________________
• दीक्षा सामायिकात्मिका •
१९३१
यः समः सर्वभूतेषु त्रसेषु स्थावरेषु च । अत एव च तस्यैव दीक्षा सामायिकात्मिका ।। २३ ।। देह-परिवारादिभेदविज्ञानाऽनुविद्धया असङ्गप्रतिपत्तिमूलकभिक्षाटनादिसमुचितप्रवृत्तिगर्भया दीक्षयैव निरस्यते । समस्तवासनाप्रक्षये मुक्तिरनायासेन सम्पद्यते । तदुक्तं अष्टावक्रगीतायामपि समस्तवासनामुक्तो मुक्तः ← ( अ.गी. ९/८ ) इति । अनेन ज्ञान-क्रियासमुच्चयाद् मोक्ष इत्यपि प्रागुक्तं ( द्वाद्वा . २५/१ भाग६ पृ. १७००) समर्थितम् ।
देहाद्यभिष्वङ्गपरस्य तत्त्वज्ञानशून्यस्य द्रव्यलिङ्गिनस्तु मोहोदयप्रयुक्तं भिक्षाटनादिकं कर्मबन्धनिबन्धनमेव । तदुक्तं पञ्चवस्तुके
चारित्तविहीणस्स अभिसंगपरस्स कलुसभावस्स । अण्णाणिणो अ जा पुण सा पडिसिद्धा जिणवरेहिं । । भिक्खं अडंति आरंभसंगया अपरिसुद्धपरिणामा । दीणा संसारफलं पावाओ जुत्तमेअं तु ।। ← (पं.व. २१७-२१८ ) इति ।।२८ / २२ ।।
प्रकृतफलितमाह- 'य' इति । अत एव = तत्त्वज्ञानाऽनुविद्धयम-नियमसुस्थितदीक्षाया अनादिसङ्गवासनोच्छेदकत्वादेव यः त्रसेषु द्वीन्द्रियादिषु स्थावरेषु च पृथिव्यादिषु सर्वेषु जो णवि वट्टइ रागे, णवि दोसे, दोण्ह मज्झयारंमि । सो होइ उ मज्झत्थो, सेसा सव्वे अमज्झत्था ।। ← ( आ.नि. ८०३) इति आवश्यक निर्युक्तिवचनात् समः = राग-द्वेषपरित्यागेन मध्यस्थः, आत्मानमिव परं पश्यति तस्यैव महात्मनः सामायिकात्मिका सर्वज्ञभाषिता दीक्षा सम्भवति, नाऽन्यस्य । प्रवचनसारे समणो समसुहदुक्खो भणिदो ← (प्र.सा. १/१४) इति यदुक्तं तदप्यत्राऽनुयोज्यं यथागमम् । तत्त्वज्ञानगर्भिता सामायिकात्मिका मोहवासनानाशिनी दीक्षा हेतु स्वरूपाऽनुबन्धप्रतिपूर्णेति द्रष्टव्यम् । सैव परमार्थतः सफला समुपादेया च । इदमेवाऽभिप्रेत्योक्तं अनुयोगद्वारसूत्रे आवश्यकनिर्युक्तौ विशेषावश्यकभाष्ये च → जस्स सामाणिओ अप्पा संजमे नियमे तवे । तस्स सामाइयं होइ इई केवलिभासियं । । जो समो सव्वभूएसु तसेसु थावरेसु य । तस्स सामाइयं होइ इई केवलिभासियं ।। ← (अनु. द्वा. १२७-१२८, आ.नि.७९७-७९८, वि. आ.भा. २६७९-२६८०) इति । तुल्यारण्यकुलाकुल-विविक्तबन्धुजनशत्रुवर्गस्य । समवासीचन्दनकल्पनप्रदेहादिदेहस्य ।। એવી દીક્ષાથી જ સંગવાસના દૂર થાય છે. (૨૮/૨૨)
વિશેષાર્થ :- મોહ-મમતાના સંસ્કાર અનાદિકાલીન છે. માટે જ તે સંસ્કાર અત્યંત બળવાન છે. મોહનો કોઈ વિરોધી હોય તો તે તત્ત્વજ્ઞાન છે. પૂર્વે ૧૯ મી બત્રીસીના ૧૨મા શ્લોકમાં જણાવી ગયા છીએ કે પ્રવ્રજ્યા જ્ઞાનયોગની સ્વીકૃતિ સ્વરૂપ છે. દીક્ષા એટલે પ્રવ્રજ્યા. માટે તત્ત્વજ્ઞાનયોગથી વણાયેલી એવી દીક્ષા દ્વારા જ મોહ-માયા-મમતાના સંસ્કાર નાશ પામી શકે. તેથી અનાદિકાલીન મોહવાસનાને ખતમ કરવા અસંગપ્રતિપત્તિથી પ્રવૃત્તિ કરાવનારી તથા તત્ત્વજ્ઞાનથી વણાયેલી એવી દીક્ષા જ આશ્રય उरवा योग्य छे. खावु सिद्ध थाय छे. (२८/२२)
# દીક્ષા સમભાવસ્વરૂપ
ગાથાર્થ :- માટે જ ત્રસ અને સ્થાવર સર્વ,જીવોને વિશે જે સમાન હોય તેની જ દીક્ષા સામાયિકસ્વરૂપ છે. (૨૮/૨૩) १. हस्तादर्शे 'यो सम' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org