________________
१९९२
• वाचयितुमनर्हाणां निर्देशः • द्वात्रिंशिका-२९/१८ विनयं ग्राह्यमाणो यो मृदूपायेन कुप्यति । उत्तमां श्रियमायान्तीं दण्डेनाऽपनयत्यसौ।।१८।।
अविनीताऽपायमाह- ‘विनयमि'ति । यो रोषणः अज्ञः स्तब्धः अप्रियवक्ता मायावी संयमयोगेष्वनादृतो नरो मृदूपायेन = एकान्तमृदुभणनाधुपायेन विनयं ग्राह्यमाणः = अभिशिक्ष्यमाणः कुप्यति = रुष्यति असौ उत्तमां = दिव्यां श्रियं = क्षमादिलक्ष्मीं आयान्ती = आत्मनो भवन्तीं दण्डेन काष्ठमयेन अपनयति = प्रतिषेधयति । एतदुक्तं भवति- विनयः बाह्याऽभ्यन्तरसम्पदो निमित्तम् । तत्र स्खलितं यदि कश्चिन्नोदयति स गुणः, तत्राऽपि रोषकरणेन वस्तुतः तथाविधसम्पद एव निषेधः । उदाहरणञ्चाऽत्र दशारादयः कुरूपाऽऽगतश्रीप्रार्थनाप्रणयभङ्गकारिणः तद्रहिताः तदभङ्गकारी च तद्युक्तः कृष्ण इति श्रीहरिभद्रसूरिः । तदुक्तं दशवैकालिके → जे अ चंडे मिए थद्धे दुव्वाई नियडी सढे । वुज्झइ से अविणीअप्पा, कटुं सोअगयं जहा ।। विणयंपि जो उवाएणं चोइओ कुप्पई नरो । दिव्वं सो सिरिमिज्जतिं दंडेण पडिसेहए ।।
6 (द.वै.९/२/३-४) इति । अन्वय-व्यतिरेकमुखेनाऽयमेवाऽर्थ उत्तराध्ययने → अणुसासणमोवायं दुक्कडस्स य परेणं । हियं तं मन्नए धीरो, वेस्सं भवइ असाहुणो ।। हियं विगयभया बुद्धा फरुसं पि अणुसासणं । वेस्सं तं होइ मूढाणं खंतिसुद्धिकरं पयं ।।
6 (उत्तरा.१/२८-२९) इत्येवमुपवर्णितः । अत एवाऽविनीतं वाचयितुमपि न कल्पते । तदुक्तं बृहत्कल्पसूत्रे → तओ नो कप्पंति वाइत्तए । तं जहा- अविणीए विगईपडिबद्धे, अविओसवियपाहुडे - (बृ.क.सू.४/१०) इति । → चत्तारि अवातणिज्जा पन्नत्ता । तं जहा-(१) अविणीवीई, (२) पडिबद्धे, (३) अविओसवितपाहुडे, (४) मायी - (स्था.४/४/३/३२६) इति स्थानाङ्गसूत्रमप्यत्र स्मर्तव्यम् । यथोक्तं शिवोपनिषदि → न भक्तिर्न यशः, क्रौर्यं न तमध्यापयेद् गुरुः - (शिवो.७/ ६५) इति ।
विनीतं तु वाचयेत् । यथोक्तं चन्द्रकवेध्यकप्रकीर्णके अपि → सीसं सुइमणुरत्तं निच्चं विणओवयारसंपन्नं । वाएज्ज व गुणजुत्तं पवयणसोहाकरं धीरं ।। (चं.वे.५०) एत्तो जो परिहीणो गुणेहिं गुणसयनओववेएहिं । पुत्तं पि न वाएज्जा किं पुण सीसं गुणविहूणं ? ।। (चं.वे.५१) - इति । न चैवं गुरोः तदुपरि द्वेषप्रसङ्गः, बहुदोषनिवारणार्थत्वेन तदनापत्तेः । तदुक्तं बृहत्कल्पभाष्ये → इहरा वि ताव थब्भति, अविणीतो लंभितो किमु सुएण। मा णट्ठो णस्सिहिती, खए व खाराऽवसेओ तु ।। 6 (बृ.क.भा. ५२०१) इति । तदुक्तं वाल्मीकिरामायणे अपि → गुरुभक्तिरतानां च वक्तव्यं मोक्षसाधनम् + (वाल्मी. रा. ५/४३) इति प्रागुक्तं(पृ.१५२१) स्मर्तव्यम् ।
अविनीतस्य तु ज्ञानमपि न दातव्यम् । यथोक्तं बृहत्कल्पभाष्ये निशीथभाष्ये च → पुरिसम्मि दुब्विणीए विणयविहाणं न किंचि आइक्खे । न वि दिज्जइ आभरणं पलियत्तियकन्नहत्थस्स ।। मद्दवकरणं नाणं तेणेव उ जे मदं समुवहति । ऊणगभायणसरिसा अगदो वि विसायते तेसिं ।।
ગાથાર્થ :- મૂદુ ઉપાયથી વિનયને શિખડાવવા છતાં જે ગુસ્સે થાય છે તે સામે ચાલીને આવતી उत्तम समाने eullsist suढे छे. (२८/१८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org