्तेः ' ( द्वा.द्वा. ३०/१ पृ.२००९) इति तन्न, यतो घातिकर्मोदयोद्भवा अज्ञानादिका दोषाः प्रसिद्धाः, न त्वघातिकर्मविपाकोदयाSsपादिताः क्षुधादयः, यतो घातिकर्मक्षयजन्यकेवलज्ञानं हि घातिकर्माणि तदविनाभाविनः परिणामा वा प्रतिबघ्नन्ति, न त्वघाति वेदनीयं कर्म तज्जन्यक्षुत्पिपासापरिणामी वा । अत एव घातिकर्मजन्यानेवाऽष्टादशदोषान् दानान्तरायादीन् साधु परिभाषन्ते प्रगल्भाः । तदाहु:
अन्तराया दान-लाभ-वीर्य-भोगोपभोगाः । हासो रत्यरती भीतिर्जुगुप्सा शोक एव च || कामो मिथ्यात्वमज्ञानं निद्रा चाऽविरतिस्तथा । रागो द्वेषश्च नो दोषास्तेषामष्टादशाऽप्यमी ।। ( ) कुवलयमालायां रत्नप्रभसूरिभिः अप्येत एवाऽष्टादश दोषा दर्शिताः ।
1
यद्यपि दर्शनशुद्धिप्रकरणे चन्द्रप्रभसूरिभिः प्रवचनसारोद्धारे च नेमिचन्द्रसूरिभिः 'अन्नाण- कोह - मय- 'माण - "लोह - 'माया- 'रई य ' अरई य " निद्दा - " सोय " अलियवयण-१२ चोरिया १३ मत्सर - भयाई १४ ।। १५ पाणिवह- १६पेम-"कीडा - पसंग - " हासा य जस्स इह दोसा । अट्ठारस वि पणट्ठा नमामि देवाहिदेवं तं ।।
← (द.शु. ९- १० प्र. सारो. ४५१-५२ ) इत्येवमष्टादश दोषा दर्शिताः तथापि न क्वाऽप्यघातिकर्मजन्यदोषो दर्शित इति क्षुधादीनामदोषतैव ।
अत्र च केवलज्ञानं प्रति सर्व एवैते प्रतिबन्धकाः, पृथगेव वा केवलज्ञान- केवलदर्शन- क्षायिकसम्यक्त्वचारित्र - दानादिलब्धिपञ्चकं प्रति क्रमशः अज्ञान-निद्रा-मिथ्यात्वाऽविरत्याद्यन्तरायाणां प्रतिबन्धकत्वम् । न चेदं प्रभाचन्द्राद्युक्तेषु क्षुत्पिपासा - जरादिषु सम्भवति । न हि क्षुत्पिपासयोः कामादेरिव चारित्रप्रतिबन्धकत्वं दृष्टमिष्टं वा, अन्यथा तेनैव ताभ्यां तदतिक्रमप्रसङ्गात् । इत्थमज्ञानादीनामेव दोषत्वे सिद्धे तदभावेऽपि = घातिकर्मोदयजन्याऽज्ञानादिदोषविरहेऽपि वेदनीयोद्भवा क्षुधा पिपासा च किं न स्यात् ? न हि वयं श्वेताम्बराः भवन्तं = दिगम्बरं दोषस्वरूपं अनालोच्य क्षुत्पिपासादीनेव इव तत्त्वं * ભૂખ-તરસ દોષાત્મક નથી - શ્વેતાંબર :
ગાથાર્થ :- ખરેખર, દોષ તો ઘાતિકર્મના ઉદયથી ઉત્પન્ન થનાર અજ્ઞાન વગેરે છે. કેવલજ્ઞાનીમાં અજ્ઞાનાદિ ૧૮ દોષ ન હોય તો પણ વેદનીય કર્મથી ઉત્પન્ન થનાર ભૂખ કેમ ન હોય ? (૩૦/૭) ટીકાર્થ :- ખરેખર, દોષ તરીકે તો ઘાતિકર્મના ઉદયથી ઉત્પન્ન થનાર અજ્ઞાન વગેરે પ્રસિદ્ધ છે. અજ્ઞાનાદિ દોષો કેવલજ્ઞાનીમાં ન હોવા છતાં પણ અઘાતિકર્મ તો કેવલજ્ઞાનીને હોય છે. તેથી વેદનીય કર્મ સ્વરૂપ અઘાતિ કર્મથી ઉત્પન્ન થનારી ક્ષુધા કેવલજ્ઞાનીને કેમ ન હોય ? અર્થાત્ ભૂખ તો આપણી જેમ કેવલજ્ઞાનીને પણ લાગી શકે. અમે શ્વેતાંબરો કાંઈ દિગંબરની જેમ વગર વિચાર્યે ભૂખ-તરસ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=
=