________________
• शास्त्रस्वरूपविद्योतनम् •
१५७१
शास्त्रस्यैवाऽवकाशोऽत्र कुतर्काऽग्रहतस्ततः । शीलवान् योगवानत्र श्रद्धावांस्तत्त्वविद् भवेत् । । १३ । । शास्त्रस्येति । अत्र = अतीन्द्रियार्थसिद्धौ शास्त्रस्यैवाऽवकाशः, तस्याऽतीन्द्रियार्थसाधनसमर्थत्वात्, शुष्कतर्कस्याऽतथात्वात् । तदुक्तं- “गोचरस्त्वागमस्यैव ततस्तदुपलब्धितः । चन्द्रसूर्यो - धर्माऽधर्मव्यवस्थायाः शास्त्रमेव नियामकम् । तदुक्तसेवनाद् धर्मः, अधर्मस्तद्विपर्ययात् ।। ← ( ब्र.सि. १४३) इति ब्रह्म-सिद्धान्तसमुच्चयकारिकाऽवधेया । सा च सर्वज्ञाऽऽगमादेव परा, यथोक्तं श्रीहरिभद्रसूरिभिः एव शास्त्रवार्ता- समुच्चये अपि सर्वज्ञेन ह्यभिव्यक्तात् सर्वार्थादागमात् परा । धर्माधर्मव्यवस्थेयं युज्यते नाऽन्यतः क्वचित् ।। ← (शा. वा. स. १०/४७) इति । वात्स्यायनेनापि कामसूत्रे धर्मस्याऽलौकिकत्वात्तदभिधायकं शास्त्रं युक्तं ← (का. सू. २/१८) इत्युक्तम् । तदुक्तं वाक्यपदीये भर्तृहरिणाऽपि → न चाऽऽगमादृते धर्मस्तर्केण व्यवतिष्ठते ← ( वा. प. १ / ३० ) इति । योगबिन्दौ अपि अस्थानं रूपमन्धस्य यथा सन्निश्चयं प्रति । तथैवाऽतीन्द्रियं वस्तु छद्मस्थस्याऽपि तत्त्वतः । । ← (यो . बिं. ३१५) इत्युक्तम् । प्रकृते → शासनात् त्राणशक्तेश्च बुधैः शास्त्रं निरुच्यते । वचनं वीतरागस्य तत्तु नाऽन्यस्य कस्यचित् ।। ← (ज्ञा.सा. २४/३) इति ज्ञानसारवचनं यस्माद् रागद्वेषोद्धतचित्तान् समनुशास्ति सद्धर्मे । सन्त्रायते च दुःखात् शास्त्रमिति निरुच्यते सद्भिः → शास्त्रमुच्यते तद्धि यन्मातृवत् शास्ति सर्वस्मै जगते पद्मपुराणवचनञ्चाऽनुस्मर्तव्यं शास्त्रनिरुक्तिजिज्ञासुभिः ।
।।
← (प्र. रति . १८७ ) इति प्रशमरतिवचनं, हितम् ।। ← ( प. पु. ११/२०९) इति
सङ्ग्रहनयाऽपेक्षया राग-द्वैषादिद्वैतलयो यच्छ्रवणात्तच्छास्त्रमवसेयम् । एतेन किं शास्त्रम् ? श्रवणेन यस्य गलति द्वैताऽन्धकारोदयः ← (भा.वि. ८४ ) इति भामिनीविलासवचनमपि व्याख्यातम् । यथावस्थितशास्त्रबोधमन्तरेण कदाचित् तर्कादितो धर्मादिसाधनेऽपि तदङ्गीकरणं बाहुल्येन न बुधसम्मतम् । तदुक्तं → यदविज्ञातशास्त्रेण कदाचित् साधितं भवेत् । न चैतद् बहु मन्तव्यं घुणोत्कीर्णमिवाऽक्षरम् ।। ← ( ) इति भावनीयम् । अपुनर्बन्धकद्वात्रिंशिकायां (द्वा.द्वा.१४/२० भाग४ पृ.९७७) दर्शिता धर्माधर्मसाधक-शास्त्रप्रमाणावश्यकतासाधकाः शास्त्र- युक्तिसंवादा अत्राऽपि यथासम्भवमनुयोज्या धारणाकुशलैः ।।२३ / १२ ।।
तर्हि कस्याऽवकाशोऽतीन्द्रियाऽर्थसिद्धौ ? इत्याशङ्कायामाह - ' शास्त्रस्ये 'ति । अतथात्वात् अतीन्द्रियाऽर्थसाधनाऽसमर्थत्वात् । तदुक्तं योगदृष्टिसमुच्चये ' गोचर' इति । अस्य वृत्तिरेवम् गोचरस्तु गोचरः पुनः आगमस्यैव अतीन्द्रियाऽर्थः । ' कुतः ' ? इत्याह ततस्तदुपलब्धितः आगमादतीन्द्रिવિશેષાર્થ :- લાલ-પીળું રૂપ જેમ અંધ વ્યક્તિનો વિષય નથી તેમ ધર્મ, અધર્મ વગેરે અતીન્દ્રિય પદાર્થો કુતર્કના વિષય બની શકતા નથી. માટે કુતર્કના પનારે પડવા જેવું નથી. (૨૩/૧૨) * અતીન્દ્રિય વસ્તુ શાસ્રગમ્ય
ગાથાર્થ :- અતીન્દ્રિય પદાર્થની સિદ્ધિમાં શાસ્ત્રનો જ અવકાશ છે. તેથી કુતર્કને ગ્રહણ કર્યા વિના શાસ્ત્રમાં શ્રદ્ધાવાન, શીલવાન અને યોગવાન હોય તે તત્ત્વવેત્તા બની શકે. (૨૩/૧૩)
ટીકાર્થ :- અતીન્દ્રિય પદાર્થની સિદ્ધિમાં શાસ્ત્રને જ અવકાશ છે. કારણ કે શાસ્ત્ર અતીન્દ્રિય પદાર્થને સાધવામાં સમર્થ છે. શુષ્કતર્ક = કુતર્ક તો અતીન્દ્રિય અર્થને સાધવામાં અસમર્થ છે. તેથી જ યોગદૃષ્ટિસમુચ્ચય
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=
=
=