________________
• मोक्षमार्गानुगामिगुणानां विनयार्हतानिमित्तत्वम् •
१९८९ अस्वारसिककारणस्थल एवोक्तनियमादिति । भावलेशस्तु मार्गानुसारी यत्र क्वचिदपि मार्गाद्भासनार्थं वन्दनादिविनयाऽर्हतानिमित्तमेव श्रूयते । यदुक्तं बृहत्कल्पभाष्ये
"दंसण-नाण-चरित्तं तव-विणयं जत्थ जत्तियं पासे ।
जिणपन्नत्तं भत्तीइ पूयए तं तहिं भावं" ।। (बृ.क.भा.४५५३) ।।१६।। द्विष्टत्व-लिङ्गावशेषमात्रत्वादिदोषदर्शनस्य अस्वरसवाहिविनयहेतोः स्थल एव उक्तनियमात् = 'बहुमानरूपाद् भावान्न तेषां किमपि कर्तव्यमिति (उप.प.८४२ वृ.) उपदेशपदादिदर्शितसिद्धान्तस्य लब्धप्रसरत्वात् इति ।
भावलेशस्तु दर्शन-ज्ञान-चारित्रादिभावलवस्तु मार्गानुसारी = मोक्षमार्गानुसारी दुषमकाले विशेषतो दुर्लभत्वात् यत्र क्वचिदपि मार्गोद्भासनार्थं = मोक्षमार्गप्रभावना-प्रकाशनाद्यर्थं वन्दनादिविनयाऽर्हतानिमित्तमेव = शिरोनमन-सम्भाषण-हस्तोत्सेध-छोभवन्दन-सम्पूर्णवन्दनादिलक्षणविनयप्रतीच्छनयोग्यतानिबन्धनमेव जिनाऽऽगमे श्रूयते । यदुक्तं बृहत्कल्पभाष्ये ‘दंसणे'ति। श्रीक्षेमकीर्तिसूरिकृता तद्वृत्तिस्त्वेवम् → दर्शनं च= निःशङ्कितादिगुणोपेतं सम्यक्त्वं ज्ञानं च आचारादि श्रुतं चारित्रं च मूलोत्तरगुणाऽनुपालनात्मकं दर्शन-ज्ञान-चारित्रं, द्वन्द्वैकवद्भावः । एवं तपश्च अनशनादि विनयश्च अभ्युत्थानादिः = तपो-विनयम्। एतद् दर्शनादि यत्र = पार्श्वस्थादौ पुरुषे यावद् = यत्परिणामं स्वल्पं बहु वा (पश्येत=) जानीयात् तत्र तमेव भावं जिनप्रज्ञप्तं स्वचेतसि व्यवस्थाप्य तावत्यैव भक्त्या = कृतिकर्मादिलक्षणया पूजयेत् - (बृ.क.भा.४५५३ वृत्ति) इति ।
तदुक्तं दर्शनशुद्धिप्रकरणे अपि → कलए महागुणाणं हवंति सेवारिहा लहुगुणा वि । अत्थमिए दिणनाहे अहिलसइ जणो पइवंपि ।। सम्मत्त-नाण-चरणाऽणुवाइमाणाऽणुगं च जं जत्थ । जिणपनत्तं भत्तीइ पूयए तं तहाभावं ।।
6 (द.शु.१६८) इति । युक्तञ्चैतत्, अन्यथा ओघनियुक्तिव्याख्याकृद्रोणाचार्योत्तराध्ययनसूत्रबृहट्टीकाकार-श्रीशान्तिसूरिप्रभृतयोऽपि चैत्यवासितया ज्ञानग्रहणकालेऽवन्दनीयतामापद्येरनिति विशेषतो विभावनीयं साम्प्रतं शुद्धगुणदुर्लभे गीतार्थदुर्लभे च विषमतमकलिकाले गुणगणाऽऽकाङ्क्षिभिः विवेकदृष्ट्या ।।२९/१६॥ બૃહત્કલ્પભાષ્યમાં જણાવેલ છે. જ્યાં શિથિલાચારીમાં અતિ મોટા દોષ જણાવાથી સ્વરસથી વંદન કરવાના પરિણામ ન જાગી શકે તેવા જ સ્થળમાં શ્રીહરિભદ્રસૂરિજી મહારાજે બતાવેલ દ્રવ્યવંદનનો નિયમ સમજવો. બાકી મોક્ષમાર્ગને અનુસરનારો આંશિક ભાવ તો જ્યાં ક્યાંય પણ દેખાય તે તો મોક્ષમાર્ગની પ્રભાવના માટે વંદનાદિ વિનયની યોગ્યતાનું નિમિત્ત જ છે - એવું શાસ્ત્રમાં સંભળાય છે. કારણ કે બૃહત્કલ્પભાષ્ય ગ્રંથમાં જણાવેલ છે કે “સમ્યગ્દર્શન, જ્ઞાન, ચારિત્ર, તપ, વિનય જ્યાં જેટલા અંશમાં દેખાય ત્યાં તે જિનકથિત સુંદર ભાવને ભક્તિથી પૂજવા જોઈએ.' (૨૯/૧૬)
વિશેષાર્થ :- બૃહત્કલ્યભાષ્ય ૪૫૫૦/૪૫૫૧ ગાથામાં જણાવેલ છે કે શિથિલાચારી સાધુનો પરિવાર
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org