________________
• निरतिशयगुणवत्त्वेन प्रतिपत्तिः सर्वज्ञगोचरा •
१५७५
( यो दृ.स. १०३) तत्प्रतिपत्तिः सर्वज्ञभक्तिश्च यावतां तत्तद्दर्शनस्थानां, ते सर्वेऽपि बुधाः तं सर्वज्ञं मुख्यं सामान्यतो विशेषाऽनिर्णयेऽपि आपन्नाः = आश्रिताः, निरतिशयितगुणवत्त्वेन प्रतिपत्तेः बुद्ध जनो हृषिकेशः शम्भु - ब्रह्मादिपुरुषः । इत्यादिनामभेदेऽपि नाऽर्थतः स विभिद्यते ।। ← (परम. पं.७) इति । योगबिन्दो अध्यात्मसारेऽपि च मुक्तो बुद्धोऽर्हन् वाऽपि यदैश्वर्येण समन्वितः । तदीश्वरः स एव स्यात् संज्ञाभेदोऽत्र केवलम् ।। ← ( यो. बिं. ३०२, अ.सा. १५/६९) इत्युक्तं तत्प्राक् ( द्वा. द्वा. १६ / १८ भाग - ४ पृ. ११२३ ) दर्शितमेवेहाऽनुसन्धेयम् । तदुक्तं योगसारेऽपि बुद्धो वा यदि वा विष्णुः यद्वा ब्रह्माथवेश्वरः । उच्यतां स जिनेन्द्रो वा नाऽर्थभेदस्तथापि हि ।। ← (यो.सा. १/ ३६) इति । यथोक्तं उपमितिभवप्रपञ्चायां कथायामपि स बुद्धः प्रोच्यतां लोके ब्रह्मा विष्णुर्महेश्वरः । जिनेश्वरोऽपि वा हन्त ! नार्थभेदस्तथापि च ।। ← (उ.भ.प्र. ८ /पृ. १९०, गा. ८५९) इति । यथा चाऽमीषामभेदस्तथा दर्शयिष्यतेऽग्रे ।
नन्वेवं सति सर्वज्ञभक्तिः कमाश्रितानां स्यात् ? इत्याशङ्कायामाह - सर्वज्ञभक्तिश्च यावतां एव तत्तद्दर्शनस्थानां कदाग्रहशून्यानां मुमुक्षूणां सम्भवति, यतः ते सर्वेऽपि बुधाः 'आत्मन्येव सर्वोत्तमं सुखमस्ति, तदुपलब्धिश्च सर्वज्ञोपदिष्टमार्गप्रवर्तनेनैव सुलभेति स एव मयाऽऽश्रयितव्य' इति बोधवन्तः विशेषाऽनिर्णयेऽपि बुद्ध-कपिल-जिनादिगतभेदगोचरनिश्चयाभावेऽपि सामान्यतः = स्वगतभवरोगोच्छेदकवैद्यत्वाऽऽदिसामान्यधर्मपुरस्कारेण तु मुख्यं एव सर्वज्ञं आश्रिताः = शरणत्वेनोपगताः । अत्र हेतुद्वयमाहनिरतिशयितगुणवत्त्वेन तेषां प्रतिपत्तेः स्वीकृतेः वस्तुतः परमार्थतः सर्वज्ञविषयकत्वात् मुख्यसर्वज्ञगोचरत्वात्, यतो निरतिशयितसकलगुणास्तु मुख्य एव सर्वज्ञे विद्यन्ते इति नामतः कञ्चिदपि बुद्धादिकं काष्ठाप्राप्तसकलगुणशालित्वेन शरणमुपागतास्ते परमार्थतो मुख्यमेव सर्वज्ञं शाखाचन्द्रन्यायेन शरणमाश्रिता इत्यस्खलद्वृत्त्या भावनाज्ञानभावितान्तःकरणैकगम्यमेतत्तत्त्वं परमार्थत इति ध्येयम् ।
=
=
सम्मतश्च प्रायः सर्वेषामेव दर्शनकाराणामयमेव न्यायः । इत्थमेव येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्विताः । तेऽपि मामेव कौन्तेय ! यजन्त्यविधिपूर्वकम् ।। ← (भ.गी. ९ / २३) इति भगवद्गीतावचनोपपत्तेः । तदुक्तं पाण्डवगीतायामपि → आकाशात् पतितं तोयं यथा गच्छति सागरम् । सर्वदेवनमस्कारः केशवं प्रति गच्छति ।। ← ( पां.गी. उपसंहार - ८० ) इति । एतेन शृणुते सर्वधर्मांश्च सर्वान् देवान् नमस्यति । अनसूयुर्जितक्रोधस्तस्य तुष्यति केशवः ।। ← (वि. धर्मो . १/५८) इति विष्णुधर्मोत्तरपुराणवचनमपि व्याख्यातम्, विशेषविबोधविरहदशायां प्रज्ञापनीयत्वादिगुणकलितकृतस्य परमदेवधियाऽपरमदेवभक्त्यादेरन्ततो गत्वाऽनन्यगत्या परमदेवे विश्रामात् । इत्थमेव प्रबोधचन्द्रोदयकृतः कृष्णमिश्रस्य तैस्तैरेव सदागमैः श्रुतिमुखैर्नानापथप्रस्थितैर्गम्योऽसौ जगदीश्वरो जलनिधिर्वारां प्रवाहैरिव ← (प्र.चन्द्रो.५/९) इत्युक्तिस्सङ्गच्छते । सूत्रपिटके अगुत्तरनिकायेयं किञ्चि सुभासितं सब्बं तं तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स ← ( अङ्गु. भाग ३ / स्कन्ध- १ मेत्तावग्गो-निपात-८) इति यदुक्तं तदप्येनं न्यायमधिकृत्योक्तमिति वेदितव्यम् । सौगतैरपि बुद्धो जिनत्वेनाऽभ्युपगम्यते एव । માટે અલગ-અલગ ધર્મોમાં રહેલા જેટલા પ્રાજ્ઞ ધર્મી જીવો સર્વજ્ઞની ભક્તિ કરે છે તે તમામ ધર્માત્માઓ વિશેષ પ્રકારનો નિર્ણય-બોધ ન હોવા છતાં પણ મુખ્ય સર્વજ્ઞને આશ્રયીને રહેલા છે. કારણ કે સર્વોત્કૃષ્ટ ગુણસંપન્નત્વરૂપે જેની ભક્તિ કરવામાં આવે તે વ્યક્તિ વાસ્તવમાં સર્વજ્ઞ જ હોય. તે ભક્તિ સર્વજ્ઞવિષયક
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
=
=
=