________________
• निरालम्बनज्ञानमीमांसा •
१५६९ द्विचन्द्र-स्वप्नविज्ञाननिदर्शनबलोत्थितः । धियां निरालम्बनतां कुतर्कः साधयत्यपि ॥११।।
द्विचन्द्रेति' । द्विचन्द्र-स्वप्नविज्ञाने एव निदर्शने = उदाहरणमात्रे तबलादुत्थितः (=द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थितः) कुतर्कः धियां = सर्वज्ञानानां निरालम्बनतां = अलीकविषयतां अपि साधयति ।।११।। केवललाघवस्यैवाऽऽदरे घटं प्रति केवलस्य दण्डस्यैव कारणत्वं सिध्येत् । अतो न गौरवं लाघवं वा वस्तुस्वभावनिश्चायकं किन्तु प्रामाणिकमबाधितमेव वा तथा । तच्चाऽपां दाहस्वभावत्वेऽप्यक्षतमेव । अनलस्य दाहस्वभावत्वे तु चन्द्रकान्तमणिसमवधानेऽपि दाहकत्वं स्यादेव, अनागन्तुकस्य स्वभावस्याऽपरिवर्तनीयत्वात् । न चापां दाहस्वभावत्वे तत्स्पर्शे कथं शैत्याऽनुभवः इति शङ्कनीयम्, दाहस्वभावत्वादेव तत्स्पर्श शैत्याऽनुभवात्, स्वयं शीतलस्यैव परेषां दाहजनकत्वसम्भवात्, सूर्यबिम्बगतपृथिवीकायजीवानामातपनामकर्मोदयतः तथैव दर्शनादित्येवं कुतर्कविजृम्भणे सति न केनचिद् वारयितुं शक्यते, स्वनीतिविरोधाऽऽपातात् । तदुक्तं योगदृष्टिसमुच्चये → दृष्टान्तमात्रं सर्वत्र यदेवं सुलभं क्षितौ । एतत्प्रधानस्तत्केन स्वनीत्याऽपोद्यते ह्ययम् ।। (यो.दृ.स.९५) इति ।।२३/१०।।
इहैव दृष्टान्तमप्याह- 'द्विचन्द्रे'ति । द्विचन्द्र-स्वप्नविज्ञाने = द्विचन्द्रविज्ञानं स्वप्नविज्ञानञ्च उपलक्षणादन्यदपि तथाविधविज्ञानं ग्राह्यम् । अयमाशयोऽत्र तैमिरिकादीनां नयनगततिमिरदोषवशतो द्विचन्द्रज्ञानं, स्वप्ने सामान्यनराणामपि मेरुगिर्यारोहण-सूर्यगिलनादिज्ञानं, जाग्रद्दशायामपि च मृगतृष्णिकाजलादिज्ञानं तथाविधबाह्याऽर्थव्यतिरेकेणाऽपि सञ्जायत एव । यथा चैषामलीकविषयता तथैव सर्वज्ञानानां अलीकविषयतैव । अनाद्यविद्यामुषितवैशद्यं ज्ञानमेव स्वमाकारं बाह्यतयाऽऽरोप्य ‘इदं नीलमि'त्याद्याकारेण गृह्णाति, न तु वास्तवो नीलादिरर्थः कश्चिदस्ति । अविद्यासम्बन्ध एव च ज्ञानस्य बहिरारोपेण स्वाकारग्रहणकारणम् । शश्वदविद्यासङ्गमेन बाह्यनील-पीताद्याकारानऽनवलम्बमानमपि ज्ञानं प्रसारितनयनानां 'इदं नीलं तत्पीतमि'त्याद्याकारेणोपजायते । ततश्च ज्ञानव्यतिरिक्तो बाह्याऽर्थः कश्चिदपि नास्त्येवेत्येवं ज्ञानाऽद्वैतमतमुक्तकुतर्कनिःसृतमिति भावः । तन्मतं च शास्त्रवार्तासमुच्चये → ज्ञानमात्रं च यल्लोके ज्ञानमेवाऽनुभूयते । नाऽर्थस्तद्व्यतिरेकेण ततोऽसौ नैव विद्यते ।। 6 (शा.वा.स.४/३) इत्यादिरूपेणाऽऽवेदितम् । कुतर्कनिःसृतत्वान्नैतन्मतमुपादेयम्, उदाहरणमात्रात् प्रतीतिबाधिताऽर्थाऽसिद्धेः । तदुक्तं शास्त्रતો તેને અટકાવવાનો કોઈ ઉપાય નથી. માટે આવા કુતર્કના રવાડે ચડવાના બદલે મુમુક્ષુએ આત્મસાધનામાં લાગી જવું જોઈએ. આવું જણાવવાનો અહીં ગ્રંથકારનો આશય છે.(૨૩/૧૦)
હ યોગાચારમત ઉત્થાન છે ગાથાર્થ :- દ્વિચન્દ્રવિજ્ઞાન અને સ્વપ્રવિજ્ઞાન સ્વરૂપ ઉદાહરણના બળથી ઊભો થયેલો કુતર્ક बुद्धिनी निराजनताने ५५॥ साधी मापे छे. (२७/११)
ટીકાર્ય :- કિચન્દ્રવિષયક વિજ્ઞાન અને સ્વપ્રવિષયક વિજ્ઞાન-ફક્ત આ બે જ ઉદાહરણના બળથી ઊભો થયેલો કુતર્ક તમામ જ્ઞાનોમાં નિરાલંબનતાને પણ સાધી આપે છે. જે જ્ઞાનનો વિષય ખોટો डोय ते शान निरासंबन डेवाय. (२७/११) १. हस्तादर्श 'इति' पदं नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org