SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ • प्रकटसेविनोऽपि ज्ञानार्थं वन्दनीयता • १९८५ अपवादेन ज्ञानार्थं प्रकटसेविनोऽपि विनयं आ(प्रा)हुः, पर्यायादिकारणेष्वेतदन्तर्भावात् । (अन्यथा ) तथाविधकारणेऽपि तद्विनयाऽनादरे शास्त्राऽर्थबाधनं = शास्त्राऽऽज्ञाव्यतिक्रमः । तदुक्तंसव्वे काउस्सग्गं करेंति सव्वे पुणोऽवि वंदंति। णाऽऽसण्णे णाऽइदूरे गुरुवयणपडिच्छगा होति ।। णिद्दा-विगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्ति-बहुमाणपुव्वं उवउत्तेहिं सुणेयव्वं ।। अभिकंखंतेहिं सुहासियाई वयणाई अत्थसाराइं । विम्हियमुहेहिं हरिसाऽऽगएहिं हरिसं जणंतेहि ।। - (आ.नि.७०२-७०८) इत्येवं श्रीभद्रबाहुस्वामिभिरुपदर्शितः । एतादृशप्रायः गाथाप्रबन्धः पञ्चवस्तुके (गा.१००१/१००७) अपि वर्तते । तदुक्तं अर्थमण्डलीविधिनिरूपणावसरे निशीथभाष्ये बृहत्कल्पभाष्ये अपि च → मज्जण-निसिज्ज अक्खा, किइकम्मुस्सग्ग-वंदणग जेटे । परियाग-जाइ-सुअ सुणणसमत्ते भासई जो उ ।। - (नि.भा.६२१,बृ.क.भा.७७९) इति। उत्सर्गतः श्रुताऽर्थग्रहणं तीर्थ एव कर्तव्यम् । तदुक्तं उपदेशपदे → तित्थे सुत्तत्थाणं गहणं विहिणा उ (उ.पद.८५१) इति । ___तीर्थलक्षणन्तु उपदेशपदे → उभयण्णू वि य किरियापरो दढं पवयणाऽणुरागी य । ससमयपण्णवओ परिणओ य पण्णो य अच्चत्थं ।। 6 (उप.प.८५२) इत्येवमावेदितम् । तत्समीपे विनयपूर्वमेव श्रुताऽर्थग्रहणं कार्यमुत्सर्गतः । ___ यद्यपि उत्सर्गतः शिथिलवन्दनमयुक्तम्, तद्गतदोषाऽनुमोदनाऽऽपत्तेः । यथोक्तं आवश्यकनियुक्ती → किइकम्मं च पसंसा सुहसीलजणम्मि कम्मबंधाय । जे जे पमायठाणा ते ते उववूहिया हुंति ।। ( (आ.नि.१२०६) इति । अत एव अपवादेन संविग्नस्य सूत्रार्थदायकस्य विरहे प्रकटसेविनः शिथिलस्य अपि सकाशे सूत्राऽर्थग्रहणाऽवसरे ज्ञानार्थं विनयं कर्तव्यं प्राहुः स्थविराः श्रुतधराः, पर्यायादिकारणेषु = श्रुतपर्यायाऽऽधिक्यादिषु श्रुतग्रहणकारणेषु अत एव विनयनिमित्तेषु एतदन्तर्भावात् = प्रकटसेविविनयसमावेशात् । तथाविधकारणेऽपि = प्रकटसेविसमीपे सूत्रार्थादिग्रहणलक्षणे विनयकरणकारणे सति अपि तद्विनयाऽनादरे = श्रुतदायकप्रकटसेविविनयाऽकरणे शास्त्राऽऽज्ञाव्यतिक्रमः = आगममर्यादालोपप्रसङ्गः । ___ तदुक्तं बृहत्कल्पभाष्ये → उप्पन्नकारणम्मि कितिकम्मं जो न कुज्ज दुविहं पि । पासत्थादीयाणं उग्घाया तस्स चत्तारि ।। - (बृ.क.भा.४५४०) इति । तदुक्तं गुरुतत्त्वविनिश्चयेऽपि → पासत्थाईणं पि हु अववाएणं तु वंदणं कज्ज । जयणाए इहरा पुण पच्छित्तं जं भणियमेअं ।। - (गु.त.वि.३/ १४५) इति । प्रकृते → श्रद्धावान् शुभां विद्यामाददीताऽवरादपि - (म.स्मृ.२ ॥२३८) इति मनुस्मृतिवचनं, → प्राप्य ज्ञानं ब्राह्मणात् क्षत्रियाद् वा वैश्यात् शूद्रादपि नीचादभीक्षणम् । श्रद्धातव्यं श्रद्दधानेन नित्यं - (म.भा.शांति.३२३/८८) इति महाभारतवचनं, → विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् । नीचादप्युत्तमा विद्यां - (प.पु.१ १२२ १८८) इति च पद्मपुराणवचनं, → बालस्य वा विषयभोगरतस्य वाऽपि પ્રસિદ્ધ હોવાના કારણે જ અપવાદથી જ્ઞાન મેળવવા માટે, દોષનું સેવન કરનાર શિથિલાચારી સાધુનો પણ વિનય કરવો જોઈએ - એમ શાસ્ત્રકારો કહે છે કારણ કે જ્ઞાનપર્યાયઆધિક્ય વગેરે સ્વરૂપ વિનયકારણોમાં તે શિથિલાચારી વિનયનો સમાવેશ થાય છે. વિનય કરવાનું તથાવિધ કારણ હાજર હોવા છતાં પણ જો શિથિલાચારી એવા વિદ્યાગુરુનો વિનય કરવાને વિશે અનાદર કરવામાં આવે તો શાસ્ત્રની આજ્ઞાનું ઉલ્લંઘન થાય. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004944
Book TitleDwatrinshada Dwatrinshika Prakran Part 7
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages266
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy