________________
• आशंसापरित्यागोपदेशः •
१८३७ अहर्निशमपि ध्यातं योग इत्यक्षरद्वयम् । अप्रवेशाय पापानां ध्रुवं वज्राऽर्गलायते ।।२७।। आजीविकादिनाऽर्थेन योगस्य च विडम्बना । पवनाऽभिमुखस्थस्य ज्वलनज्वालनोपमा ॥२८॥ ___पुनरपि योगमेव स्तौति- 'अहर्निशमिति । 'योग' इति अक्षरद्वयमपि किं पुनः पञ्चनमस्कारादीन्यक्षराणीत्यपिशब्दार्थः अहर्निशं = दिवारानं श्रद्धासंवेगादिशुद्धभावोल्लास-करकुड्मलयोजनादिविधिना श्रुतं पठितं दृष्टं मतं बहुमतं अनुप्रेक्षितं ध्यातं सम्यक् परिणतं च सत् पापानां = अकुशलकर्मणां अप्रवेशाय ध्रुवं वज्राऽर्गलायते पूर्वप्रविष्टानां च भस्मीकरणाय निश्चितं दहनायते । तदुक्तं योगबिन्दौ →
अक्षरद्वयमप्येतत् श्रूयमाणं विधानतः । गीतं पापक्षयायोच्चैर्योगसिद्धैर्महात्मभिः ।। मलिनस्य यथा हेम्नो वह्नः शुद्धिर्नियोगतः। योगाऽग्नेश्चेतसस्तद्वदविद्यामलिनात्मनः ।।
-- (यो.बि.४०/४१) इति । इदमेव तत्त्वं व्यतिरेकमुखेन योगशास्त्रे → तस्याऽजननिरेवाऽस्तु नृपशोर्मोघजन्मनः । अविद्धकर्णो यो योग इत्यक्षरशलाकया ।। - (यो.शा. १/१४) इत्येवमुपवर्णितम् ।।२६/२७।।
योगविडम्बनाऽपायमाह- 'आजीविकेति । आजीविकादिना आदिपदेन पारलौकिकाऽऽशंसादिना अर्थेन = मुख्यप्रयोजनेन योगस्य = शास्त्रयोगस्य तपोयोगादेर्वा विडम्बना च = अवमानना हि पवनाऽभिमुखस्थस्य = प्रबलवेगोद्भूतमरुदभिमुखस्थस्य ज्वलनज्वालनोपमा सम्पद्यते । अत एव दशवैकालिके → (१) नो इहलोगट्ठयाए तवमहिट्ठिज्जा, (२) नो परलोगट्ठयाए तवमहिट्ठिज्जा, (३) नो कित्ति-वण्णसद्द-सिलोगट्ठयाए तवमहिट्ठिज्जा, (४) नन्नत्थ निज्जरट्ठाए तवमहिट्ठिज्जा - (द.वै.९/४/४) इत्युक्तम् । इत्थमेव तस्य मुक्तिसाधकत्वोपपत्तेः । तदुक्तं शास्त्रवार्तासमुच्चये अपि → ज्ञानयोगः तपः शुद्धमाशंसादोषवर्जितम् । अभ्यासाऽतिशयादुक्तं तद्धि मुक्तेः प्रसाधकम् ।। - (शा.वा.१/२१) इति । ततश्च मुमुक्षुणाऽऽशंसा त्याज्येत्युपदेशो ध्वन्यते । दशाविशेषे जायमाना मोक्षौपयिकाऽऽराधनहेतुभूतचित्तसमाधिसम्पादनप्रयोजकेहलौकिकेष्टफलवाञ्छा तु न योगप्रतिकूला किन्तु तदनुकूलैवेच्छाविघाताभावादिति (पृ. ११५) ललितविस्तराद्यनुसारेण ध्येयम् ।।२६/२८ ।। આવશ્યકનિયુક્તિવૃત્તિ વગેરેમાં પ્રસિદ્ધ હોવાથી અમે અહીં જણાવતા નથી. (૨૬/ર૬)
- 'योग' शE पर तारs. ગાથાર્થ :- “યોગ' આ પ્રમાણે બે અક્ષરનું પણ રાત-દિવસ ધ્યાન કરવામાં આવે તો આત્મામાં पापभनी प्रवेश न थवा माटे 4%ना मागणीयान (स्टो५२४) अम. ७३ छ. (२६/२७)
છે યોગનો દુરુપયોગ ઉપદ્રવારી ગાથાર્થ - આજીવિકા વગેરે પ્રયોજનથી જે યોગની વિડંબના કરે છે તે તો ખરેખર પવનની સન્મુખ રહેલા માણસની, અગ્નિને સળગાવવાની પ્રવૃત્તિ સમાન છે. (૨૬,૨૮)
વિશેષાર્થ:- જેમ અગ્નિ રસોઈનું સાધન છે તેમ યોગ સંસારને તરવાનું સાધન છે. પણ જે વ્યક્તિ અગ્નિની સાથે રમત રમે, પોતાના તરફ વાવાઝોડું ફૂંકાતું હોય તેવા સંયોગમાં જે વ્યક્તિ અગ્નિનો ભડકો કરે તો તે જ અગ્નિ તેને ભસ્મીભૂત કરી મૂકે છે, તેમ જે વ્યક્તિ માત્ર જીવનનિર્વાહ કરવા માટે, માત્ર
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org