________________
१९५३
• दुःषमकालेऽपि सुसाधुरत्नोपलब्धिः • यैः प्रतिक्षिप्यते व्यवहारकाले दीक्षापारम्यम् । शुद्धदीक्षाकारणाऽवलम्बने उपरितनोत्कर्षाऽभावेऽपि दीक्षामात्राऽप्रतिक्षेपे च धर्मोपकरणधरणेऽपि
एतेन चरमसंहनने दीक्षा नास्तीति प्रलापो निरस्तः । तदुक्तं बोधप्राभृते अपि → जिणमग्गे पव्यज्जा छहसंहणणेसु भणिय णिग्गंथा । भावंति भव्वपुरिसा कम्मक्खयकारणे भणिया - (बो.प्रा.५४) इति । अतो मन्दाऽऽलम्बनानि पुरस्कृत्य शक्तिं गोपयित्वा न केवलदर्शनपक्षो ग्राह्यः, अन्यथा मिथ्यात्वोदयप्रसङ्गात् । इदमेवाभिप्रेत्य मरणविभक्तिप्रकीर्णके → उक्कोसचरित्तो वि य परिवडई मिच्छभावणं कुणइ । किं पुण सम्मट्ठिी सराग-धम्मम्मि वर्सेतो ?।। - (म.वि.१५२) ।
तदुक्तं उपदेशपदे → एयम्मि वि कालम्मी सिद्धिफलं भावसंजयाणं तु । तारिसयं पि हु नियमा बज्झाणुट्ठाणमो णेयं ।। 6 (उ.पद.७३५) इति । अशुद्धिलेशसद्भावादवन्दनीयत्वे कोऽपि साम्प्रतं वन्दनीयो न स्यात् । तदिदमभिप्रेत्योक्तं धर्मरत्नप्रकरणे श्रीशान्तिसूरिभिः → बकुसकुसीला तित्थं, दोसलवा तेसु नियमसंभविणो । जइ तेहिं वज्जणिज्जो, अवज्जणिज्जो तओ नत्थि ।। - (ध.रत्न. १३५) इति । ततश्च कालदोषमुद्भाव्य धर्मोद्यमो न त्यक्तव्यः । तदुक्तं दर्शनशुद्धिप्रकरणे → अज्जवि दयखंतिपयट्ठियाइ तवनियमसीलकलियाइं । विरलाइं दूसमाए दीसंति सुसाहुरयणाई ।। इय जाणिउण एयं मा दोसं दूसमाइ दाउण । धम्मुज्जमं पमुच्चह अज्जवि धम्मो जए जयइ ।। - (द.शु.१८२३) इति । ___ये तु श्रामण्यपरिणतिं प्रतिज्ञायाऽपि जीवितकषायकणतया समस्तपरद्रव्यनिवृत्तिप्रवृत्तस्वभावप्रवृत्तिरूपां शुद्धोपयोगभूमिमारोढुं न शमन्ते ते तदुपकण्ठनिविष्टा इव तदुत्कण्ठुलमनसोऽपि शुद्धात्मवृत्तिमात्रेणाऽवस्थितेषु अर्हदादिषु तन्मात्रावस्थितिप्रतिपादकेषु च प्रवचनाभियुक्तेषु भक्ति-वात्सल्याभ्यां तावन्मात्ररागोपनीतपरद्रव्यप्रवृत्तिपरिवर्तितशुद्धाऽऽत्मवृत्तयः शुद्धाऽऽत्माऽनुरागयोगरूपं शुभोपयोगमातिष्ठमाना गौणीमेव दीक्षामुपलभन्ते न तु मुख्यामि'त्याधुक्तिभिः यैः दिगम्बरैः व्यवहारकाले = भिक्षाटन-स्वाध्याय-प्रतिक्रमणप्रतिलेखनादिव्यवहाराऽवसरे दीक्षापारम्यं = दीक्षाशुद्ध्युत्कर्षः प्रतिक्षिप्यते तद् वृथैव, प्राथमिकमनोव्यापाराऽऽहितबाह्यव्यवहारवासनया बाह्यव्यवहाराऽनुपरमेऽपि अन्तरा नूतनव्यापाराऽभावेनाऽध्यात्मविशुद्धेरप्रतिरोधात्, अन्यथा प्रथमत एव तादृशव्यवहारत्यागापत्तेः । ___ ततश्च → बहिरब्भंतरकिरियारोहो भवकारणपणासणटुं । णाणिस्स जं जिणुत्तं तं परमं सम्मचारित्तं ।। (बृ.द्र.सं. ४६) इति बृहद्रव्यसङ्ग्रहोक्तिरेकान्तेन स्यात् तदा वृथैव स्यादिति फलितम् । न चार्हद्भक्ति-भिक्षाटनादिव्यवहारस्य परमोपेक्षालक्षण-शुद्धदीक्षाबीजत्वान्नादावेव सर्वथा तत्परित्यागः किन्तु तदोपरितनशुद्धिप्रकर्षों नास्तीत्येवाऽस्माकमाशय इति वाच्यम्, इत्थमर्हदादिभक्ति-भिक्षाटनादिव्यवहारस्य शुद्धदीक्षाकारणाऽऽलम्बने = परमोपेक्षासंयमसाधनतया अवलम्बने उपरितनोत्कर्षाऽभावेऽपि = औत्सर्गिकपरमोपेक्षासंयमाऽवधिकशुद्धोपयोगोत्कर्षवैकल्येऽपि आपवादिकदीक्षाविधानेन दीक्षामात्राऽप्रतिक्षेपे च धर्मोपकरणભ્રમણાનો ભોગ બન્યા છે. આવી ભ્રમણા હોવાથી જ દિગંબરોએ ભિક્ષાટનાદિ વ્યવહારસમયે દીક્ષાના પરમ સ્વરૂપનો નિષેધ કરેલો છે.
શ.. “શુદ્ધ દીક્ષા ન મળી શકવા છતાં શુદ્ધ દીક્ષાના કારણોનું અવલંબન લઈ શકાય છે. તથા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org