________________
• करणसुद्दढव्यापारस्य ध्यानरूपता •
द्वात्रिंशिका - २८/२८
व्यवहारेऽपि चेति । न हि चित्तनिरोधमात्रमेव ध्यानमभ्युपेमः, किं तु करणदृढसुव्यापारपीति । तदाऽपि तदक्षतमिति तात्पर्यम् ।। २८ ।।
१९४४
वक्खो । सो चेव होइ झाणं जुगवं मण-वयण- कायाणं ।। ← ( अ.म.प. ८) । ननु मानसमेव ध्यानं श्रुतं न वाचिकं न वा कायिकमिति चेत् ? तत् किं मणसा वावारेंतो कायं वायं च तप्परिणामो । भंगियसुअं गुणन्तो वट्टइ तिविहेवि झाणंमि ।। ← ( आ.नि. १४७८) इति आवश्यकनिर्युक्तिवचनं, कायचेट्टं निरुंभित्ता मणं वायं च सव्वसो । वट्टइ काइए झाणे सुहुमुस्सासवं मुणी ।। ← इति (व्य.सू.पी. १२३ ) इति व्यवहारसूत्रभाष्यपीठिकावचनं च न स्मरसि ? ' स्मरामि, न तु श्रद्धे', 'ध्यै चिन्तायामिति धात्वर्थस्य कायिकादावसम्भवादिति चेत् ? तत् किं धातोरनेकार्थतां नाऽऽतिष्ठसे ? 'काममस्मि तथाऽऽतिष्ठे, न परमत्र तदर्थान्तरकल्पनप्रयोजनमुपलभ' इति चेत् ? तत् किमुक्तसूत्रसमाधानं तव न प्रयोजनम् ? 'ओमिति चेत् ? तर्हि प्रवचनबाह्यो भवसि । तदुक्तं बृहत्कल्पभाष्ये जो तं जगप्पदीवेहिं पणीयं सव्वभावपण्णावणं । ण कुणति सुतं पमाणं ण सो पमाणं पवयणंमि ।। ← (बृ.क.भा. उद्दे. २/गा. ३६४१ ) इति । एवञ्च दीक्षाऽपि व्यर्था स्यात् । तदुक्तं पिण्डनिर्युक्तौ सुत्तस्स अप्पमाणे चरणाऽभावो तओ य मोक्खस्स । मोक्खस्सऽवि य अभावे दिक्ख-पवित्ती निरत्था उ ।। ← (पिं. नि. ५२५) इति तथापि केवलिनां काययोगनिरोधस्य ध्यानत्वमातिष्ठमानस्य क इवाऽन्यः पन्थाः शरणमिति रहसि पर्यालोचय ।
स्यादेतत्- मोहक्षयेण तन्मूलभूतपरद्रव्यप्रवृत्त्यभावाद् विषयविरक्ततयाऽधिकरणान्तराऽभावात् मनसो निरोधे तन्मूलचञ्चलत्वविलयादनन्तसहजचैतन्याऽऽत्मनि स्वभावे समवस्थानं ह्यनाकुलत्वसङ्गतैकाग्र्यसञ्चेतनतया ध्यानमुच्यते निश्चयतः । तदुक्तं प्रवचनसारे जो खवियमोहकलुसो विसयविरत्तो मणे णिरुम्भित्ता । समवट्ठिदो सहावे सो अप्पाणं हवदि झादा ।। ← (प्र. सार. २/१०४ ) इति । तत्कथं बाह्यभिक्षाटनादिक्रियासद्भावे परमशुद्धोपयोगः विजृम्भेत इति ?
मैवम्, इत्थं ध्यानस्य स्वभावसमवस्थानरूपत्वे सिद्धानामपि ध्यानप्रसङ्गात्, तदिष्टापत्तौ शुक्लध्यानभेदानां स्थानविभागाऽनुपपत्तेः । अत एव सुदड्ढप्पयत्तवावारणं णिरोहो व विज्जमाणाणं । झाणं करणाण मयं ण उ चित्तणिरोहमेत्तागं ।। ← (वि. आ.भा. ३०७१ ) इति विशेषावश्यकभाष्यकृतः परिभाषन्ते । प्रकृते शास्त्रीयोऽर्थः प्रतिपत्तव्यो, न त्वर्धजरतीयन्यायसिद्धः । न हि चित्तनिरोधमात्रमेव ध्यानं इति वयं अभ्युपेमः, काययोगनिरोधेऽव्याप्त्यापत्तेः । किन्तु करणदृढसुव्यापारं
करणानां
सुदृढव्यापारं अपि इति हेतोः तदाऽपि भिक्षाटनादौ तद् ध्यानं अक्षतं अव्याहतम् इति तात्पर्यम् । सम्मतञ्चेदं परेषामपि । अत एव नारदपरिव्राजकोपनिषदि ध्यानयुक्तो महीं चरेत् ←
( ना. परि. ४/१८) इत्येवं विहितम् ।
=
=
-
ટીકાર્થ :- અમે જૈનો માત્ર ચિત્તનિરોધને ધ્યાન તરીકે સ્વીકારતા નથી પરંતુ કરણના સુદૃઢ પ્રવર્તનને પણ ધ્યાન માનીએ છીએ. તે તો ભિક્ષાટન વગેરે વ્યવહાર કાળે પણ અબાધિત જ છે - આવું અહીં तात्पर्य छे. (२८/२८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org