________________
• सर्वज्ञत्वलाभकारणप्रदर्शनम् •
१८२१
स्थितस्येति । केवलं (सत्त्व - पुरुषान्यताख्यातौ = ) सत्त्व - पुरुषयोरन्यताख्यातौ गुणकर्तृत्वाभिमानशिथिली भावलक्षणायां शुद्धसात्त्विकपरिणामरूपायां स्थितस्य च सार्वज्ञ्यं सर्वेषां शान्तोदिताऽव्यपदेश्यधर्मत्वेन स्थितानां यथावद्विवेकजं' ज्ञानलक्षणम्, सर्वेषां भावानां (सर्वभावानां =) गुणपरिणामानां अधिष्ठातृत्वमेव च स्वामिवदाक्रमणलक्षणं भवति । तदुक्तं- “सत्त्व-पुरुषाऽन्यताख्यातिमात्रस्य सर्वभावाऽधिष्ठातृत्वं सर्वज्ञत्वं च " ( यो . सू. ३-४९ ) ।।१७।।
=
यदर्थाः तस्याः सत्त्वपुरुषाऽन्यताख्यातेरवान्तरविभूतीर्दर्शयन्नाह - 'स्थितस्ये 'ति । ग्रहीतृसंयमाऽभ्यासे प्रथमं हि निर्धूतरजस्तमोमलतया चित्तस्य परवैशारद्यं परमस्वच्छत्वमतिसूक्ष्मवस्तुप्रतिबिम्बोद्ग्रहणसामर्थ्यलक्षणमुपजायते। ततः परा वशीकारसंज्ञाऽऽविर्भवति । प्राक् चित्तसत्त्वं स रजस्तमोभ्यामुपप्लुतं ह्यवश्यमासीत् । तदुपशमे तु तद्वश्यं योगिनो वशिनः । तस्मिन् वश्ये सति योगिनः केवलं सत्त्व-पुरुषयोः गुणकर्तृत्वाऽभिमानशिथिलीभावलक्षणायां = 'नाहं कर्ता भोक्ता वा' इत्येवं त्रिगुणसाम्याऽवस्थाऽऽपन्नप्रधानगतकर्तृत्वभोक्तृत्वप्रतियोगिक-स्वनिष्ठाऽध्यारोपात्मकाऽहङ्कारशैथिल्यरूपायां अन्यताख्याती = विवेकख्यातौ = विवेकशुद्धसत्त्वगुणप्रधानचित्तपरिणामरूपायां
धारणा-ध्यान-समाधिसमभिव्याप्तौ शुद्धसात्त्विकपरिणामरूपायां
=
=
तेन रूपेण वर्तमानस्य सर्वेषां गुणानां शान्तोदिताऽव्यपदेश्यधर्मत्वेन = अतीताऽध्वप्रविष्टवर्तमानाऽध्वनिष्ठाऽनागताऽध्वाऽवस्थितरूपतया स्थितानां वर्तमानानां अक्रमोपारूढं यथावद् विवेकजं विवेकेन जायमानं ज्ञानलक्षणं सार्वज्ञ्यं
= यथार्थं
सर्वज्ञातृत्वं भवति । अनेन ज्ञानैश्वर्यमुक्तम् । क्रियैश्वर्यमाह- सर्वेषां गुणपरिणामानां अयस्कान्तलोहवदुपस्थानलक्षणं यद्वा स्वामिवद् आक्रमणलक्षणं अधिष्ठातृत्वं भवति । 'सर्वभावाऽधिष्ठातृत्वं = सर्वात्मानो गुणा व्यवसाय - व्यवसेयात्मकाः स्वामिनं क्षेत्रज्ञं प्रति अशेषदृश्याऽऽत्मत्वेनोपस्थिता इत्यर्थः ' (यो.सू.भा. ३/४९) इति योगसूत्रभाष्ये व्यासः । ‘सङ्कल्पमात्रेण पुरुषैः संयुक्ता असंयुक्ताश्चाऽशेषभोग्यवस्त्वाकारेण परिणता भूत्वोपतिष्ठन्ते योगिनमिति ( यो. वा. ३/४५) योगवार्तिके विज्ञानभिक्षुः । ' सर्वभावाऽधिष्ठातृत्वं ईश्वरवत् प्रकृति-पुरुषविकाराणां स्वेच्छया प्रेरयितृत्वमिति ( भा.ग.वृ.३ / ४९ ना.भ.वृ.) भावागणेश-नागोजीभट्टौ । 'सर्वेषां भावानां प्रधानतत्परिणामानामधिष्ठातृत्वं नियन्तृत्वमिति (म. प्र.वृ. ३ / ४९) मणिप्रभाकृत् ।
प्रकृते योगसूत्रसंवादमाह 'सत्त्वे 'ति । अत्र राजमार्तण्डव्याख्या तस्मिन् शुद्धे सात्त्विके परिणामे कृतसंयमस्य या सत्त्व-पुरुषयोरुत्पद्यते विवेकख्यातिर्गुणानां कर्तृत्वाऽभिमानशिथिलीभावरूपा तन्माहात्म्यात् तत्रैव स्थितस्य योगिनः सर्वभावाऽधिष्ठातृत्वं सर्वज्ञातृत्वञ्च समाधेर्भवति । सर्वेषां गुणपरिणामानां भा
स्थितस्य
-
-
=
=
ટીકાર્થ :- ‘પ્રકૃતિ અને પુરુષ આ બન્ને તદ્દન ભિન્ન-ભિન્ન સ્વતંત્ર પદાર્થ છે.’ આ પ્રમાણે ભેદજ્ઞાન થવાથી સત્ત્વાદિ ગુણોમાં કર્તૃત્વનું અભિમાન શિથિલ થાય છે. આ જ અન્યતાખ્યાતિ = અન્યતાજ્ઞાન તાત્ત્વિક કહેવાય છે. તે અન્યતાખ્યાતિ શુદ્ધ સાત્ત્વિક પરિણામસ્વરૂપ છે. જે યોગી માત્ર આવી વિવેકખ્યાતિમાં રહે છે તેને સર્વજ્ઞતા મળે છે. અર્થાત્ તે યોગી શાન્ત, ઉદિત અને અવ્યપદેશ્ય ગુણધર્મ તરીકે રહેલા તમામ ભાવોનું યથાર્થરૂપે જ્ઞાન વિવેકખ્યાતિના કારણે મેળવે છે. તથા સત્ત્વાદિ ગુણોના તમામ પરિણામોને વિશે તે વિવેકખ્યાતિસંપન્ન યોગી માલિકની જેમ આધિપત્ય ધરાવે છે. તેથી યોગસૂત્રમાં જણાવેલ છે કે → ‘પ્રકૃતિ અને પુરુષમાં કેવળ ભેદખ્યાતિ ધરાવનાર યોગી સર્વ ભાવોના અધિષ્ઠાતા = સ્વામી બને છે તથા સર્વજ્ઞ બને છે.’ – (૨૬/૧૭)
१. हस्तादर्शे '... विवेकजज्ञान...' इति पाठान्तरः । २ हस्तादर्शे ...क्रमणलक्षणलक्षणं' इति अधिकः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org