________________
•
१९५२
बकुश-कुशीलाभ्यां साम्प्रतं तीर्थनिर्वाहः •
रूवमिदि भणिदं । गुरुवयपि य विगओ सुत्तज्झयणं च पण्णत्तं ।। ← (प्र. सा. ३ / २५ ) इति । वस्तुधर्मस्तूत्सर्ग एव न पुनरपवाद' इति ।
द्वात्रिंशिका - २
ग- २८/३१
एतच्च न सम्यक्, साम्प्रतं बकुश- कुशीलाभ्यामेव तीर्थनिर्वाहात् । तदुक्तं व्यवहारसूत्रभाष्ये बउसपडिसेवगा खलु इत्तरि छेदा य संजता दोन्नि । जा तित्थं अणुसज्जंती ← (व्य. भा. उ.१०/ ४१९३) इति । यथोक्तं प्रवचनसारोद्धारे अपि निग्गंथ-सिणायाणं पुलायसहिआण तिण्ह वोच्छेओ । समणा बस-कुसीला जा तित्थं ताव होहिंति ।। ← (प्र. सारो. ७३० ) । तदुक्तं दर्शनशुद्धिप्रकरणे अपि → निग्गंथ-सिणायाणं पुलायसहियाणं तिण्ह वुच्छेओ । बकुस - कुसीला दुन्नि वि जा तित्थं ताव होहिंति ।। ← (द.शु.प्र.१६४ ) इति । तदुक्तं तत्त्वार्थसूत्रे अपि पुलाक- बकुश- कुशील-निर्ग्रन्थ-स्नातका निर्ग्रन्थाः ← (त.सू. ९/४८) इति । तदुक्तं कृष्णगीतायामपि कलौ सरागधर्मस्य प्रवृत्तिर्मोक्षकारिका । भविष्यति च साधूनां सरागधर्मवर्तनम् ।। ← (कृ.गी. २२१ ) इति । एतेन ज्ञान-दर्शनाभ्यामेव साम्प्रतं तीर्थं वर्तत इति प्रत्यस्तम्, तदुक्तं व्यवहारसूत्रभाष्ये चरित्तम्मि असंतम्मि तित्थे नो सचरित्तया ।।
अचरित्ताय तित्थस्स निव्वाणम्मि न गच्छति । निव्वाणम्मि असंतम्मि सव्वा दिक्खा निरत्थया ।। न विणा तित्थं नियंहिं, नियंठा व अतित्थगा । छक्कायसंजमो जाव तावऽणुसज्जणा दोण्हं ।। सव्वण्णुहि परूविय छक्कायमहव्वया य समितीओ । सच्चेव य पण्णवणा संपयकाले वि साधूणं ।। तं णो वच्चति तित्थं दंसण - णाणेहि एय सिद्धं तु ← (व्य.भा. उद्दे. १०/४११५-४११९) इति ।
तदुक्तं तीर्थोद्गालीप्रकीर्णके दर्शनशुद्धिप्रकरणे च → जो भाइ नत्थि धम्मो न य सामइयं न चेव य वयाइं । सो समणसंघबज्झो कायव्वो समणसंघेण ।। (ति. प्र. ८६८, द.शु. १७० ) इति । प्रकृते च विस्तरतः बुभुत्सुभिः →
दुप्पसहंतं चरणं जं भणियं भगवया इह खेत्ते । आणाजुत्ताणमिणं न होइ अहुणत्ति वा मोहे ।। कालोचिय- जयणाए मच्छररहियाण उज्जमंताणं । जणजत्तारहियाणं होइ जइत्तं जईण सया || जा संजमया जीवेसु ताव मूला य उत्तरगुणा य । इत्तरियच्छेयसंजम नियंठ बकुसाऽऽयपडिसेवी ।। सव्वजिणाणं निच्चं बकुस -कुसीलेहिं वट्टए तित्थं । नवरं कसायकुसीला अपमत्तजइ, वि सत्तेण ।। कालाइदोसओ जइवि कहवि दीसंति तारिसा न गई । सव्वत्थ तहवि नत्थित्ति नेव कुज्जा अणासासं । । कुग्गहकलंकरहिया जहसत्ति जहागमं च जयमाणा । जेण विसुद्धचरित्तत्ति वृत्तमरिहंतसमयंमि ।। अज्ज वि तिन्नपइन्ना गरुयभरुव्वहणपच्चला लोए । दीसंति महापुरिसा अक्खंडियसीलपब्भारा ।। अज्ज वि तवसुसियंगा तणुअकसाया जिइंदिया धीरा । दीसंति जए जइणो वम्महहिययं वियारंता ।। अज्ज वि दयसंपन्ना छज्जीवनिकायरक्खणुज्जुत्ता । दीसंति तवस्सिगणा विगहविरत्ता सुईजुत्ता ।। ← (द.शु.१७१-२-४-५, १७७-१८१ ) इति दर्शनशुद्धिप्रकरणगाथा अप्यवश्यमनुसन्धेयाः चारित्रतारतम्यवेदिभिः। तदुक्तं तीर्थोद्गालीप्रकीर्णके अपि सामाइयं च पढमं छेओवट्ठावणयं भवे बीयं । ( ती. प्र. ८६७ ) इति ।
एते दोन्नि चरित्ता होहिंती जाव तित्थं तु ।। ←
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org