SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ • शक्त्यग्रादेरप्यविनयस्याऽधिकाऽपायकारित्वम् • १९७९ शक्त्यग्रेति । शक्तिः प्रहरणविशेषस्तदग्रं शक्त्यग्रं, ज्वलनः = अग्निः, व्याल-सिंहयोः = सर्पकेसरिणोः क्रोधः = कोपः, तदतिशायिनी = तेभ्योऽप्यधिका (=शक्त्यग्रज्वलन-व्यालसिंहक्रोधातिशायिनी) अनन्तदुःखजननी गुरुहीलना कीर्तिता दशवैकालिके ।।११।। ___ आशातनाया अनन्तदुःखजनकत्वमुपमागर्भमाह- 'शक्ती'ति । भीमपुत्रं घटोत्कचं शक्तिनामकाऽस्त्रप्रयोगेण कर्णो व्यापादितवानिति महाभारते सुप्रसिद्धम् । अष्टापदतीर्थीयभक्तिपरितुष्टधरणेन्द्रप्रदत्तशक्त्यभिधानाऽस्त्रव्यापारतो रावणेन लक्ष्मणो मूर्छामापादित इति रामायणे विख्यातम् । शस्त्रादप्यस्त्रस्योग्रतरत्वादत्र शक्त्यभिधानास्त्रोपादानम् । अस्त्रेषु शक्त्यभिधानमस्त्रं प्रधानतरम् । तस्याऽप्यग्रमत्युग्रमिति तदुपादानम् । अस्त्रस्याऽस्थानप्रयोगे तु स्वस्यैव विनाशः । तदुक्तं शिवगीतायां → शस्त्रैर्युद्धे जयो यत्र तत्राऽस्त्राणि न योजयेत् ।। निरस्त्रेष्वल्पशस्त्रेषु पलायनपरेषु च । अस्त्राणि मुञ्चन् दिव्यानि स्वयमेव विनश्यति ।। - (शि.गी.५/३५-३६) इति । धूमकेतुप्रभृतीनां त्वपायकारित्वमाबालाऽङ्गनादिविदितम् । परं तेभ्यः इहलौकिकदुःखजनकेभ्यः शक्त्यग्र-धूमकेतु-व्यालादिभ्यः अधिका अनन्तसंसारानुबन्धित्वेन बलिष्ठा अनन्तदुःखजननी गुरुहीलना → जे आवि नागं डहरं ति नच्चा, आसायए से अहिआय होइ । एवायरिअंपि हु हीलयंतो, निअच्छई जाइपहं खु मंदो ।। आसीविसो वा वि परं सुरुट्ठो, किं जीवनासाउ परं नु कुज्जा ?। आयरियपाया पुण अप्पसन्ना, अबोहिआसायण नत्थि मुक्खो ।। जो पावगं जलिअमवक्कमिज्जा, आसीविसं वा वि हु कोवइज्जा । जो वा विसं खायइ जीविअट्ठी, एसोवमाऽऽसायणया गुरूणं ।। सिआ हु से पावय नो डहिज्जा, आसीविसो वा कुविओ न भक्खे । सिया विसं हालहलं न मारे, न आवि मुक्खो गुरुहीलणाए । जो पव्वयं सिरसा भेत्तुमिच्छे, सुत्तं व सिहं पडिबोहइज्जा । जो वा दए सत्तिअग्गे पहारं, एसोवमाऽऽसायणया गुरूणं ।। सिया हु सीसेण गिरिंपि भिंदे, सिआ हु सीहो कुविओ न भक्खे। सिआ न भिंदिज्ज व सत्तिअग्गं, न आवि मुक्खो गुरुहीलणाए ।। आयरिअपाया पुण अप्पसन्ना, अबोहिआसायण नत्थि मुक्खो । तम्हा अणाबाहसुहाभिकंखी, गुरुप्पसायाभिमुहो रमिज्जा ।। અનંત દુઃખને ગુરુહીલના આપે છે. આવું શાસ્ત્રમાં કહેલ છે. (૨૯/૧૧) ટીકાર્થ - શક્તિ નામનું એક શસ્ત્ર આવે છે. તેનો અગ્ર ભાગ ખૂબ જ ધારદાર હોય છે. તે મોતનું દુઃખ આપી શકે છે. તે જ રીતે અગ્નિ, સાપનો ક્રોધ અને સિંહનો ક્રોધ મોતનું દુઃખ આપી શકે છે. પરંતુ ગુરુની હીલના-આશાતના તો, દશવૈકાલિક સૂત્રમાં જણાવ્યા મુજબ, તેના કરતાં પણ वधु मयं४२ अनंत हुःपने नारी उपायेदी छे. (२९/११) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004944
Book TitleDwatrinshada Dwatrinshika Prakran Part 7
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages266
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy