________________
• आसन्नमुक्तीनां त्रिधा शुद्धः विनयः •
१९८१ पठेद्यस्याऽन्तिके' धर्मपदान्यस्याऽपि सन्ततम् । कायवाङ्मनसां शुद्ध्या कुर्याद् विनयमुत्तमम् ।।१२।।
पठेदिति । यस्याऽन्तिके धर्मपदानि = धर्मफलानि सिद्धान्तपदानि पठेत् अस्य सन्ततमपि = निरन्तरमपि, न तु सूत्रग्रहणकाल एव, कुशलाऽनुबन्धव्यवच्छेदप्रसङ्गात् कायवाङ्मनसां शुद्ध्या उत्तमं विनयं कुर्यात् ।।१२।।
वाचनाऽऽचार्यविनयस्य कर्तव्यतामावेदयति- ‘पठेदिति । कायवाङ्मनसां शुद्ध्या प्रमार्जनादिपूर्वं पञ्चाङ्गप्रणिपातादिलक्षणकायशुद्ध्या अस्खलिताऽव्यत्यानेडितादिरूपेण 'मत्थएण वंदामि' इति वाकशुद्ध्या तदीयसद्भूतगुणप्रकाशनादिलक्षणया वा वाकशुद्ध्या एकाग्रता-बहुमानभावादिलक्षणमनोविशुद्ध्या च उत्तम विनयं कुर्यात् । इत्थमेव कुशलाऽनुबन्धवृद्ध्या मुक्तिगमनोपपत्तेः । तदुक्तं दशवैकालिके → जस्संतिए धम्मपयाइं सिक्खे तस्संतिए वेणइयं पउंजे । सक्कारए सिरसा पंजलीओ, कायगिरा भो मणसा अ निच्चं ।। लज्जा दया संजम बंभचेरं, कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययमणुसासयंति तेऽहं गुरुं सययं पूअयामि ।। जहा निसंते तवणच्चिमाली पभासई केवलभारहं तु । एवायरिओ सुअसीलबुद्धिए, विरायई सुरमझे व इंदो।। जहा ससी कोमुइजोगजुत्तो, नक्खत्ततारागणपरिवुडप्पा । खे सोहई विमले अब्भमुक्के एवं गणी सोहइ भिक्खुमज्झे ।। महागरा आयरिआ महेसी समाहिजोगे सुअसीलबुद्धिए । संपाविउकामे अणुत्तराई आराहए तोसइ धम्मकामी ।। सुच्चाण मेहावी सुभासिआइं, सुस्सूसए आयरिअप्पमत्तो । आराहइत्ताण गुणे अणेगे, से पावई सिद्धिमणुत्तरं ।। 6 (द.वै.९/१/१२-१७) इति । तदीयगुणाऽप्रकाशने तु साधुघातकलोकप्राप्त्याद्यनर्थः चन्द्रकवेध्यकप्रकीर्णके → विज्जं परिभवमाणो आयरियाणं गुणेऽपयासिंतो । रिसिघायगाण लोयं वच्चइ मिच्छत्तसंजुत्तो ।। 6 (चं.प्र.९) इत्येवमावेदितः । ततश्च तज्ज्ञानमपि विफलतामेवाऽऽपद्येत । तदुक्तं शाट्यायनीयोपनिषदि → एकाक्षरप्रदातारं यो गुरुं नाऽभिनन्दति । तस्य श्रुतं तथा ज्ञानं स्रवत्यामघटाऽम्बुवत् ।। 6 (शा.३६) इति ।
अत एव धर्मश्रवणेऽपि धर्मदेशकगुरुगुणप्रकाशनाऽरुचौ नियमतः श्रद्धाभ्रंशेनाऽपवर्गमार्गद्वाराणि पिहितान्येव बोद्धव्यानि । सम्मतञ्चेदं सुगतस्याऽपि। तदुक्तं मज्झिमनिकाये पाशराशिसूत्रे → अपारुता तेसं अमतस्स द्वारा, ये सोतवन्तो पमुञ्चन्तु सद्धं (म.नि.१/३/६/२८३ पृष्ठ-२२९) इति ध्येयम् । ગુરુનેશિષ્ય પોતાની ભૂલબદલ ક્ષમાયાચના કરી, અભિમાન-મદવગેરે છોડીને ઝડપથી પ્રસન્ન કરવા માટે પ્રયત્ન કરવો જોઈએ-એવો અહીંશિષ્યને ઉપદેશ આપવામાં આવેછે.(૨૯/૧૧)
છ વિધાગુરુનો વિનય કયમ અવશ્ય કરવો છે ગાથાર્થ - જેની પાસે ધર્મસૂત્રોને ભણે તેનો પણ તન-વચન-મનની શુદ્ધિથી સતત ઉત્તમ વિનય ४२वो ऽभे. (२८/१२)
ટીકાર્ય - ધર્મરૂપી ફળને આપનારા સિદ્ધાન્તસૂત્રો જેની પાસે ભણે તેનો પણ તન-વચન-મનની શુદ્ધિથી સતત ઉત્તમ વિનય કરવો જોઈએ. માત્ર ભણતી વખતે કે પાઠ ચાલુ હોય તેટલા સમયગાળા દરમ્યાન જ નહિ પણ ભણી લીધા પછી પણ કાયમ તે વિદ્યાગુરુનો ઉત્તમ વિનય કરવો જોઈએ. કારણ કે સૂત્રઅભ્યાસ પૂર્ણ થઈ ગયા પછી વિનય ન કરે તો કુશલાનુબંધ નાશ પામી જાય.(૨૯/૧૨)
१. हस्तादर्श '...शांतिके' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org