________________
• शास्तृभेदकल्पनमज्ञानम् •
१५७३
तत्त्वतः शास्त्रभेदश्च न शास्तृ ' णामभेदतः । मोहस्तद धिमुक्तीनां तद्भेदाऽऽश्रयणं ततः । । १४ । । तत्त्वत इति । तत्त्वतो = धर्मवादाऽपेक्षया तात्पर्यग्रहात् शास्त्रभेदश्च न अस्ति, शास्तॄणां धर्मप्रणेतॄणां अभेदतः । तत्तन्नयाऽपेक्षदेशनाभेदेनैव स्थूलबुद्धीनां तद्भेदाऽभिमानात् । एवाऽऽह - ततः = तस्मात् तदधिमुक्तीनां = शास्तृश्रद्धावतां तद्भेदाश्रयणं = शास्तृभेदाऽङ्गीकरणं मोहो अज्ञानं, निर्दोषत्वेन सर्वेषामैक्यरूप्यात् ।
=
=
धर्मवादाऽपेक्षया = वादद्वात्रिंशिकायां (द्वाद्वा. ८/४ भाग-२ पृ. ५४७) व्यावर्णितस्याऽघभीरुमध्यस्थतत्त्वज्ञसमारब्धकथाप्रबन्धात्मकस्य धर्मवादस्याऽभिप्रायेण गुणग्रहणप्रवणतत्त्वधिया तात्पर्यग्रहात् ऐदम्पर्यार्थाSवबोधमाश्रित्य शास्त्रभेदश्च मिथोविरुद्धाऽर्थप्रतिपादकत्वलक्षणो नास्ति, धर्मप्रणेतॄणां = धर्मशास्त्ररचयितॄणां अभेदतः श्रोतृभूमिकाऽपेक्षधर्मदेशकत्वरूपेण भेदाभावात् । शास्तृभेदाऽभावप्रयुक्तः शास्त्रभेदाऽभाव इत्याशयः । न चैवं सति बौद्ध - कापिल - जैनादिशास्त्रेषु लोकानां भेदबुद्धिः कथं स्यादिति शङ्कनीयम्, तत्तन्नयाऽपेक्षदेशनाभेदेनैव ऋजुसूत्र - सङ्ग्रहादिनयापेक्षो योऽनित्यत्व-नित्यत्वादिधर्मप्रतिपादकत्वलक्षणो देशनाविशेषः तेनैव स्थूलबुद्धीनां = नयसव्यपेक्षभेदगर्भतात्पर्यार्थाऽभेदाऽग्राहकत्वलक्षणस्थूलत्वोपेतबुद्धिशालिनां तद्भेदाभिमानात् बौद्ध-कापिल-जैनादिशास्त्रभेदाऽभिमानोदयात् । देशनायां विभिन्ननयाऽनुसरणबीजं
तु ग्रन्थकारोऽग्रे ( द्वाद्वा. २३/२७ भाग-६, पृ. १९५७) वक्ष्यति ।
=
तस्मात् = तात्पर्यार्थतः बौद्ध - साङ्ख्य- जैनादिशास्त्राऽभेदादेव शास्तृश्रद्धावतां = स्वाभिमतशास्तृश्रद्धानशालिनां शास्तृभेदाऽङ्गीकरणं = तत्तच्छास्त्रकारप्रतियोगिकैकान्तभेदोररीकरणं हि अज्ञानं विपर्ययः, निर्दोषत्वेन = परवञ्चकत्वादिलक्षणदोषशून्यत्वाऽपेक्षया सर्वेषां बुद्ध-कपिल-जिनादीनां धर्मशास्त्रकाराणां ऐक्यरूपत्वात् = अभिन्नत्वात् । यथा बहूनां निपुणतरवैद्यानां स्वरूपतो मिथोभेदसत्त्वेऽपि रोगाऽपनयनसामर्थ्याऽपेक्षयैकरूप्यं तथा बुद्ध - कपिल - जिनादीनां भवव्याधिभिषग्वराणां स्वरूपतो मिथोभेदसत्त्वेऽपि भवव्याध्यपनयनसामर्थ्याऽपेक्षया स्वाश्रिताऽवञ्चकत्वाऽपेक्षया वैकरूप्यमेवेत्याशयः ।
=
=
=
=
* તમામ સર્વજ્ઞો એક છે ક
ગાથાર્થ :- પરમાર્થથી શાસ્ત્રમાં કોઈ ભેદ નથી. કારણ કે શાસ્ત્રકર્તાઓમાં કોઈ ભેદ નથી. માટે જ શાસ્ત્રકાર પ્રત્યે શ્રદ્ધા ધરાવનારા જીવો શાસ્ત્રકારોને વિશે જે ભેદબુદ્ધિ રાખે છે તે તેમનું અજ્ઞાન छे. (२३/१४)
ટીકાર્થ :- ધર્મવાદની અપેક્ષાએ તાત્પર્યનું ગ્રહણ કરવામાં આવે તો શાસ્ત્રમાં કોઈ ભેદ નથી. કારણ કે ધર્મશાસ્ત્રના રચયિતાઓમાં પરસ્પર તથાવિધ ભેદ નથી. શ્રોતાની ભૂમિકાની અપેક્ષાએ અલગ-અલગ નયની અપેક્ષાએ જુદી-જુદી ધર્મદેશના આપવાના લીધે સ્થૂલબુદ્ધિવાળા જીવોને ધર્મશાસ્રકારોમાં ભેદનું અભિમાન = ભ્રમજ્ઞાન થાય છે. માટે જ મૂળ ગ્રંથકાર કહે છે કે શ્રોતાની ભૂમિકાને સાપેક્ષ રહીને સધર્મદેશના આપવા સ્વરૂપ સાધારણ ગુણધર્મની અપેક્ષાએ શાસ્રકારોમાં કોઈ ભેદ ન હોવાના કારણે જ ધર્મશાસ્ત્રકારો પ્રત્યે શ્રદ્ધા ધરાવનારા લોકો શાસ્રકારોમાં ભેદબુદ્ધિનો આશ્રય કરે છે તે તેઓનું અજ્ઞાન છે. કેમ કે શ્રોતાને
१. मुद्रितप्रतावत्र ‘तृ' इत्येवमशुद्धः पाठः । २. हस्तादर्शे ' ..दविमु..' इत्यशुद्धः पाठः । ३. हस्तादर्श' पेक्षतात्प..' इति पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org