________________
• महाविदेहा मनोवृत्तिः
१८११
=
प्राप्ताऽभ्यन्तरलघुभावतया अम्बरे आकाशे गतिः स्यात् । उक्तसंयमवान् प्रथमं यथारुचि जले सञ्चरन् क्रमेणोर्णनाभतन्तुजालेन सञ्चरमाण आदित्यरश्मिभिश्च' विहरन् यथेष्टमाकाशे गच्छतीत्यर्थः। तदुक्तं- “कायाऽऽकाशयोः सम्बन्धसंयमाल्लघु 'तूलसमापत्तेरा (श्चा) काशगमनम् ” (यो.सू.३-४२) । शरीराद् बहिर्या `शरीरनैरपेक्ष्येण मनोवृत्तिः सा महाविदेहा इत्युच्यते, शरीराऽहङ्कारविगमात् । ऽभ्यन्तरलघुभावतया = लब्धाऽऽन्तरलाघवपरिणामतया आकाशे गतिः स्वेच्छया गमनं स्यात् । उक्तसंयमवान् लघुर्भवति, ततो लघुतया प्रथमं यथारुचि जले पृथिव्यामिव पद्भ्यां सञ्चरन् क्रमेण कालक्रमेण प्राप्ताऽतिलघुभावतया उर्णनाभतन्तुजालेन कोलिकलालामयतन्तुसन्तानेन सञ्चरमाणः पश्चात् लघिष्ठतया आदित्यरश्मिभिश्च विहरन् तदुत्तरं यथेष्टं आकाशे गच्छतीत्यर्थः । तदुक्तं योगसूत्रे 'कायाऽऽकाशयो 'रिति । अत्र योगसूत्रभाष्यं यत्र कायस्तत्राऽऽकाशं तस्याऽवकाशदानात् कायस्य तेन सम्बन्धः प्राप्तिः। तत्र कृतसंयमो जित्वा तत्सम्बन्धं लघुषु वा तूलादिषु आपरमाणुभ्यः समापत्तिं लब्ध्वा जितसम्बन्धो लघुर्भवति । लघुत्वाच्च जले पादाभ्यां विहरति । ततः तूर्णनाभितन्तुमात्रे विहृत्य रश्मिषु विहरति । ततो यथेष्टमाकाशगतिरस्य भवति ← (यो.सू.भा.३/४२) इत्थं वर्तते । एतेन → कायाकाशसंयमादाकाशगमनम् ← ( शां. १ / ६९) इति शाण्डिल्योपनिषद्वचनमपि व्याख्यातम् । जले गच्छन् तु जैनमते जलचारणविधया व्यवह्रियते । तदुक्तं प्रवचनसारोद्धारवृत्तौ वापीसरित्-समुद्रादिषु जलमुपेत्याऽप्कायिकजीवानविराधयन्तो जले भूमाविव पादोत्क्षेप - निक्षेपकुशला जलचारणाः ← (प्र.सारो.६०१ वृत्ति- पृ. ४९० ) इति । सूर्यकिरणावलम्बनेनाऽऽकाशगमनं तु स्वमते जङ्घाचारणमुनीनां भवति । तदुक्तं प्रवचनसारोद्धारवृत्ती श्रीसिद्धसेनसूरिभिः जङ्घाचारणा यत्र कुत्राऽपि गन्तुमिच्छवस्तत्र रविकरानपि निश्रीकृत्य गच्छन्ति ← (प्र. सारो. ५९७, वृत्ति) इति । ज्योतीरश्मिचारणा अप्येवंविधा भवन्ति । तदुक्तं श्रीहेमचन्द्रसूरिभिरपि योगशास्त्रवृत्ती → चन्द्रार्कग्रहनक्षत्राद्यन्यतमज्योतीरश्मिसम्बन्धेन भुवीव पादविहारकुशलाः = ज्योतीरश्मिचारणाः ← (यो . शा. १ / ९ - वृत्ति-पृष्ठ २८ ) ।
क्लेश-कर्म-विपाकक्षयहेतुमावेदयितुमुपक्रमते- 'शरीरादि ति । न च शरीराद् बहिर्वर्तमानतया 'विदेहा'
विगतदेहाऽहङ्कारदार्थ्यादेव हेतोः
=
=
=
•
=
=
इत्येवोच्यतां ‘महाविदेहा’ कथम् ? इति शङ्कनीयम्, अत एव કરોળીયાની જાળ વડે કરોળીયાની જાળને પકડીને ચાલે છે. અને પછી સૂર્યના કિરણોને પકડીને ઈચ્છાનુસાર આકાશમાં દોડે છે, ઉડે છે. આવી આકાશગામિની સિદ્ધિને વિશે પાતંજલ યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે → ‘શરીર અને આકાશના સંબંધને ઉદ્દેશીને સંયમ (= ધારણા-ધ્યાન-સમાધિને કેન્દ્રિત) કરવાથી હળવા રૂની સમાપત્તિ થવાના લીધે યોગી પુરુષ આકાશમાં ગમન કરી શકે છે.' - शरीरा.। शरीरनी जहार शरीरथी निरपेक्षपो के मनोवृत्ति अली थाय छे ते महाविदेहा वृत्ति કહેવાય છે. કારણ કે તેવી ચિત્તવૃત્તિમાં શરીર પ્રત્યેનો અહંકારભાવ શરીરમાં અહંભાવ રવાના થયેલ હોય છે. માટે જ તે વૃત્તિ અકલ્પિત હોવાથી મહાન છે. જો દેહમાં અહંભાવ રહેલો હોય તો મનની બાહ્ય વૃત્તિ કલ્પિત વૃત્તિ કહેવાય છે. મહાવિદેહા વૃત્તિ ઉપર સંયમ કરવામાં આવે તો તેના કારણે શુદ્ધ સત્ત્વગુણસ્વરૂપ પ્રકાશનું જે ક્લેશ-કર્માદિસ્વરૂપ આવરણ છે તેનો ક્ષય થાય છે. મતલબ
१. हस्तादर्शे 'रश्मिनिश्च' इत्यशुद्धः पाठः । २ हस्तादर्शे 'लघुत्तल' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'शरतैर...'
इत्यशुद्धः पाठः । www.jainelibrary.org
Jain Education International
For Private & Personal Use Only
=
=