________________
१८३६
• योगमाहात्म्यम् •
द्वात्रिंशिका-२६/२६
अपि क्रूराणि कर्माणि क्षणाद्योगः क्षिणोति हि । ज्वलनो ज्वालयत्येव कुटिलानपि पादपान् ।।२५।। दृढप्रहारिशरणं चिलातीपुत्ररक्षकः । अपि पापकृतां योगः पक्षपातान्न शङ्कते ॥ २६ ॥ ततः स सर्वविद् भूत्वा भवोपग्राहिकर्मणः । ज्ञानयोगात् क्षयं कृत्वा मोक्षं प्राप्नोति शाश्वतम् ।। 'ज्ञानयोगः तपः शुद्धमित्यादि यदुदीरितम् । ऐदम्पर्येण भावार्थस्तस्याऽयमभिधीयते ।। ज्ञानयोगस्य योगीन्द्रैः पराकाष्ठा प्रकीर्तिता । शैलेशीसंज्ञितं स्थैर्यं ततो मुक्तिरसंशयम् । धर्मस्तच्चाऽऽत्मधर्मत्वान्मुक्तिदः शुद्धिसाधनात् । अक्षयोऽप्रतिपातित्वात् सदा मुक्तौ तथास्थितेः । ← (शा.वा.९/२१-२४) इत्युपवर्णनमकारि श्रीहरिभद्रसूरिभिरिति ध्येयम् ।।२६ / २४ ।। इदमेव समर्थयति- ‘अपी’ति । योगः = क्षपक श्रेणिकालीनविशुद्धज्ञानयोगः क्रूराणि = निकाचितानि दारुणानि वा अपि कर्माणि ज्ञानावरणीयादीनि क्षणाद् हि क्षणेनैव क्षिणोति = अपुनर्भावेनोन्मूलयति । प्रतिवस्तूपमयैतदेव द्योतयति-ज्वलन इति व्यक्तम् । तदुक्तं योगशास्त्रे श्रीहेमचन्द्रसूरिवरैरपि → क्षिणोति योगः पापानि चिरकालार्जितान्यपि । प्रचितानि यथैधांसि क्षणादेवाऽऽशुशुक्षणिः ।। ← (यो.शा. १/ ७ ) इति ।।२६ / २५ ।।
=
अत्रैवाऽवशिष्टमाह- 'दृढे 'ति । दृढप्रहारिशरणं → स्त्री-भ्रूण - गो-ब्राह्मणघातजातपापादधःपातकृताऽऽभिमुख्याः । दृढप्रहारिप्रमुखाः समाधिसाम्याऽवलम्बात् पदमुच्चमापुः ।। ← ( वै.क.ल. १ । २५८) इति वैराग्यकल्पलतावचनात् ब्रह्म- साधानस्त्री-भ्रूण - धेनुघातक - दृढप्रहारिनामकस्तेनस्य हस्ताऽवलम्बनं, चिलातीपुत्रधनदुहितृ-सुसुमावधशूरचिलातीपुत्राऽभिधानलुण्टाकसंरक्षकः, चतुर्वर्गेऽग्रणीर्मोक्षो योगस्तस्य
रक्षकः =
च कारणम् । ज्ञान-श्रद्धान - चारित्ररूपं रत्नत्रयं च सः ।। ← (यो . शा. १ / १५ ) इति योगशास्त्रवचनाऽनुसारेण सम्यग्दर्शन-ज्ञान-चारित्रलक्षणो योगः पक्षपातात् = स्वभावाऽनुसारिसदनुग्रहात् पापकृतां अपि न शङ्कते = 'इमे पापकृत इति न मया मोक्षमेते नेतव्या' इति नैव विमृशतीति भावः । इदमेवाऽभिप्रेत्य योगशास्त्रे → ब्रह्म-स्त्री-भ्रूण-गोघातपातकान्नरकाऽतिथेः । दृढप्रहारिप्रभृतेर्योगो हस्ताऽवलम्बनम् ।। तत्कालकृतदुष्कर्मकर्मठस्य दुरात्मनः । गोप्त्रे चिलातीपुत्रस्य योगाय स्पृहयेन्न कः ? ।। ← (यो.शा. १/१२-१३ ) इति प्रोक्तं श्रीहेमचन्द्रसूरिभिः ।।२६ / २६ ।
=
ગાથાર્થ :- ક્રૂર એવા કર્મોને પણ ક્ષણ વારમાં યોગ ખતમ કરે છે. ખરેખર કુટિલ એવા પણ वृक्षोने अग्नि सजगावे ४ छे. (२६ / २५)
*
પાપીઓને પણ યોગ તારે
ગાથાર્થ :- યોગ દૃઢપ્રહારીનું શરણ હતો. યોગ જ ચિલાતીપુત્રનું રક્ષણ કરનાર હતો. ખરેખર પાપકરનાર જીવોને વિશે પણ ‘આ પાપી જીવોને મારે મોક્ષે નથી લઈ જવા' આ પ્રમાણે પક્ષપાતથી શંકાશીલ વિચારસરણીને યોગ અપનાવતો નથી. (૨૬/૨૬)
વિશેષાર્થ :- વરસાદ જેમ પક્ષપાત વિના સર્વત્ર વરસે છે. સૂર્ય પક્ષપાત વિના જેમ બધે પ્રકાશ પાથરે છે. તેમ યોગ પણ પક્ષપાત વગર પાપી-ધર્મી સહુ જીવોને તારવાનું કામ કરે છે. બ્રહ્મ-સ્ત્રીબાલ-ગોહત્યા કરનાર દૃઢપ્રહારી અને સુષમાનું ડોકું ધડથી જુદું કરનાર ચિલાતીપુત્રનું ઉદાહરણ યોગશાસ્ત્ર,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org